क्षणभङ्गाध्याये
द्वितीयः पादः—अन्वयाधिकारः
नाप्ययं विरुद्धो हेतुः, सपक्षीकृते जलभृति160 दर्शनात्, साध्यविपर्ययव्याप्तिलक्ष
णस्य विरुद्धस्य साध्यवति दर्शनानुपपत्तेः । ननु साहसमेतत्, क्वचिदपि धियः क्षण
भङ्गगोचरीकरणसामर्थ्यानुपलब्धेः, तथावसायाभावात् । न च161 प्रमाणबलावलम्बनाद्
अम्बुदे क्षणभङ्गसिद्धिः । प्रत्यक्षतो हि स एवायं तोयद इति प्रत्यभिज्ञानमस्य काला
न्तरस्थायितामेवोपस्थापयति । तद्बाधितत्वाच्चानुमानमनवकाशम् । न चानुमान
मन्यदस्ति । सत्त्वानुमाने च पुनर्निदर्शनान्तरसमीक्षायामनवस्थाप्रसंगः । तस्मात्
सपक्षेऽदर्शनात् न 162विरोधपरिहारः । विपक्षीभूतेऽम्भोभृति भावाच्च अविरोध एवानै
कान्तिकत्वस्यासत्त्वस्य । पक्षे च क्षणभङ्गप्रतिज्ञायाः प्रत्यक्षबाधा ।
यदाह शंकरः, 5b प्रत्यक्षेणैव स्थितिविपर्ययाभावस्य सिद्धत्वादिति । न
चायमेकताग्रहः पूर्वापरकालयोरप्रमाणम्, संवादित्वात् । तथा च न्यायभूषणः, यथा
चेदमसत्कार्यमित्यस्याः प्रतीतेर्विसंवादाभावादेव प्रामाण्यं, 163तथाऽनेनैतानि क्रमेण
कृतानि न युगपदिति प्रतीतेः, स एवाहं164 स एवायं स्फटिक इत्येवमादिप्रत्यभिज्ञायाश्च
विसंवादाभावादेव प्रामाण्यमेष्टव्यम्, तुल्ययोगक्षेमत्वादिति । तदेतदसंगतम् ।
अलिङ्गस्य हि विकल्पस्या165 विसंवादो नामार्थक्रियाप्राप्तिः, 166प्रमाणान्तरसंगतिर्वा167 स्यात् ।
तत्र स एवेत्यध्यवसायमात्रान्नापरप्रमाणवृत्तिरत्र । अर्थक्रियापि नैकप्रतिबद्धा 168सिद्धा
काचित्169, भिन्नेनापि तत्समानशक्तिना तादृगर्थक्रियायाः करणाविरोधात्, तथाहि
यथैको घटो वारि धारयतीति तत्कालभाविनोऽप्यन्यस्य न वारिधारणम्, तथा द्वितीय
क्षणेऽप्यन्यो यदि वारि धारयति तदा170 कीदृशो दोषः स्यात् ? विसदृशक्रियायां तु
चिन्तैव नास्ति । तस्मात् यथा पावकादेः पाकादिक्रिया प्रतिबद्धा सिद्धानुभूयमाना
12
दहनज्ञानस्य संवादमापादयति, न तथा प्रथमचरमकालयोरेकीभावप्रतिबद्धा171 काचित्
क्रियोपलब्धिगोचरा172, ययैकभावग्रहोऽपि संवादी स्यात् ।
सर्वेषां सर्वदैकाध्यवसायसाम्यात् किमपरसंवादापेक्षयेति173 चेत्—न,
असिद्धत्वात् । यद्यपि हि समानशक्तिभिरेकत्वमवसेयं तथापि सर्वैरिति
न शक्यमसर्वविदा । अतीन्द्रियदर्शिनां 174सुरमुनियोगिनामुल्लंघनीयतया तेषु कश्चित्
कदाचित् क्षणभङ्गदर्शी175 यदि स्यात्, न विरोधः176 । अधिकाधिकशक्तिदर्शनं च
संभावनाबीजम् । यदि तु स्वभाव एवायं क्षणभङ्गनामा न भवति न तैर्ग्रहणमिति,
युक्तमेतत् । तच्च निरूपयितुमारब्धम् । अतो यावन्न स्वभावसिद्धिः, तावन्न
सर्वेषां क्षणध्वंसनिषेधाध्यवसायसिद्धिः177 । अतीन्द्रियदर्शिद्वेषिणो हि178
नानुपलब्धिमात्रेण निषेधमभिदधानाः179 साधवः, अतिप्रसङ्गात् । योग्यानुपलब्धिस्तु
देशादिविप्रकर्षिण्यसमर्थेत्यास्तां तावत्180 । कतिपयसंप्रतिपत्तिस्तु तैमिरिककलित
केशादिष्वपि संभविनी न संवादमवस्थापयितुं शक्नोति । एतच्च प्रत्यक्षापेक्षयोच्यते ।
अनुमानतस्तु क्षणभेदे भावभेदं प्रतियन्तः किमिहापि परिषदि निषेद्धुं शक्यन्ते,
तत्साधनाभ्यासस्य क्वचिदनिवारणात् ? तस्मान्न सर्वेषामध्यक्षकृतोऽनुमानात्मा181 वा
एकाध्यवसायो नियमेन भेदाध्यवसायनिषेधो वेति न182 प्रमाणान्तरवत् संवादसंवा
दितमस्य प्रामाण्यम्, लूनपुनर्जातकेशकुशकदलकाण्डादिषु183 6a व्यभिचाराच्च । यत्
पुनरनेन विशेषवचनाभिमानिनाभिहितम्, अथ विसंवादिन्यपि प्रत्यभिज्ञा दृश्यते ।
कार्यकारणभावप्रतीतिः किं विसंवादिन्यपि न दृश्यते ? या विसंवादिनी सा कार्य
कारणप्रतीतिरेव न भवति, अप्रमाणत्वादिति चेत् ? समानमत्रापि । विसंवादिनी
या सा प्रत्यभिज्ञैव न भवति तदाभासत्वादिति ।
स्यादेतत्, यदि कार्यकारणभावप्रतीतिवल्लक्षणभेदः184 प्रतिपादयितुं शक्येत ।
तथाहि कार्यकारणभावप्रतीतावपि यदि वस्तुमात्रेण जननं धूमादेर्गृह्णीयात्185, गर्दभा
दिव्यभिचारेण वह्नावपि हस्तकं त्यजेत् । एवमन्वयमात्रेण186 व्यतिरेकमात्रेण187 वा
यथायोगं भाव्यम् । यदा पुनरन्वयव्यतिरेकग्रहणप्रवणप्रत्यक्षानुपलम्भसम्भवः कार्य
कारणभावप्रत्ययः पुरस्क्रियते, यथा 188निर्णीतमस्माभिः त्रिकपञ्चकचिन्तायाम्—
13
इति, तदा त्वव्यभिचारः189 ।
एवं यदि प्रत्यभिज्ञानेऽपि लक्षणभेदो दर्शितः स्याद् दर्शयितुं वा शक्यो व्यभि
चाराव्यभिचारोपयोगी, तदा युक्तमेतत् । न चैवमस्ति, सर्वत्रात्यन्तसदृशवस्तुनि190
पृथग्जनप्रत्यभिज्ञाया एकरसत्वात् । यदि चावश्यमेतावता कालेन भ्रान्तिभ्रंशो191
भवतीति कालनियमः स्यात्, तदाप्युचितमेतत् । यावता छिन्नोद्भिन्नकेशपाशादौ
पुरुषायुषक्षयेणापि नैकताभ्रमभ्रंशोऽवश्यं यत्नवतो भवत्येवेति चेत्—न, तत्रापि
नियमाभावात् । प्रयतमानस्यापि हि वचनमात्रमप्रमाण192मुपपत्त्यन्तरं च दुर्लभम् ।
यदि चोपपत्त्यन्तरं प्रत्यभिज्ञासिद्धैकत्वबाधकम्, प्रस्तुतेऽपि किं नैवमास्थीयते ? केवलं
प्रत्यभिज्ञयातीतमनुमानं वराकमसमर्थमिदानीं केशादौ तव193 वचनमात्रमपि सम
र्थमिति महती परामर्शशक्तिः । भिन्नेऽपि केशादावभेदाध्यवसायदर्शनाद् भवतु तत्र
यथाकथञ्चिद् भेदसंप्रत्यय194 इति चेत्—न, अन्यत्रापि बहुलं तथा दर्शनात् । न हि
स्तम्भमेकमपनीय निवेशिते सदृशे स्तम्भान्तरे न भवत्येव प्रत्यभिज्ञानम् ॥
एवं घटपटस्फटिकादिष्वपि यत्र यावदत्यन्तसदृशलाभः । भिन्नकालदर्शने
चायं न्यायः । समसमयं तु अयोगोलकयुगलोपलम्भेऽपि195 भवत्येव भेदव्यवसायः196 ।
तस्मात् कालभेदेनैकाभिमतेऽपि स्तम्भादौ भिन्न एव197 किमयमेकत्वाध्यवसायः198
स्तम्भान्तरेणेव ? अथाभिन्न इति संशयः प्रत्यभिज्ञायाः प्रामाण्यप्रतिषेधी कथं
निषेध्यः ?
