484
इति ब्रुवन् ग्राह्यग्राहकयोरेवारोपनिषेधं प्रति भासमानस्यैवापवादनिषेधमाह । तत्राभूतं
ग्राह्यग्राहकद्वयं परिकल्प्यतेऽनेनास्मिन् वा पृष्ठजविकल्पद्वारेत्यभूतपरिकल्पः । तदेव
विस्तरेण दर्शयन् सभाष्यः सूत्रालंकारः,

यथा माया तथाभूतपरिकल्पो निरुच्यते ।
यथा मायाकृतं तद्वद् द्व्यभ्रान्तिर्निरुच्यते ॥

यथा मायामन्त्रपरिगृहीतं भ्रान्तिनिमित्तं काष्ठलोष्टादिकं तथाऽभूतपरिकल्पः
परतन्त्रस्वभावे वेदितव्यः । यथा मायाकृतं तस्यां मायायां हस्त्यश्वसुवर्णाद्याकृतिस्तद्
भावेन प्रतिभासिता, तस्मिन्नभूतपरिकल्पे द्वयभ्रान्तिर्ग्राह्यग्राहकत्वेन प्रतिभासिता
परिकल्पितस्वभावाकारता वेदितव्या । अत्र भाष्ये काष्ठलोष्टादिकमिति प्रवीणशिल्पि
रचितहस्त्यादिसंस्थानं चित्रितं च सम्यक्प्रयुक्तम् । लोष्टं मन्त्रादिपरिग्रहात् विकृतेन्द्रिय
ज्ञानधर्मपीताद्याभासपरिकरितम् । आदिशब्दान्मृण्मयपाषाणादिपरिग्रहः । यथा माया
कृतमिति व्याख्येयानुवादः । तस्यां मायायामिति कृत्रिमहस्त्यादौ । उपलक्षणमेतद्
यथो