557
जलाकारविकल्पोऽपि जलाकारादकल्पतः ।
भवन्नपि न तन्मात्राद् वासनासचिवा त्वसौ ॥ १६२ ॥
तद्वासनासमुद्घाते केवलान्नाविकल्पतः ।
ग्राह्यग्राहकभावादेरभूतस्य विकल्पनम् ॥ १६३ ॥
निर्विकल्पमपि ज्ञानं हेतुश्चेद् वासनाश्रयात् ।
यथाप्रवृत्ताकारस्य तत्क्षयेऽस्तूदयक्षयः ॥ १६४ ॥
आ बोधिचित्तग्रहणाद् दानाद्यभ्यासतः क्रमात् ।
अतिविश्ववपुर्भोगप्रतिष्ठाकारसंभवः ॥ १६५ ॥
आसंसारमविश्रामपरार्थस्वार्थसंपदे ।
रुचेस्तदेकनिष्ठत्वात्तद्धेतावसमः श्रमः ॥ १६६ ॥
महाकारुण्यसम्पन्नपुण्यज्ञानश्रियान्ततः ।
विशुद्धिवासनाबन्धप्रबन्धस्थैर्यसाधनः ॥ १६७ ॥
तत्रासत्कल्पना कालः संक्लेशः शुद्धिरुत्तरः ।
साकार एव विज्ञाने तस्मादेषा व्यवस्थितिः ॥ १६८ ॥
अद्वैतचित्रगुणसंभृतशातपूर्ण
साधारधेयमयमण्डनचक्ररूपम् ।
साध्यं विधूय न च सन्तनयोऽपि सारः
साकारनीतिरिति नीतिपुगस्य जीवः ॥ १६९ ॥
दृष्टं शर्मविशिष्टसाधनपराधीनं यथा भावना
प्यस्योदेति तथैव यत्सुखरसाकृष्टाङ्गनादेरपि ।
निष्पत्तौ च तथा निरन्तरसुखस्यन्दाभिनन्द्याकृतौ
बाधाबाधविधौ समेतरतया शर्मैकशेषोऽस्तु किम् ॥ १७० ॥

अन्तरश्लोकौ ॥

॥ इति धर्मकायचिन्तामशेषआमारभ्य संक्लेशव्यवदानपर्यन्त
शास्त्रकारान्तरैकवाक्यतानिर्णयस्तृतीयः परिच्छेदः ॥