अथ 199क्षणभेदेनाभेदस्यादृष्टपूर्वत्वान्न200 संशय इति चेत्—नैतदपि साधु ।
न ह्यदृष्टमित्येव नास्तीति शक्यते वक्तुम्, सतोऽपि सूक्ष्मतयाऽनुपलक्षणात्201 । तत्क्षणो
दयव्यय202 6b देहोपचयापचयवत् । ततोऽनुपलक्षणेऽपि203 भेदस्य सत्ताङ्गोल्लेखशेखरो204
दुर्निवारः संशयः । एतावद्विमर्शाभावे तु इतरजनस्य निश्चल एकावसायः स्यात् ।
यौक्तस्तु सोऽपि205 संशय एव । किं च क्षणभेदेनापि भेदः प्रमाणपरिदृष्टत्वाद् दृष्ट एव ।
14
यथा धारादौ कियत्यपि नभोभागेऽपरापरपयःपातेऽपि तदेवेदमुदकमित्यवधारणस्य
विपर्ययस्थितेश्च206 संभवात् ।
अनभ्यासदशायामेकताग्रहः तत्र207 स्तम्भादौ त्वभ्यासवतोऽपीति चेत् ? ननु
क्षणभेदभाविनि विशेषे208 सर्वत्रैवास्मादृशोऽनभ्यास इत्युपपादितमेव । अम्भःस्तम्भादौ
तु 209तत्क्रियासार्थसामान्यालम्बनः सर्वत्राभ्यासः स्थूलविषयः । तस्मान्न प्रत्यक्षेण
क्षणद्वये210 अभेदसाधनव्यापारः स्वीकर्तुं शक्यः । एकावसायमात्रं तु सदपि व्यभिचारा
दसमर्थम् ।
ननु सर्वत्र नीलादौ पृष्ठभाविना विकल्पेन211 प्रत्यक्षस्य व्यापारोऽनुगम्यमानः
प्रामाण्यमुपनयति । तदेकतावसायोऽप्येकविषयमेव प्रामाण्यमस्य दीपयत्विति चेत्—न
खलु सर्वत्र पृष्ठभाविविकल्पविषये212 प्रामाण्यमिन्द्रियज्ञानस्य । मरीचिविषयस्यापि
जलावसाये जलविषये213 प्रामाण्यप्रसङ्गात् । विकल्पापेक्षं तु प्रामाण्यमिति तदनुदये
न214 प्रामाण्यमिति न्यायः । तदुदये तु 215संवादापेक्षमेव तत् । न चैकाध्यवसायस्य
संवादः216 स इत्यावेदितमेतत् ।
ननु यत्र217 बाधः, तत्राप्रामाण्यमबाधिते प्रामाण्यमिति किं न पर्याप्तम् ? 218इयं
गतिरवनतगगनप्रतिभासेऽपि देशकालनरान्तरव्यापिनी संभवति, निरूप्यमाणा त्रुट्य
तीति219 प्रत्यभिज्ञायामपि समानम् ।
किं चायमबाधो नाम बाधाविरहो बाधानुपलब्धिर्वेति विकल्पयोः क्रमाद्
असिद्धिरनेकान्तश्च220 दुष्प्रतिविधानः । अनुपलब्धिमात्रेण निषेधासिद्धेः221, बाधकस्य
चानुमानस्याभिधास्यमानत्वात् । अथ प्रत्यक्षसमाख्यातेयं प्रत्यभिज्ञा, कथमनुमानेन
बाध्यते ? न 222चाबाध्यत्वप्रतिज्ञानाद्वाधकस्य223 सद्भावचिन्तावकाशेऽनुमानस्याप्यवकाशः
स्वयमेव दत्तः । प्रामाण्यस्यैव सिद्धिबाधनयो224रधिकारात्, प्रत्यक्षमेवास्या बाधकम्
अस्त्विति चेत्—संवादद्रढिम्नि प्रत्यक्षशतेनापि किमस्याः ? ततः प्रत्यक्षेणापि बाधनमस्याः
संवादशैथिल्यं संभावयदनुमानमपि सन्निधापयति ।
अपिच मायाकरः शिरसि निमज्जितं गोलकमास्येन निःसारयतीति प्रत्य
भिज्ञा शिरसि छिद्रप्रसङ्गसङ्गतेनानुमानेन बाध्यमाना किं नोपलब्धा ? बाध्यमाना
न प्रत्यक्षमिति प्रस्तुतेऽप्यस्तु । अतः प्रत्यक्षत्वकीर्तनमस्या याचितकमण्डनमात्रमत्रा
णम् । यथा चावनताकाशप्रतिभासः सर्वसंप्रतिपत्तावपि नाबाध्य225 एव, तथा नाविसं
वाद्येवेत्यपि व्यक्तम् । तद्वदेव चैकताग्रहः 7a सर्वसंप्रतिपत्तावपि नाविसंवादी ।
नहि तदपराध्यवसायोदयमन्तरेण प्रणताम्बरसंवेदने स एवायमिति प्रत्ययेऽपरः
संवादोऽर्थक्रियादिस्वभावः226 संभवति । अतश्च बाधकाभावेऽपि227 नामाप्रामाण्यव्यव
हारोऽशक्यसाधनः । तद्वदेव228 संवादेन प्रामाण्यमन्वशासतः229 तदभावात् प्रामाण्य
व्यवहारोऽपि कुतः प्रत्यभिज्ञायाः ? उभयनिश्चयाभावे च तदुभयावलम्बी संशयः
सिद्धः । तल्लक्षणे कदलकाण्डादौ व्यभिचारदर्शनात् परिपुष्टानिष्टाङ्गश्च230 । तत्कुतः
प्रामाण्यम् ?
किं च, य एवमाह विसंवादिनी या सा प्रत्यभिज्ञैव न भवति तदाभासत्वादिति,
तेन शब्दादौ प्रमेयत्वं 231हेतूकृत्य 232यत् साध्यव्यभिचारि प्रमेयत्वं, तत्प्रमेयत्वमेव233 न
भवति तदाभासत्वादित्यपि वक्तव्यमेव234 ।
अथ प्रमाणविषयत्वमात्रं प्रमेयत्वम्, तच्च व्यभिचारिणोऽप्यक्षीणम् । एवं
तर्हि पूर्वापरैकीकरणमात्रं प्रत्यभिज्ञार्थः235 । तच्च व्यभिचारिण्या अप्यस्ति । प्रत्यभिज्ञा
नाम क्रियतां मा वा236, केवलं सा प्रमाणमेव न 237भवतीति वक्तव्यम् । प्रमेयत्व
मपि यद्व्यभिचारि, तत् लिङ्गमेव न भवतीत्यपि ब्रूहि । एकलक्षणतया यथैकत्र
व्यभिचारस्तथान्यत्रापि संभवन्न 238निवार्यत इति प्रत्यभिज्ञानेऽपि नाशक्यम् ॥
नन्वग्निरत्रेत्यनुमानमननुमानं च हेत्वाभासकाले समानाकारम् । तत्कथम्
एकत्राश्वासो239 नान्यत्र ? हेतुद्वारेण विशेषात् । यथा हि एकं त्रिरूपलिङ्गनिश्चयजनितम्
अन्यदन्यथा, यथा कार्यकारणभावप्रतीतिरेव काचित्परिशुद्धा या अध्यक्षानुपलब्धि
साधना, काचिदन्यथेति दर्शितम् । तथा च सति भिन्नलक्षणत्वात् नाश्वासानाश्वाससङ्करः ।
तथा न प्रत्यभिज्ञायां शक्यम्, अनुपहतेन्द्रियस्येव तज्ज्ञानस्य वा व्यभिचारिण्यामपि
व्यापारात् । नापरः परैरपि240 परिदीपिते विशेषः । दीर्घकालानुबन्धमात्रं तु बहल
16
व्यामोहाद् अदृष्टादिहेतुप्रभावाद् 241विपर्ययसामग्रीसमवधानपरिलम्बेऽप्युपपत्तिमत्,
यथोक्तं प्राक् । यद् वा यतः कुतश्चित् परोक्षार्थप्रतिपत्तिमनुमानमनुमत्य यत्र व्यभि
चारः, तल्लिङ्गमेव न भवति, अनुमानं वेति निर्वृत्तिमालम्बमानः242 पक्षधर्मत्वादिकं243
लिङ्गलक्षणं तत्प्रभवमनुमानं किमर्थमभिदध्यात् ?
अथ व्यभिचारिणोऽपि244 व्यभिचारदर्शनमसमर्थम्, 245सामग्रीलाभविलम्बे
व्यभिचारादर्शनमात्रेण लिङ्गत्वप्रसङ्गाद् वक्तव्यमेव लक्षणम्, यदीक्षणान्निर्वृत्तिरनी
क्षणादनाश्वासश्च जायते ? ततो न प्रेक्षस्तदनुरूपानुष्ठान246प्रारम्भमासाद
येत् । सन्ति हि प्रत्यनीकदर्शनस्थानां साधनानि 247चिरकालाभ्यासभाविता समसमा
धिबलोन्मीलदध्यक्षगोचरव्यभिचाराणि248 क्षणिकतादिसाधनवत् । तत्किमिदानीं
व्यभिचारादर्शनमात्रेण भाविन्याः प्रमाणानुपपत्तेः साधनान्येव भवन्तु तदनुरूपा
7b नुष्ठानेन वा विफलमायासमाविशतु प्रेक्षः249 । पक्षधर्मत्वादिलक्षणे तु तल्लक्षण
निरूपणायां तदप्राप्तौ तदैव 250हस्तकत्यागान्नायासमाविशति । 251तल्लक्षणप्राप्तौ वा तदेव
उपाददीत । तन्न व्यभिचारावलम्बनं साधु, 252व्यतिरेकनिराकरणायैव विवेका
रम्भात् । तत्कथं लक्षणमवाच्यमिति चेत्—एतत् सर्वं प्रत्यभिज्ञायामपि आलोचयन्
यावन्न लक्षणभेदं पश्यसि, तावन्नैकस्यां253व्यभिचारादर्शी 254व्यभिचारादर्शनमात्रेणापर
स्यामाश्वासमेकान्तेन कर्तुमर्हसि । तस्माल्लक्षणयुक्ते बाधासंभवे तल्लक्षणमेव दूषितं
स्यादिति सर्वत्रानाश्वासः । तदियं प्रत्यभिज्ञा व्यपनयतु व्यभिचारशङ्कां, कलङ्किता तया255
न कालान्तरस्थितिमर्थस्य स्थापयितुं प्रभवति, नाप्यनुमानमनवकाशयितुम् । तत्
कथं तदपेक्षया प्रत्यक्षबाधितः पक्ष उच्यते ? सपक्षे वा जलधरे कथमन्वयाभावः ?
