367

११ ॥ साकारसिद्धिशास्त्रम् ॥

प्रथमः परिच्छेदः

विधूतकल्पनाजालगम्भीरोदारमूर्तये ।
नमः समन्तभद्राय समन्तस्फुरणत्विषे2541
जीयान्मुनीन्द्रमतवार्तिकभाष्यकारः
साकारसिद्धिनयनाटकसूत्रधारः ।
संसारनिर्वृतिपथप्रथमानगर्व-
सर्वारिवीरदुरतिक्रमविक्रमश्रीः ॥
विज्ञप्तिमात्रमखिलं स्थितमेतज्जगत्त्रयम् ।
तत्रावान्तरभेदस्य बलाबलमिहोच्यते ॥

तथा हि बहिरर्थदूषणादिक्रमेण,

बाह्यं न तावदिदमेव यतः प्रकाश
रूपं स्वतो नियमतश्च सहोपलब्धेः ।
युक्त्या न चान्यदिह संभवि संभवेऽपि
न ग्राह्यलक्षणमतो मतिमात्र
  1. प्र. वा. १. १.