अथ मा भूत् प्रत्यभिज्ञायाः प्रामाण्यम्, तदनुसारी स्थिरतानिश्चयो वा । क्षणिक
त्वावधारणं तु सपक्षीकृते कथं यतः सपक्षे सत्त्वं हेतोरुपपद्यते ? उच्यते, इह जल
धरस्य जलधारणक्रियासमर्थस्तावदेकार्थस्वभावो256ऽशक्यपरिहारः । क्षणान्तरे च
द्वितीयादौ तत्क्रियायाः 257कृतत्वात् पुनः कर्तुमशक्यत्वात् तज्जातीयामन्यजातीयां258 वा
कुर्यात् । न कुर्याद् वा कामपि क्रियामिति पक्षः । एवं259 तत् क्रियाकरणक्षणात् प्रागपि
17
वक्तव्यम् । तत्र यदि 260तत्करणसमर्थस्वभावोऽम्भोधरः, तत्क्षणवत् क्षणान्तरेऽपि261
कथं कदाचित् क्रियाविच्छेदः ? क्षणान्तरनिवर्तनीयक्रियासमर्थस्वभावत्वे वा क्षणान्तरवत्
तत्रापि क्षणे सजातीयेतरक्रियाप्रसवप्रसङ्गः । क्षणान्तरेऽपि हि तच्छामर्थ्यस्य संभवाज्जननं262
तच्चान्यदाप्यक्षीणम्263 ।
एतेनाकरणपक्षोऽपि प्रतिक्षिप्तः । यदा विलम्बोऽप्यसह्यः, तदा 267दूरोत्सादितम्
अकरणम् । असामर्थ्ये वा समीहितसमयेऽप्यकरणप्रसङ्गः, सदैकस्वभावत्वात् । स्वभाव
भ्रंशे च प्रतिक्षणं क्षयः सिद्धो जलधरस्य । तत्र प्रयोगः, यद् यदा यज्जननसमर्थं तत्तदा
तज्जनयत्येव268 । यथाऽन्त्या कारणसामग्री स्वकार्यम् । स एव वा जलधरस्तदवस्थायां
वारि धारयन्269 कृषीबलविलोचनोत्सवादिकार्यम्, वारिवितरणकाले वा तत्क्रियाम्,
शक्तश्चायमुभयदशायामुभयकार्यमर्जितुमिति स्वभावहेतुप्रसङ्गः । जननमन्तरेण सामर्थ्य
व्यवस्थायां सर्वस्य सर्वत्र शक्तिव्यवहारप्रसङ्गः । नियतश्चायं प्रतिपन्नो व्यवहारः ।
न चास्य जननादन्यन्निमित्तमुपपद्यते । ततो270 जननविनाभावे विपक्षे नियमवत्त्वेन
8a 271क्षणव्यापकवियोगेनात्मसत्तया 272वियुज्यमानो जनन एव विश्राम्यतीति समर्थ
व्यवहारगोचरत्वमात्रानुबन्धि273 जनकत्वं सिद्धमिति274 व्याप्तिसिद्धिः ॥
एवं यद् यदा यत्करणसमर्थं तत्तदा तत्करोत्येव । यथाऽन्त्या कारणसामग्री ।
शक्तश्चायं सकलक्रियातिक्रमकालेऽपीति । अन्यदा 275सर्वथाऽकरणपक्षे योज्यम् ।
असमर्थस्वभावत्वे तु यद् यत्राशक्तं न तत् तत्करोति, यथा शाल्यङ्कुरं कोद्रवः ।
अशक्तश्चायमुदवाहनोऽकरणक्षणवत् क्षणान्तरेऽपीति व्यापकविरुद्वोपलब्धेः276 न
कदाचित् कुर्यादिति हेत्वर्थः ।
विपर्ययप्रयोगश्च, यद् यन्न करोति न तत् तत्र शक्तम्, यथा शाल्यङ्कुरमकुर्वन्
कोद्रवः । न करोति च277 प्रथमक्षणसाध्यां क्रियां द्वितीयादिक्षणे, द्वितीयादिक्षणसाध्यां
18
वा प्रथमक्षण इति व्यापकानुपलब्धिर्जलधरस्य तत्तत्क्रियासु समर्थासमर्थस्वभावतया
प्रतिक्षणं भेदमुत्पादयतीति ॥
एवं सर्वथाऽकरणापेक्षया यद् यन्न करोति न तत्तत्र समर्थं278 यथा शाल्यङ्कुर
मकुर्वन् कोद्रवः । न करोति चाकरणकाले करणकालकार्यां क्रियामिति279 । 280सामर्थ्या
पेक्षया, यद् यत् करोति न तत् तत्राशक्तम्, अन्त्यसामग्रीवत् । करोति चायं281 तोयधर
स्तोयधारणमिति विरुद्धव्याप्तोपलब्धिरसमर्थक्षणाद् भिनत्ति करणसमर्थम्282 । यथा हि
जननेन व्याप्यते 283समर्थस्थितियोग्यता, तथा जननं तयापि । तदसामर्थ्यविरुद्धं यत्
सामर्थ्यं तेन व्याप्तं करणमुपलभ्यमानसामर्थ्यं कदर्थयतीति समर्थासमर्थस्वभावतया
स्वभावभेदः सिद्धस्तोयदस्य284 । तत्कथं सत्त्वादन्यदनुमानं नास्तीत्युच्यते ?
अत्र च समर्थव्यवहारयोग्यताजननयोर्भिन्नव्यावृत्तिकतया साध्याविशिष्टता
हेतोरित्यवान्तरैः कीर्तितं दूषणमनवकाशं वेदितव्यम् । तस्मादेकार्थकारिणः क्षणान्तरा
पेक्षया समर्थेतरस्वभावतया भेद एवेति क्षणभङ्गितया285 सपक्षतामावहति । बलाहके286
सत्त्वसिद्धिरविरुद्धा ।
ननु क्षणभेदेष्ववतिष्ठमानस्यापि287 भावस्य सहकारिसंगमापेक्षया 288करणाकरण
मुपपद्यमानं कथं स्वभावभेदमापादयितुं प्रभवति ? ततो यथोक्तप्रसङ्गमौलहेतुष्वने
कान्तः । किं पुनरस्य289 समर्थस्वभावस्य सहकारिभिः कर्तव्यम्, यदयमनपेक्ष्य सह
कारिणो न स्वकार्यकर्मणि प्रवृत्तिमालम्बते ? अनुपकारिण्यपेक्षाया अयोगात् । स्वयम्
असमर्थस्तु सामर्थ्यमर्थयमानः290 सहकारिणोऽपेक्षत इति युक्तमेतत् । ततोऽकिञ्चित्कराः
च सहकारिणोऽपेक्षागोचराश्चेति व्याहतम् ।
अत्र शकरः, सहकारिविरहो हि तस्यासामर्थ्यमुच्यते । तच्चास्य सहकारि
साकल्यहेतुभिरपनीयते, तयोरेकत्र8b सहस्थितिविरोधात् । साकल्यहेतुभ्यश्च
वैकल्यस्यैव व्यावृत्तिः, न तद्वतः साकल्यस्य सहकारिविरहव्यावृत्तिरूपत्वात् । न च
291सहकारिसाकल्यवैकल्ययोराविर्भावतिरोभावाभ्यां तद्वतस्तद्भावसिद्धिः, तस्य
ताभ्यामन्यत्वात् । अतएव सहकारिविरहव्यावृत्तिहेतोर्न292 तद्वतस्तिरोभावसिद्धिरिति ॥
एतदेव न्यायभूषणकारोऽप्याह—सहकारिणस्तस्य कमुपकारं कुर्वन्ति येन तैर्विना
न करोतीति चेत्—कार्यमेव कुर्वन्ति । अन्योपकारकरणे हि सहकारित्वमेव न स्यात् ।
तथाहि यदि तमेव कुर्वन्ति तदा तत्कारिण एव स्युः न तत्सहकारिणः । तेन सहैकं
कार्यं कुर्वन्तो हि तत्सहकारिणोऽभिधीयन्त इति । तथा भवतु नामानुपकारकोऽपि
सहकारी, तथा यदि तस्य प्रागेव शक्तिरस्ति293 किं न करोति ? नास्ति चेत्294—पश्चाद
शक्तः कथं करोति ? पश्चाच्छक्तश्चेत्—शक्ताशक्तयोः कथं न नानात्वम् ? विरुद्ध
धर्माध्यासस्य भेदकत्वादित्याशंक्य सहकारिसाकल्यं हि तस्य शक्तिः । तद्वैकल्यं
चाशक्तिः । तेन सहकारिवैकल्ये प्रागशक्त उच्यते । पश्चात् साकल्ये च शक्तः ।295
धर्मधर्मिणोश्च296 भेदः प्रसाधितः । तेन शक्त्युत्पादेऽपि नावश्यं तदुत्पादः । अशक्ति
निवृत्तावपि नावश्यं तद्वतो निवृत्तिः, प्रतिबन्धाभावादिति ।
तदेतत् सर्वमपोहप्रस्तावे धर्मधर्मिणोरभेदप्रतिपादनेनैव निरस्तं वेदितव्यम्,
साकल्यवेकल्ययोराविर्भावतिरोभावाभ्यां धर्मिण एव तथावस्थानात् ।297 अस्तु वा
धर्मधर्मिणोर्भेद298 एव । नापि सहकारिणामकिञ्चित्करत्वे विप्रतिपद्यामहे । केवलं
न तावन्त एव सहकारिणः कार्यकारिणः । नापि साकल्यमेव कार्यमर्जति, किं तु सोऽपि
भावः । 299तदर्थं तैरेव 300प्रयत्तमिति न विस्तरेणोपयोगः । तस्य च भावस्य यादृशश्चरम
क्षणेऽक्षेपक्रियाधर्मा स्वभावः, तादृश एव चेत् प्रथमक्षणेऽपि, तदैव प्रसह्य कुर्वाणो
गीर्वाणशापेनापि301 नापहस्तयितुं शक्तः302 । किं पुनस्तवामुना मर्मपीडाजनितविक्लव
विक्रोशमात्रेण ? यथाहि शक्ताशक्ततया भङ्गप्रसङ्गपरिहाराय साकल्यवैकल्यलक्षण
धर्मान्तरस्वभावे 303शक्त्यशक्ती भिन्नस्वभावे कल्पिते, तथा न सोऽप्यक्षेपक्रियाधर्मा
स्वभावो भावाद् भिन्न एवाभिधातुं शक्यः, भावस्याकर्तृत्वप्रसङ्गात् ।
अथ यथा शक्त्यशक्ती भिन्नौ धर्मौ प्रतिजानीमहे, न च तयोरुदयव्ययाभ्यां
भावस्य किञ्चित्, तथाऽक्षेपक्रियाधर्मत्वं क्षेपक्रियाधर्मत्वं च धर्मान्तरमेव । तच्च
304सहकारिसन्निधानप्रत्ययभावाक्षेपमुदेति व्येति चेति305 । तथैव भावस्य न किञ्चि
दित्युच्यते ।
उच्यताम् । केवलमस्तु नेदानीं कार्यजन्म, कारणाभिमतस्य तादवस्थ्यात् ।
तथाहि यथा न सहकारिण एव, नापि साकल्यमेव जनकं तथा306 साकल्ये 9a सति307
20
जातमक्षेपक्रियाधर्मत्वमपि न प्रकृतं भावमनपेक्ष्य जनकम्, जनकत्वेऽपि308 स्वयमेव
भावस्य जनकत्वस्वीकारात् । किं तु 309प्रकृतोऽपि भावः कर्ता स्वीकर्तव्यः । स च
प्राचीनदशातोऽनतिरिच्यमानमूर्तिः कुर्वन् पूर्वमपि कुर्यात्, अकुर्वन् वा पश्चादपि न
कुर्यादिति तदवस्थः परिभवः । यदि तु कादाचित्कं साकल्यादिवस्त्वन्तरमेव310
हेतुः, तदा कार्यमपि तदपेक्षं कादाचित्कमिति न्याय्यमेतत् । एवं यावद् यावद् धर्मान्तर
परिकल्पः, तावत्311 तावदुदासीनो भावः । अथ312 अक्षेपक्रियाधर्मत्वं जातं, कार्यं तु313
ततो 314नोत्पद्यत इति कोऽयं न्यायः ? तदवश्यं कार्येण जनितव्यम् । तच्चाक्षेपक्रिया
धर्मत्वं प्राङ्नासोदिति315 कार्योदयस्यापि नावकाशः । एवं तर्हि कार्यात्पादनान्तरीयक
मक्षेपकारित्वम्, अक्षेपकारित्वनान्तरीयकश्च कार्योत्पाद इति व्यक्तमितरेतराश्रयत्वम् ।
अन्यथा न यदि कार्योत्पादनान्तरोयकमक्षेपकारित्वम्, नाक्षेपकारित्वेन
कार्योदयाक्षेपः । 316यदि च नाक्षेपकारित्वनान्तरोयकः कार्योत्पादोऽक्षेपकारित्वात् प्रागपि
स्यात् । एकार्थत्वे तु साकल्ये जाते 317सत्यक्षेपकारित्वं धर्मान्तरं जातमिति किमनया
भाषयाभिहितं कार्यमुत्पन्नमिति ? तथा च सति न प्रकृतदोषपरिहारः । नहि कार्य
जन्मनि विवादः, यत्स्वरूपापेक्षस्तु कार्योदयः तस्य सर्वदा तादवस्थ्यात् कथं कदाचित्क
तेति चिन्त्यते ।
तस्मादक्षेपक्रियाधर्मेति जनयतीति वा यत्स्वरूपपुरस्कारेणेयमभिख्या तस्य
प्रागपि सत्त्वे कथमजनि कदाचित् ? अक्षेपक्रियाधर्मकप्रत्यनोकस्वभावस्य वा प्राच्यस्य
पश्चादनुवृत्तौ कथं कदाचिदपि कार्यसंभवः ? अथ यदि स एवैकः कर्ता स्यात् ?
युक्तमेतत्, किं तु सामग्री जनिका 318तत्सहकार्यन्तरविरहवेलायां बलीयसोऽपि न कार्य
प्रसव इति किमत्र विरुद्धम् ? एकार्थकरणाच्च सहकारित्वमुक्तम्, नोपकारेणेति ।
अत्रोच्यते । यदि319 मिलिताः सन्तः कार्यं कुर्वते320, 321तदैकार्थकरणलक्षणं
सहकारित्वमेषामस्तु, को निषेद्धा ? मिलितैरेव तु322 तत् कार्यं कर्तव्यमिति कुतो323
लभ्यते ? पूर्वापरकआर्ययोरेकत्वे तावद् 324भावस्य सर्वदा 325जननाजननयोरन्यतर
नियमप्रसङ्गस्य दुर्निवारत्वात् । तस्मात् सामग्री जनिका, नैकं जनकमिति स्थिरवादिनां
मनोरथस्यान्यविषयः । दृश्यते तावदेवमिति चेत्—अतएव न स्थैर्यपक्षः क्षम326 इति
21
ब्रूमः । सर्वो हि प्रसङ्गो विपर्ययपर्यवसानः । ततो यदि नित्यता स्यात् जनयितुः, जन्यं
सर्वदा स्यान्न वा कदाचिदपीति । न चैवम्, साकल्य एव कदाचित्कार्योत्पत्तिरिति327
नियमेन स्वभावभङ्गः ।
ननु यदि क्वचिन्नित्यं सर्वदा 328कारणमुपलब्धं स्यात्, तदा क्वचिन्नित्यत्वाभ्युप
गमे सदा कर्तृत्वप्रसङ्गः संगच्छते । यावता सर्वदा तस्याभावात्329 कथमेतादृशं
प्रसञ्जयितुं शक्यते ?
9b तदेतदपि ग्राम्यम् । तथाहि नित्यत्वे सतीति । अस्यायमर्थः । परकाल
भावी जनको यः स्वभावो भावस्य330, स एव यदि पूर्वकालभावी, पूर्वकालभावी वा
योऽजनकः स्वभावः स एव यदि परकालभावी, तदा तदुपलब्धमेव जननमजननं वा
स्यादिति । तथा च सति सिद्धयोरेकत्वारोपे331 सिद्धमेव जननमजननं वा प्रसज्येत ।
न पूवपरस्वभावयोरेकत्वसंभवान्नित्यत्वे सतीत्युच्यत इति किमत्र विरुद्धम् ?
अथ पूर्वपरयोरेकत्वं नोपलब्धं कथमारोप्यत इति मनीषा ? एवं सति शुक्तावपि
रजतारोपेण332 न भाव्यम् । नहि रजतस्वरूपा शुक्तिः क्वचिदुपलब्धिगोचरः । आरोप्य
माणं तु रजतं कदाचिदुपलब्धमेवेति नारोपक्षतिरिति भवतामपि कृतान्तः । तथा
प्रस्तुतेऽपि333 पूर्वापरस्वभावयोरेकत्वं334 नोपलभे । आरोप्यमाणौ तु मिथः पूर्वापर
स्वभावौ सिद्धावेव । तदारोपे करणाकरणे अपि प्रसज्यमाने335 समञ्जसे एव336, गुञ्जापुञ्जे
ज्वलनारोपविधौ दाहवत् ।
तदेतदतिलाघवमाविष्कृतमात्मनः शङ्करेण । तदयं जात्यन्धानां नीलादिप्रति
वेधवदसंबन्धो निषेधः337 सौगतानामसन्तोऽक्षणिका इत्यभिदधानेन । तस्मात्
स्थितमेतत्, स्थिरात्मत्वे मिलित्वैव कार्यकरणनियमो भाग्यहीनमनोराज्य
स्थानीय इति । तथा च सति सहकारिसाकल्ये शक्तिशब्दसमयमपाकुर्वाणः338
कमर्थं परिपुष्णाति339 परव्यामोहनादन्यमनुपयुक्ताप्रस्तुताभिधानात् ? क्षणिकत्व
वादिना340 हि शक्ताशक्तस्वभावतया विरुद्धधर्माध्यासाद् भेदमारोपयता यादृशी
शक्तिरशक्तिश्च341 विवक्षिता तत्प्रतिविधानमाचरितुमुचितमस्य । तदपहाय स्वयं कृत
22
सङ्केतेन परिहारमारचयतीति342 महन्नेपुण्यं343 नैयायिकप्रवरस्य । यो हि धूमादत्राग्निना
भाव्यमित्याह—तत्रापि यदि कश्चिद् गर्दभादौ धूमशब्दं संकेत्य वह्निमपह्नवीत, न
कश्चिद् दोषः । क्षणिकवादी हि यज्जनयतीति344 समाख्यया345 यदनन्तरभावि कार्यं
तत्स्वरूपं शक्तमित्याह346 । न चेदमपूर्वं सकेतमात्रम् । लोकेऽपि हि जननद्वारक एव347
शक्तव्यवहारः । यद्यपि च साकल्यवत एव जननं तथापि न साकल्यद्वारेण शक्त
उच्यते, किं तु जननात् । क्षेपवति साकल्येऽपि शक्तव्यवहारस्याञ्जसस्याभावात्,
अनध्यवसितसहकारिविशेषसाकल्यस्यापि जननदर्शने348 इदमत्र शक्तमिति व्यवहारात् ।
तादृशं च स्वरूपं शक्तिरुच्यते । अस्य शक्तिरिति भेदनिर्देशेऽप्यस्य स्वरूपमितिवद
भिन्नैव । स च जनयिता स्वभावः प्रागप्यस्ति, न च 349जनयतीति नियतं माता च
बन्ध्या चेति350 प्राप्तमिति । अत्र प्रकरणे यदि नाम त्वया क्वचित् शक्तिशब्दनिवेशनं
कृतम्, तदाविर्भावतिरोभावाभ्या च न भावस्य किञ्चित् । ततः प्रस्तुते किमायातम् ?
यत् खलु जनयितृरूपजनयितृभावादभिन्नं तयोयाद् नीदयव्यया कुतः 10a
कादाचित्कता कार्यस्य ? उदयव्यययोगे वा स्वभावभदस्तदवस्थः ।
यदि तु तदपि न जनयद्रूपं भिन्नमेव, तदा तस्यापि नोदयव्ययाभ्यां भावत्रुटिः ।
केवलमजनक351 एव भावः स्यादिति मूलनाशः352 । तस्माद् ब्रूयाः किञ्चित् किञ्चित्करस्य
क्वचित् कार्यकालभदेन 353शक्ताशक्तस्वभावयोर्विरुद्धधर्माध्यासाद् भेद एव ।
अतएव यदाह भूषणकारः, तत्र कालभेदेनाविरोधात् । यथा क्रियोत्पत्तेः पूर्वं
निष्क्रियः स्फटिकः, स एव पश्चात् सक्रियः । साध्यत्वाददृष्टान्त इति चेत्—न प्रमाण
सिद्धस्य साध्यत्वायोगात् । एवं 354हि विरुद्धधर्माध्यासाद् भेदोऽप्यसिद्ध355 इत्यपि
ब्रुवाणः कथं वार्यते ? तस्माद् ययोर्धर्मयोर्यथा विरोधो दृष्टः, 356तयोस्तथैवाभ्युप
गन्तव्यः । यथा स एव हेतुः स्वकार्यं प्रति शक्तः, कार्यान्तरं प्रत्यशक्त इत्येकस्यैव
विषयभेदं प्रति शक्त्यशक्ती न विरुद्धे, तथा कालभेदेनापि357 शक्तिभेदे शक्तिमदभेदस्य
प्रमाणसिद्धेरुभयत्राविशेषादिति358 । एतदप्यसारम् । एतया हिण्डारपिण्डाडम्बरं
विडम्बयते359 । तथाहि न खलु360 प्रमाणसिद्धिर्नाम प्रत्यक्षानुमाने परिभूयाभिधातुं
शक्यते । तत्र च प्रत्यक्षमिति न प्रत्यभिज्ञाविकल्पादन्यत् । सा च निवारिता361 ।
यच्चानुमानमाह शंकरः स्थिरसिद्धौ नोत्पत्त्यनन्तरं विनाशी भावः प्रमेयत्वात् ।
362वस्तुव्यावृत्तिवदिति । अविद्यमानविपक्षत्वादन्वय्येव हेतुः । प्रमेयत्वस्य क्षणिकत्वेन
विरोधाभावात् सन्दिग्धव्यतिरेकमिति चेत्—न खलु363 क्षणिकत्वे कस्यचित् प्रमेयत्वं
सिध्यति, क्षणस्थितिधर्मणः प्रमाणकालेऽतिपातात्, अतीतस्य च प्रत्यक्षत्वेऽति
प्रसङ्गात् । तदपि मनोरथमात्रम् । तथाहि । मा भूदतीतस्य ग्रहणम् । वर्तमानस्य च
क्षणिकस्यैव क्षणिकेन364 ज्ञानेन ग्रहणं भविष्यति । तस्मादविरोध एव प्रमेयत्वक्षणि
कत्वयोः ।
अथ कारणं विषय इति ज्ञानात्365 प्रागपेक्षितसत्ताकोऽर्थः क्षणान्तरेऽननुवर्त
मानो न ग्राह्य366 एव स्यात्, क्षणान्तरानुवृत्तौ वा अक्षणिकत्वमेवेति चेत्—तत् किमियं
राज्ञामाज्ञा यदजनकेन ग्राह्येण न भवितव्यमिति ? अयमस्य समय एवेति चेत्—
न्यायस्यायमवसरो न समयस्य । तस्मात् समयमनपेक्ष्य वादव्यसनिना न्यायोपन्यासेन
परो बोधयितव्यः ।
कथमजनितेन368 ग्रहणमतिप्रसङ्गश्चैवमिति चेत् ? जनितेनापि कथं ग्रहणम् ? जायमानं
हि ज्ञानं विषयमनुभवदुपजायते । तच्च369 जन्मविषयकृतमन्यकृतं370 वा स्यात्, को
विशेषः ? अतिप्रसङ्गस्तु साधारणः, चक्षुरादिनापि तस्य जननात् । तस्याविषय
स्वभावत्वादिति चेत्—ननु गृह्यमाण एव विषयो व्यवह्रियते, न जातिनियतः कश्चिद्
विषयो नाम । ततोऽविषयत्वादित्यगृह्यमाणत्वान्न गृह्यत इति क्वेदमु10b त्तरं
संबध्यते । तथाहि371 स्वभावादेव नेन्द्रियं गृह्यत इति चेत्—न, योगिनां दर्शन
स्वीकारात् । पृथग्जनापेक्षया नियम एष इति चेत् ? पृथग्जनापेक्षया तर्हि
सूक्ष्मादयोऽपि स्वभावेनैव गृह्यन्त इति 372नातिप्रसङ्गः । अथवा, 24
तेन वा स्वविषयनियतमुत्पादितं ज्ञानं तदेकग्राहि, तत्कारणसामग्र्या वा
तन्नियतमुत्पादितमिति निर्विशेषः । अतस्तस्या एव ते अर्थज्ञाने376 ग्राह्यग्राहकभावनियत
जन्मनी कथमतिप्रसज्येयाताम् ?
अथ साकारवेदनवादिनो हि विषयादेव तत्स्वरूपसंवित्तेरुत्पत्तिरभिमता,
तत्रातीतग्रहणेऽतिप्रसङ्गः, ग्रहणक्षणानुवृत्तौ च स्थिरसिद्धिरिति विवक्षितम् । तत्
किमयं प्रसङ्गहेतुर्यत्परोपगमनमनपेक्ष्य न भवति ? तथा च सति विपर्ययपर्यवसा
नात् तव377 स्थिरसिद्धिरतीतग्रहणं वेति न ग्राह्यात्तत्स्वरूपज्ञानोत्पत्तिरिति स्यात् । एवं
च सति व्यक्तमन्यद् भुक्तमन्यद् वान्तमिति न्यायः । स्थिरमारब्धः साधयितुं
378तद्विपर्ययेण साकारबोधं विधुरयतीति ।
अथ सौत्रान्तिकस्येदमुभयमसमञ्जसमितीयन्मात्रमुच्यते, तदपि नास्ति ।
साकारवेदनोदयपक्षस्थितौ हि द्वितीयक्षणानुवृत्तावप्यर्थस्य379 जडतया प्रकाशानुपपत्तेः
380विपर्ययसरूपस्वरूपसंवेदनमेव ज्ञानस्य विषयवेदनम् । एवं च न वर्तमानानुरोधः,
अतीतेऽपि तत्प्रत्ययासत्तेरप्रच्युतेः । न चातिप्रसङ्गः, विषयान्तरेणापि सारूप्य
समर्पणात् । न च 381तन्मतनिर्वाहः प्रकृतः382 । भवतस्तु तन्मताश्रयेणापि प्रमेयत्वहेतुः
स्थिरसिद्धये न383 प्रभवतीति सिद्धमनेकान्तपरिहारादिति । ततः स्थिरवपुषि प्रमाणान्तर
385सिद्धेरयोगात् वज्रोऽपि पक्षकुक्षौ निक्षिप्तः, किं पुनः स्फटिको वराकः ? तदयं
386सक्रियाक्रियावस्थयोर्भिद्यमानः कथं कामभेदेनाविरोधे 387दृष्टान्तीभवितुमर्हतीति ?
यच्च विषयभेदेनेव कालभेदेनापि शक्त्यशक्त्योरविरोधप्रतिपादनम्, तदप्यनौपयिकम् ।
प्रतियोगी हि धर्मो विरोधकः सर्वत्र । न च 388स्वकार्यकरणस्य परकार्याकरणं प्रत्य
नीकम् । किं तु स्वकार्याकरणमेव । एवं परकार्याकरणस्यापि परकार्यकरणं प्रत्यनीकम् ।
न स्वकार्यकरणम् । स्वकार्यं न करोतीति व्यवच्छेत्तुमेव हि389 स्वकार्यं करोतीत्युच्यते ।
प्रत्यक्षव्यापारश्च ते390 स्वकार्यकारिणं 391परकार्यकारिणं च भावभेदेनावस्थापयति ।
कालभेदे तु नैकताव्यवस्थापकं392 प्रत्यक्षम्, प्रत्यभिज्ञाया दूषितत्वात् । ततः स्वकार्यस्य
करणमकरणं च परिशिष्यमाणं न विरोधपरिहाराय पर्याप्नोति ।
393कालानेकत्वापेक्षस्वकार्यकरणाकरणं394 विरुद्धमिति चेत् ? स्यादियमपेक्षा
परभागभागिनो यदि विषयभेदवदभेदापादकप्रमाणवृत्तिः स्यादित्युक्तप्रायम् । भवतोऽपि
तदनपेक्ष्य विरोधस्थितौ किं प्रमाणमिति चेत्—उक्तमेव, यद् यदा यज्जननसमर्थं395
11a तत्तदा जनयत्येवेत्यादि, सहकार्यपेक्षायाश्च तत्सन्निधानासन्निधानयोः
कार्यार्ज्जनप्रसङ्गेन 396निरस्तत्वात् । तस्मात् जनयद्रूपमेव शक्तिर्विवक्षिता क्षणभङ्ग
वादिनः । तस्याश्च भेदे कथं397 न भावभ्रंशः ?
यच्च न्यायभूषणेन प्रलपितम्, यद्यस्य भिन्ना398 शक्तिः शक्तिमतोऽभ्युपगम्यते,
तथापि399 नावश्यं शक्ताशक्तयोर्भेदः । कस्मात्400 ? त्वन्मतेऽपि धर्मभेदाद् धर्मिभेद
नियमासिद्धेः401 । तथा च भिन्नेऽपि402 कार्ये सहकारिणां पृथगुपयोगं दर्शयताऽभिहितम्—
मृत्पिण्डादेर्मृत्स्वभावेभ्य इत्यादि हेतुबिन्दुं लेखित्वा । यथा च तत्र मृदात्मतादिस्वभाव
भेदेऽपि न403 कार्यभेदः, तथा शक्ताशक्तादिस्वभावभेदेऽप्यभेदो भविष्यति, अबाधित
त्वाध्यवसायस्य404 समानत्वादिति, तदप्यनेन प्रत्यादिष्टम् । सन्ति हि धर्मा ये परस्पर
विरोधिनोऽविरोधिनश्च । न तु धर्मा इत्येव405 विरोधाविरोधः406 । न हि ब्राह्मण्यं
वैयाकरणत्वेनाविरुद्धमिति407 चाण्डालत्वेनाप्यविरुद्धमित्यभिधातुं शक्यम् । न चात्र
ब्राह्मण्यव्याप्तं चाण्डालत्वम् । न च वैयाकरणत्वेनापि विरुद्धम् । यथा चात्र स्वप्रति
योगिब्राह्मण्येतरत्वमेव विरोधमाधत्ते न वैयाकरणत्वेन, तथा जनयद्रूपमजननतयैव408
409विरुद्धभावान्न वस्तुसन्तानभेदेन । नीलचतुरस्रादिता तु श्वेतपरिमण्डलतादिभि
र्विरोधमासादयतु, न तु क्वचित् कार्यकारणादिभिः । अतो410 यदि विरोधगन्धा
संभवात् संस्थानमृत्स्वभावयोरभिन्नेन411 धर्मिणा भाव्यम्, तत्412 किमत्यन्तप्रत्यनीकयो
रेककार्यं प्रति413 जनयद्रूपेतरयोरपीति कः सचेतनकश्चिन्तयेत् ? विरुद्धाविरुद्ध
त्वमेव414 कथमवगन्तव्यमिति चेत् ? यद्व्यवच्छेदेन यद्विधानम्, यद्विधानेन वा यद्व्यव
च्छेदः, तत्तेन विरुद्धम् । न च मृन्मयमिति विधानेन पृथूदरताव्यवच्छेदशङ्कापि
संभवति । तज्जनकाभिधानेन चातज्जनकत्वं व्यवच्छिद्यत एव, अतज्जनकत्वेन च
तज्जनकत्वम् । न तज्जनकमित्येव ह्यतज्जनकमिति नञ्समासवाक्यमपि विस्मारि ।
26
तस्माद् ययोर्धर्मयोर्यथा विरोधो दृष्टः तथैवाभ्युपगन्तव्य इत्येवमेव415 विशेषमभिप्रेत्य
युक्तः, नैककालापेक्षया, समानप्रमाणयोरप्रवृत्तेः । येन हि कालभेदेनाभिन्नमेव416
वस्तु सक्रियाक्रियनीलानीलत्वादियुक्तमभ्युपगतं, यस्य वा तदात्मनि प्रमाणं प्रवृत्तं,
तस्य क्वचिद्विवादसंभवे कालभेदेनाविरोधः 417तद्वतीति युक्तम् । तच्च द्वयमपि नास्तीति
व्यक्तम् । 418अत एकत्वाध्यवसायस्याबाधितविषयविशेषणमसिद्धम्419 । एकत्वाध्यवसाय
मात्रं पुनरनैकान्तिकं बाधकापेक्षमेव । अन्यथा केशादावपि न बाधकमपेक्षेत । बाधकं
चोक्तम् । यदप्ययं420 स्वप्नायमान इव विप्लवते ।
अथ नैवाभिन्नात्मनः कस्यचित् स्वभावभेद इष्यते, एवं तर्हि सहकारिपृथगुप
पयोगकथनं421 बालोन्मत्तप्रलपितं स्यादिति422 । तेन यदि 11b धर्मधर्मिणोस्तादात्म्य
तिरस्कारेण भेदापादनमात्रमिष्टम्, तदा न प्रकृतोपयोगि । तथाहि धर्मिणः सकाशाद्
धर्मा भेदभागिनो भवन्तु न वा ? सन्ति तावत्केचिदन्योन्यविरोधिनो ये स्वाधिकरणं
धर्मिणमभित्त्वा नोच्छ्वसितुं423 शक्नुवन्तीति विवक्षितं क्षणिकवादिनः । तत्रानेन
तादृशा424 धर्मा एव न सन्ति, सन्तोऽपि वा कालाद्युपाधिसापेक्षा भेदसाधव इत्येव
वक्तुं न्याय्यम् । पृथगुपयोगात् सहकारिणां धर्मिणः पृथगेव त इति किमनेन ?
यदि तु425 स्वाभाव्यभाज एव भेदका न भिद्यमाना इति426 समयोऽस्य स्यात्,
युक्तमेतत् । यावता वलनादयोऽप्यवलनतो भेदका दृष्टा एव । ते 427च क्रियादिरूपत्वाद्
भिन्ना एव । तस्मात् कल्पनोपरचितविभागा भवन्तु428 सौगतमतेन, भवन्मतेन वा,
तात्त्विकभेदो धर्मधर्मिणोः किमिदानीं नैकान्तेन ? प्रस्तावान्तरं हि तत् । दुष्परिहरास्तु
धर्मा429 धर्मिणं भिन्दाना ये विरोधस्थायिन इति सिद्धं साध्यम् ।
अथ कार्यादभेदश्च430 स्वभावानां पृथक् सहकारिकारणकलापोपयोगविषयत्वं
चेति दुःश्लिष्टतामात्रमुद्भाव्यते परनयस्य ? तदापि431 प्रस्तुतक्षतेरभावात् किमनेन ?
भेदवतामपि भेदकत्वाद् धर्माणां दुःश्लिष्टताभासता च भिन्नसमयस्थानां432 परस्पर
मगणितेषु स्थानेषु संभवति । तत्त्वं तु कीदृगिति तत्तत्स्थाननिरूपणे व्यक्तीभविष्यति ।
27
तत्र यदि प्रस्तुतानुपयोगियत्किञ्चिद्विस्तारयता स्थातव्यमित्यभिमतम्, सर्वस्य
शक्यमेतत् । न चैतावतैव धर्मधर्मिवादपरिसमाप्तिः । तत् किमस्य गर्भार्भकमनति
शयानस्य निन्दावचने निर्बन्धेन ? तथा च सति तस्मान्न धर्मभेदादेव धर्मिभेद इति
433निगमनमप्यस्यायुक्तम् । बौद्धः किल न धर्माणां भेदमात्रेण धर्मिभेदमाह ।
किं तु विरोधेन । अन्यथा कृतकत्वानित्यत्वादीनामपि धर्मभेदमाचक्षीत । अनेनापि
स्वयं विरुद्धधर्माध्यासादित्यक्षरमुत्थापितम् । तद् यदि विरोधभेदमात्रयोर्विशेषं न
पश्यति, युक्तमाहेति किमपरं वक्तव्यम् ?
यदप्ययमेवाह—यो 434ह्यनन्तरकार्यकरणस्वभावः स कथमादौ तत् कार्यं कुर्यात् ?
अथ कुर्यान्न तर्हि उत्तरकार्यकरणस्वभावः । न हि नीलोत्पादनस्वभावः पीतादिकमपि
करोति । न च प्रथमोत्तरकार्योत्पादनस्वभावभेदात् तद्वतो435ऽपि भेदः, स्वभाव
भेदस्य व्यभिचारित्वेनोक्तत्वादिति । तदपि निःसारम् । यदि हि स्वभावशब्देन
स्वलक्षणमभिप्रेतम्, तदा 436तद्भेदे भेद एव वस्तूनाम्, क्व व्यभिचारवार्ता ? तस्मात्
स्वभावभेद इति कल्पितधर्मान्नानात्वं437 युक्तम् । न च तन्मात्रेण 438धर्मिभेदमापादयति
परः । किं तु विरोधेन । न च439 तद्विरोधेऽपि धर्मिभेदव्यभिचारोऽस्ति । विरोधो हि
न भेदं व्यभिचरति । भेदस्तु विरोधं व्यभिचरतीत्युक्तप्रायम् ।
ननु यदि कल्पिता एव ते440 धर्माः क्व विरोधः, क्व वा 12a भेद इति चेत् ?
इह द्विविधमभिधेयं कल्पितशब्दस्य, तत्तद्व्यावृत्तवस्तुसंभवे भेदमात्रं कल्पनावभासि,
तदपि कल्पितं कुवलयनीलत्वादिवत् । कल्पनामात्रनिवेशि च कल्पितं करिकेशरत्रिगुणी
मयत्वादिवत् । तत्र यद्यन्तिमः कल्पितार्थः स्यात्, न भेदनिरोधादिति युक्तम् । प्राचीने
तु कल्पितार्थे वस्तुस्वभावस्यैवाध्यवसानाद् भेदो विरोधो वा व्यवस्थाप्यमानः संवाद
मादायैव वर्तत इति न दोषः ।
यच्चेदम्, उत्तरक्षणे यत्कार्यं कर्तुमस्य स्वभावः, तत्कथं प्रथमक्षणे कुर्यात् ?
अन्यथोत्तरकार्यकारितैव441 न स्वभावस्येति, तदप्यपरिभाव्य भाषितम् । स्थिरस्वभावत्वे
हि भावस्योत्तरकालमेवेदं कार्यम्, न पूर्वकालमिति कुत एतत् ? तदभावाच्च कारण
मप्युत्तरकार्यकरणस्वभावमिति कुतः ? अर्थानुरोधिन्यो हि वाचः शोभाभाजः, न
वागनुरोधादर्थतथाभावो राजवत् । किं कुर्मः, उत्तरमेव तस्य जन्मेति चेत्—अस्तु ।
28
स्थिरत्वे तु442 तदनुपपद्यमानमस्थिरतामादिशतु443 । स्थिरत्वेप्येष एव स्वभावः, तस्य
यदुत्तरक्षण एव करोतीति चेत्—हतेदानीं प्रमाणप्रत्याशा, प्रमाणबाधितेऽपि स्वभावा
लम्बनेन444 निस्तरणात् । धूमादत्राग्निरग्नेरभावाद् वा नेह धूम इत्युक्तेऽपि हि
शक्यमभिधातुं, स्वभाव एवायमस्य यदिदानीमत्र निरग्निरपि धूम इति । तस्मात् प्रमाण
सिद्धे स्वभावावलम्बनम्, न स्वभावावलम्बनेन प्रमाणविलोपः । प्रमाणनिर्णयश्च
विहित एव । नीलोत्पादनस्वभावश्च न पीतादिकं करोतीत्यसमीक्षाख्यानम् । उपादान
त्वेन हि तत्करणनिषेधो, न तु सहकारिकारणत्वेनापि, सहकारितया तत्रापि कथञ्चि
दुपयोगस्याशक्यबाधनत्वात् । न चान्यवर्णस्यान्यवर्णोपादानतानिषेध एव । दृश्यते
हि पीतैव हरिद्रा चूर्णसहकारिका रक्तस्योपादानं445 भवन्तीति निदर्शनमसङ्गतम् । यदि
च यथा न नीलः पीतमुत्पादयति तथा नोत्तरजनकः पूर्वमुत्पादयति । एवं तर्हि यश्चोत्तर
जनकः, यश्च नोत्तरजनकः, तयोर्भेदोऽपि किं नेष्यते, यथा यन्नीलं तन्नानीलमिति ?
तदलमेवंविधप्रलापेषु निर्बन्धेन । स्थितमेतत् परस्परविरुद्धधर्माध्यासाद् देशभेदवत्
कालभेदेऽपि जनकाजनकस्वभावयोर्भेद एव ॥
एतेन यदपि न्यायमञ्जरीकारः प्राह, ननु कार्योत्पत्तिहेतुर्येषां सन्निधिमपेक्षते
ते446 खल्वपेक्षितसन्निधयः, सहकारिप्रत्ययास्तस्य किं कुर्वन्ति ? न किञ्चित् । केवलं
कार्यमेव येषां भावाभावावनुविधत्ते447 ते कार्येणैवापेक्षितसन्निधयः सन्निपतन्तः
तदेव कार्यं विवक्षितं हेतुना सह कुर्वन्तीति सहकारिण उच्यन्ते न तु येन सह
कुर्वन्ति तस्यैव कर्तारो भवन्तः सहकारिणो भवितुमर्हन्ति । 12b 448तस्मादक्षणिकस्य
स्वकार्यनिमाणे द्विविधं सामर्थ्यम्, एकं निजं सामर्थ्यम्, द्वितीयं चागन्तुकं
सहकार्यन्तरम्, तयोरभावे449 तत्कार्यानुत्पत्तेः450 । तस्मादेव हि द्विविधात् सामर्थ्यात्
कार्योत्पत्तेरभ्युपगमात् । एकमक्षणिकं गृहीत्वा तस्मादेव कार्योत्पत्तिं संभावयन्तः
सामर्थ्यमेव हेतूनामविज्ञातवन्तः परे । यस्मादक्षणिकस्यापि क्रमवतीषु तासु तास्वर्थ
क्रियासु कर्तव्यासु क्रमवत्सहकार्यन्तरमेव सामर्थ्यमङ्गीकुर्मः । तथा च क्रमवत्
सहकारिनानात्वादपि क्रमवत्कार्यनानात्वोपपत्तेरशक्यं भावानां प्रतिक्षणमन्यत्वमुप
पादयितुमिति ।
तदप्यपास्तम् । 451यद्यपि हेत्वन्तरकल्पितं सामर्थ्यमविज्ञातमस्माकं तथापि
यज्जनयतीति व्यवहारगोचरीभूयमापन्नं स्वरूपमवश्यमभ्युपगन्तव्यम्, भावस्य स्वलक्ष
णाख्यं सामर्थ्यं संख्यातमस्मन्मते । तत् किं प्रागपि पश्चादेव वेति452 विकल्प्य दूषण
मुदीरितम् ? तत्र किमनेनोक्तं भवतीति निवेदितमेव । यत्तु कार्येणैवापेक्षितसन्निधय
इत्युपस्कृतम्, तदपि निरुपयोगम् । यदि हि कार्यमेव स्वजन्मनि स्वतन्त्रं स्यात्, युक्त
मेतत्453, केवलमेवं सति सहकारिणामपि सामर्थ्यरूपताकल्पनमफलमिति, हेतोः
सामर्थ्यमनपेक्ष्य स्वातन्त्र्यादेव कार्यं कदाचिद् भवति कदाचिन्न भवतीति किं हेतु
सामर्थ्यसमर्थनव्यसनेन454, व्यवहारमात्रं वा सामर्थ्यमिति, न तु क्वचित् किञ्चित् समर्थं
नामेति प्राप्तम् । अस्तु को दोष इति चेत् ? सन्तो हेतवः सर्वथाऽसमर्थाः, असत्तु455
कार्यं स्वतन्त्रमिति विशुद्धा बुद्धिः । उत्पत्तौ तु सद्रूपं456 कार्यं किमर्थमर्थान्तरमपेक्षत इति
निरूपय तावत् ।
तस्मात् सामग्रीमपेक्षते कार्यमित्यनेनाक्षरेण सामग्र्येव जननसमर्था कार्यस्ये
त्येवार्थः न च सा समग्रेभ्यो भिन्ना । ततः समग्रा एव जनकाः । भिन्नत्वेऽपि वाऽर्था
न्तरमिव457 साकल्यमपि सहकारीति न विशेषः । ततो यावन्तः सहकारिणस्तावन्तः458
प्रत्येकं समर्था इति प्राग्विद्यमानानां कथं क्रियातिक्रमः ? साकल्यमेव हि पश्चादुप
पत्तिमदिति समयः, तदपि वा तेभ्य एव सहकारिभ्यो 459लभ्यसंभवं प्रागपि तेष्वसत्सु460
कथं सत्तावियुक्तं461 कदाचिद् यावदेकस्यापि प्राग्भावः ? अथ कार्यस्यैवायमपराधो
यदमीष्वसमर्थेषु कदाचिन्नोत्पद्यत इति चेत् ?
इति किं न पश्यसि ?
स्यादेतत् । न तद्भावेऽवश्यं भवतीति तत्कार्यमुच्यते किं तु तदभावे न भवत्येवेति
व्यतिरेकप्राधान्यादिति चेत् ?
यदि हि स्वयं भवनं भावयदेव465 कार्यं हेतुः, तदा तदभावप्रयुक्तोऽस्याभाव
इत्यपि स्यात् । यदा तु हेतौ जननोन्मुखेऽपि स्वातन्त्र्यादेव न भूतमिति कथं तदभाव
प्रयोजकोऽस्याभाव इति प्रतीतिः ? तस्माद् यदि कार्यकारणभावः 13a तदा नियतं
यथैव तदभावे नियमेन न भवति, 466तथैव तद्भावेऽपि नियमेन 467भवेत् । अभवच्च न
तत्कारणतामात्मनः क्षमते । तदयं प्रयत्नपरम्परयापि हेतूनां समर्थासमर्थलक्षणोदय
व्यययोगो जारगर्भ इव गोपयितुमशक्यश्चतुरबुद्धिषु ॥
यदप्याह शङ्करः । न च सर्वत्र सहकारिभेदेन कार्यभेदादपि कारणस्य भेदः468
सिध्यति । यथैकत्वेऽपि सहकारिभेदाद् 469विज्ञानवर्तिविकारज्वालान्तराणि प्रदीपः करोति,
न चासौ भिद्यते, तदभेदस्य470 प्रमाणसिद्धत्वादिति ।
अपूर्वोऽयमस्य दम्भारम्भः । यदयमक्षेपक्रियाधर्मा471 स्वभावः शक्तिशब्द
वाच्यः, स472 किं प्रागप्यस्ति, यदि वा संप्रत्येवेति विकल्प्य चोद्यशक्तिवाच्यं मम
सहकारिसाकल्यमिति ब्रवीति, शक्त्यशक्तिलक्षणविरुद्धधर्माध्यासाद् भेद इत्यभिमतेन
कार्यभेदात् कारणभेद इति समाधत्ते—कः खलु कार्यभेदात् कारणभेदं 473वक्तुमुपक्रान्तो
यत्रैवमुच्यते, सहकारिभदेन यः कार्यभेदः स न कारणभेद इति474, अपि तु यस्य यदा
475यज्जननस्वभावः सोऽवश्यं तत्करोत्येव । न हि प्रदोप एव विज्ञानादिकार्याणि सकृत्
कर्तुं समर्थः क्षेपेण जनयति । तद्वद् वा क्रमभाविन्यपि476 कार्याणि सजातीयविजातीयानि
किं न तदैव करोति ? अतस्तेषामन्य एव कारको दीप इति युक्तम् । एवमन्यत्राप्येष
एव न्यायः ।
यत्पुनराह, प्रदीपादिव्यक्तीनामिव477 प्रत्येकमुत्पत्तिविनाशकारणानुपलब्धेरभ्रान्तं
स्फटिकादेरवस्थितिविज्ञानमिति,478 तदप्यन्धशरक्षेपायते, प्रदीपेऽप्यन्यान्यस्योत्पत्ति
कारणस्यानुपलब्धेः । वर्तिस्नेहादयो हि प्रदीपहेतवः, ते च प्रतिक्षणं प्रतिलवादि वा
31
न्यान्यी480भवन्तीत्यध्यवसायः कस्य संभवति ? अन्यथा स्फटिकेऽप्यन्यान्यीभवति
पूर्वपूर्वमन्यदन्यदुत्तरोत्तरस्य 481कारणमन्वयव्यतिरेकानुवृत्तेरिति किं न गृह्यते ? यद्यपि
च482 प्रदीपे कालभेदेनान्यबुद्धिरस्ति तथापि न तैलवर्त्योः, तत्कथं प्रदीपादिव्यक्तीना
मुत्पत्तिकारणोपलब्धिर्न स्फटिकस्येत्युच्यते ? विनाशकारणं तु चिन्तयिष्यामः । नापि
प्रदीपभङ्गुरतया तत्कारणभङ्गः सङ्गतो वक्तुम्, कारणाभेदात्कार्यस्यापि प्रदीपस्याभेद
प्रसङ्गात् ।
अथ वर्तिस्नेहयोः क्षय उपलभ्यते483, प्रदीपस्यापि क्षीयमाणदेशव्याप्तिवियोगात्,
स एव क्षय इति चेत् ? तैलं प्रबलमासीदिदानीमल्पं वर्तते । वर्तिरप्येवम्484 ।
प्रदीपोऽप्यन्यान्यतैलवर्तिभागपरिहारेणान्यान्यतद्भागव्यापीति, सर्वथा निवृत्तिस्तु कथ
मवसातुं शक्या, प्रत्यभिज्ञानस्य485 तदवस्थत्वात् ?
अथ वर्त्यादीनामपचयकालेऽवयवे क्रियोत्पद्यते । ततो विभागोदयः । ततः
संयोगनाशः । ततोऽपि तदारब्धद्रव्यनाशः । पुनः क्रिया, संयोगात् 486इतरद्रव्योदयश्चेति
नैकद्रव्यनिर्वाहसिद्धिरिति चेत् ? अनुभवभुवमवतरन्नपि यद्ययं प्रपञ्चम् आद्रियते,
बौद्धोऽप्येवं स्वप्रक्रियामुद्घोषयन् कथं वार्यः ? 13b पूर्वकेभ्यः सभागहेतुभ्यः
सहकारिणमपरमर्थमन्ततो वातातपतिमिरादि समासाद्य तेभ्यः487 परस्य समानपरि
माणस्य488 यथा 489सहकारिबलसङ्केतं न्यूनस्याधिकस्य वा संभव इति न स्फटिकशतकोटि
प्रभृतीनामेकतानिर्वाहसिद्धिः । यदा पुनरनेन साधनमेवोपन्यस्तं तदा नास्य प्रक्रियया
सिद्धिः, त्वत्प्रक्रियया बाधा वा । वातादयः किमुपचिन्वन्ति अपचिन्वन्ति वा
स्फटिकादौ, 490येन 491सहकारितया कल्प्यन्ते, प्राग्भावित्वमात्रेण कारणत्वेऽतिप्रसङ्गाद्
इति चेत्492—न वै 493स्थूलः 494कश्चिदुपचयोऽपचयो वा क्रियते तैस्तस्य । 495अतएवात्यन्त
सदृशोदयः । सूक्ष्मस्तु 497अशक्योपलक्षणतया यथेदंतया निर्देष्टुमयोग्यः, तथा निषेधमप्य
योग्य एव । एवमनेकवस्तुसंकरे कदाचित्केनचिदुपयोगे498 न किञ्चिद् वस्तु प्रस्तुतोपादा
नस्य सहकारि स्यादिति न सर्वथा सहकार्यन्तरविरहादेकस्य जननसङ्गतिरवगन्तव्या
इत्युपन्यासस्यार्थः । स्थिरत्वसिद्धौ तु यदि त्वमपि स्वप्रक्रियां499 निर्वाहयितुमीशिषे,
32
ईषिष्य । बौद्धसाधनविचारस्तावत् प्रस्तुतोऽयम् । तत्र च प्रस्तुतेऽनेककार्येणानेकेन
भाव्यमिति केन कर्णे भवतो निवेशितम्, यतः प्रदीपदृष्टान्तीकरणं भवतः शोभेत ?
तदिदमुच्यते, अन्यो व्याधिरन्यदौषधमिति ।
यदप्याह, यदेव 500च सहकारिभेदेन501 कार्यभेदे प्रदीपस्याभेदसिद्धौ साधनं, तदेव
क्रमवत्सहकारिभेदेन कार्यभेदेऽक्रमस्यापीति502, तदप्यत्यन्तमसंबद्धम्503 । अद्वयाकार
मिन्द्रियप्रत्यक्षमेव हि भेदभ्रंशमाशंसति प्रदीपे । सप्रतिघस्य हि प्रदीपस्य नैकस्थानम् ।
भिन्नदेशस्य चात्यन्तसदृशस्यापि भेदोपलक्षणमनिवार्यं मायागोलकवत् । अत एकाकार
मिन्द्रियज्ञानमेकतायामेव प्रदीपमवस्थापयति । कालभेदे हि504 भिन्नेऽपि वस्तुन्यत्यन्त
सदृशे505 प्रत्यभिज्ञानमुपजायमानमुपलब्धम् । न च प्रत्यभिज्ञानादन्यदेकतासाधनम् ।
तत्कथं तदेव साधनमिति न प्लवते ? न च सदृशतया कालभेदेन प्रत्यभिज्ञानस्य
संशयाङ्गत्वं व्यभिचारदर्शनात्, लक्षणभेदविरहात् । सकृदभेदभासिन्यपि प्रत्यक्षेऽना
श्वासः, तथा क्वचिददर्शनात् । इन्द्रियज्ञाने हि 506क्रमदर्शनेऽपि न योग्यमर्थद्वयं
प्रतिघाति, एकीभूयोपलभ्यमानमुपलब्धम्507 । तत्कथं सर्वत्रानाश्वासः ? तस्मादनुप
योगि 508प्रदीपदृष्टान्तेन प्रत्यवस्थानम् ।
एतदेव रूपं दृष्टान्तीकृत्याभिप्रायान्तरमस्य द्योतयन् न्यायभूषणेऽपि यदाह—
अपि च येन स्वभावेन रूपं रूपान्तरं करोति, न तेनैव रसादिकम्, रसादेरपि
रूपस्वभावताप्रसङ्गात्509 । ततः सर्वं रूपकार्यं चक्षुषा गृह्यते । न चैतदिष्टम् । तस्माद्
यथा रूपं रूपान्तरोत्पादनस्वभावेन तदेव करोति, विज्ञानोत्पादनस्वभावेन विज्ञान
मेव करोति, न रूपादिकम् । रसोत्पादनस्वभावेन च रसम् 14a एवं 510गन्ध
स्पर्शनजननस्वभावाभ्यां ताबेव जनयति । तद्वदक्षणिकोऽप्याद्यकार्योत्पादनस्वभावेन
तदेव करोति । तदुत्तरकार्यजननस्वभावेन तदुत्तरमेव जनयति511 । नाद्यमुत्तरोत्तरं वा ।
एवमुत्तरोत्तरकार्येष्वनन्तकालभाविष्वपि512 प्रतिनियताः स्वभावा द्रष्टव्याः । स्वभावा
एव हेतवो न स्वभावीत्यप्ययुक्तम्, 513रूपस्याहेतुत्वप्रसङ्गात्, स्वभावानामेव हेतुत्वात् ।
अथ न रूपस्य514 स्वभावभेद इष्यते, किं त्वेक एव तथाभूतस्वभावो, येन भिन्नाकारं
भिन्नदेशं कार्यमुत्पादयति ? तस्य भिन्नस्वभावकार्योत्पादानुरोधेन स्वभावभेदः कथित
इति ।
नन्वेवं परोऽप्यभिन्नस्वभावस्यैवाक्षणिकस्य क्रमभाव्यनेकस्वभावकार्योत्पादना
नुरोधेन भावस्वभावं कल्पयन्नोपालम्भमर्हतीति ।
एतदपीर्ष्याकषायितधियः परधन्धीकरणमात्रम् । तथाहि यदि तावदभिन्नात्मापि
दीपवदनेकमर्थमन्धकारनाशादि करोति कल्पितस्वभावभेद इतीयन्मात्रं विवक्षितम्,
हन्त को निषेद्धा ? अस्त्येष संभवो यदनेकमेकः515 करोतीति । एवं पूर्वापरकालयोरप्येक
स्वभावो यद्यनेकं कुर्यान्न विवादः । केवलं क्वचित् कार्यविलम्बः क्वचिदक्षेपकर्मेति न
युक्तम्516, प्रदीपवत् 517सकृदनेककरणमस्त्विति व्यर्थं प्रदीपनिदर्शनम् । अथ
क्रमभाव्यनेकमेकात्मनः कार्यमस्त्विति विवक्षितम्, तदा समर्थम् । न खल्वद्यापि दीपो
दृष्टान्तयितुं शक्यः । एवं रूपेऽपि निदर्शने क्रियमाणे वक्तव्यम् । नचैवं518 निर्वहति
यदनेकं तदनेकेनैव कर्तव्यम्, दीपकार्यवत् कालभेदभावि चानेकं कार्यमिति, न ह्यनेकं
जायमानमेकस्यैव कार्यमापद्यते, एककर्तुरपाये बानेकजन्मैव न स्यादित्युपपादयितुं
शक्यम् । दाहगाहनादेरनेकस्यानेकेनैव जलज्वलनादिना 519करणदर्शनात् । 520कालभेदा
भिन्नमेकं विवक्षितमिति चेत् ? अनेककालान्तरितैरेकात्मभिरनेकं521 न क्रियमाणमुप
लक्षयसि । एवं तु ब्रूयाः, एकमनेकं वा भिन्नकालमभिन्नकालं वा नित्यादेव जायत
इति । 522तच्च प्रतिज्ञामात्राविष्करणमभीष्टात्मनः कस्यचिदर्थस्य न साधनं, नापि
परप्रयुक्तसाधनबाधनमिति523 किमनेन ? तथापि न दीपरूपदुष्टान्तेन किञ्चित् ।
यदि च कार्यभेदेनापि भावं भिन्द्यादस्थिरवादी, तथापि रूपमेवाभिद्यमानं भिद्यमानौ
रूपरसौ कथं524 जनयतीतीयन्मात्रेणानेकान्तमुद्भाव्य स्वस्थो भव । रूपस्यापि पुनरे
कत्वसाधनेन क525 उपयोगः, सिद्धत्वात् ?
ततः शंकरोऽपि, न हि येन स्वभावेन वर्तिविकारस्य हेतुः, तेनैव ज्वालोप
लम्भयोरपि तत्स्वभावताप्रसङ्गादित्यभिदधानो न किञ्चिच्चेतयत इति उपलक्ष्यते,
एकस्यानेककरणाविरोधात्526 ।
अथ यथा बौद्धोऽभ्यधात् क्षणान्तरेऽपि यदि स एव स्वभावो भावस्य527,
तदा संप्रतीव प्रागपि जननप्रसङ्गः । न च जनयति । ततः 14b स्वभावभेदो
भावस्येति । तथाहि, यदि ज्ञानजनकेनैव रूपेण वर्तिविकारं करोति दीपः, तदा तस्यापि
34
तत्त्वप्रसङ्गः । न च तत्त्वमस्ति । ततो दीपोऽपि किं भिन्नस्वभावोऽस्तु ? यथा च
कार्याणां तादात्म्यविरहेऽपि528 हेतुभेदाभावः, तथा कार्याणां भिन्नकालत्वेऽपि न
हेतुभेद इति विवक्षितम् । तदापि बौद्धेन529 प्रमाणबलमालम्ब्य जनकाजनकावस्थयोः
भावभेद आरोपितः । तत्र च यद्यक्षमा, तदाऽसिद्ध्यादिदूषणमेव वक्तुं साम्प्रतम् ।
तावतैव तस्य निराशे किमनेन प्रबन्धेन ?
अथ 530दुष्टमेव तत्साधनम् ? तथापि तेन यत् सिद्धं तत् सिद्धमेव तावत् ।
प्रदीपस्य स्वभावभेदो भवतु, मा वा भूत्, तथापि531 किमस्योपन्यासेन ? यच्च दीपस्य
स्वभावभेदसाधनाय532 साधनं कार्याणां तादात्म्यविरहो नाम, सोऽपि यदि सिद्धस्व
साध्यप्रतिबन्धः, तदा तेन यदि युगपदपि भेदसिद्धिः कस्यचित्, तदा तदोर्ष्यया
किमनेन बौद्धसाधनेन ? प्रयागवटप्रयातायातयोः533 द्वितीयमूढकर्णाटेनेव स्वसाध्यसाध
नाय प्रवृत्तिनिराशः534 कर्तव्यः । अन्यथाऽनेन भेदे साधिते प्रदीपभेदसाधनमेव किं535
प्रवर्तते, न वा किञ्चिदपि साधनं साध्यसाधनाय प्रवर्तेत धूमादिसाधनं स्वसाध्य
साधकं दृष्ट्वा ॥
अथेदं प्रदीपस्वभावभेदसाधनमध्यक्षाधिक्षिप्तं536, स्वसाध्यप्रतिबन्धविधुरं वा,
तदा तदेव नश्यतु । न तदा बौद्धसाधनस्य क्षतिः । तथापि किं तस्योपन्यासेन ?
यदि बौद्धस्पर्द्धया तद्विमर्शमसारीकर्तुमुपमानभूतं 537विमर्शान्तरमेवेदमुपनीतम्538,
तदायमस्थितः पक्षः स्वभावभेदो दीपस्येति । एवं सति एक एवासौ शक्तिविशेषो
यस्तेषामुत्पादक539 इति चेत् ? एतदपेतागमयुक्तिकं परस्पर्धयाभ्युपगम्यमानमपि न
नीतिशीलान् प्रीणाति540 । प्रतिनियतस्वभावोपादानाभावे तेषां सर्वत्रोत्पत्तेरदृष्टपूर्व
त्वादित्यादिना । तथा541 स्वभावभेदाभावे च कारणस्य कार्यभेदभावे तस्याकस्मिकत्वं
प्रसज्येत । तथा चाकरणं विश्वस्य वैश्वरूप्यं स्यादित्यनेन च कथं स्वभावभेदमेव स्व
भाषया द्रढयेत् ? न चायं न्याय्यः । तथा हि यत्तावदुच्यते, यदि येनैव स्वभावेन
दीपो वर्तिविकारहेतुस्तेनैव ज्वालादेः, तदा ज्वालादेरपि वर्तिविकारत्वप्रसङ्गः, न चैवम् ।
तस्माद्भिन्नेनैव स्वभावेन वर्तिविकारे भिन्नेन च ज्वालादौ दीपः प्रवर्तते इति विपर्य
यार्थः । तत्र च प्रत्यक्षबाधैव542, निरंशस्य दीपादेस्तत्र भासनात् । अन्यथा कदम्ब
35
गोलकवदनन्तस्वभावपरिकरितस्याभासप्रसङ्गात्543 । न चानुपलभ्यत्वमेषामभिधातुं
शक्यम्, प्रदीपस्वभावत्वेऽनुपलभ्यताया544 विरोधात् । यदि च प्रदीपस्वभावत्वेऽप्य
दृश्यत्वं विरुद्धमनुरुध्यसे वर्तिविकारकारणत्वेऽपि ज्वालादिहेतुतां किं न संभावयसि,
यतः स्वरूपराशिपरिकल्पनव्यग्रोऽसि ? तस्मान्नानुपलभ्यमानस्य प्रदीपस्वभावता ।
15a उपलभ्यत्वे च नाध्यक्षधिक्षेपपरिहारः । दीपादन्यदेव दृश्यमदृश्यं वा
वस्तु दीपस्वभाव इति तु नागलोकभाषा । अनन्यरूपे हि स्वभावस्वरूपस्वलक्षण
शब्दाः प्रसिद्धाः । कल्पनोपस्थापिते तु धर्मे भिन्न इवाभासमानेऽपि545 तदध्यवसायादेव
स्वभावशब्दप्रयोगः, यथा नित्यत्वं शब्दस्य स्वभाव इति । ततो यदि सहकारिणि546
शक्तिशब्दवद्भिन्नेऽपि547 क्वचित् स्वभावशब्दः548 प्रयुक्तः, तथापि स्वभावान्तरेण करोतीति
वस्त्वन्तरेण सहकारिणा करोतीति यावत् । न च स्वभाविनः 549करणवारणमभिमतम् ।
ततः स्वभाविशब्दो बाह्योऽर्थः । तेन स्वभावेनाभिन्नेनैव भिन्नानि कार्याणि करोतीत्या
यातम् । केवलमनेकसहकारिपरिवारित इति विशेषः । स च कस्य नेष्टः ? न च सह
कारिणोऽपि स्वमनीषिकया कल्पनीयाः, किं तु 550यावन्तोऽन्वयव्यतिरेकग्राहकप्रमाण
व्यापारास्तावन्त एव । स च व्यापारः तेजस्तैलवर्त्यादिव्यतिरिक्तस्य नास्तीति किमधिक
विधानेन ? प्रत्युत स्वभावशब्दाभिधेयानर्थान् परिकल्प्य षट्पदार्थ्यामन्तर्भावयन् किं
विफलमायास्यसि ? यदा चैवं551 पर्यन्ते स्वभावशब्दाभिधेयं निजं552 रूपमेकमेवानेक
कार्यहेतुरिति उपपादितम् तदा, यदेकेन रूपेण जनितं, तदेकमेवेति न सिद्धा व्याप्तिः ।
तथा सति प्रसङ्गवद्विपर्ययस्यापि नानेकान्तपरिहारः । प्रतिनियतस्वभावोपादानतापि
तेषां न 553प्रदीपस्यैव तात्त्विकानेकस्वभावतया, किं तु 554तत्सामग्र्यामपोद्धारद्वारेणान्वय
व्यतिरेकाभ्यां कस्यचित्तैलं कस्यचिद् वर्तिः कस्यचिद् दीप इति कथं 555सर्वत्रोत्पत्ति
रेषामुपलभ्यते ?
यत्तु कारणभेदाद् भेद इति, तत्र सामग्रीलक्षणकारणवैजात्यात् कार्यवैजात्य
निमित्ताभ्युपगमः556, तथैव प्रमाणेनार्पणात् । न तु सामग्र्यन्तर्गतकारणनानात्व
557मेकस्यानेकस्वभावतयेति शास्त्र एव विपञ्चितम् । तदलमेषां प्रमाणनिरपेक्षस्वोत्प्रेक्षा
36
मात्रेण विकल्पेषु निर्बन्धेन । न च तैः स्वभावभेदैर्भाविकः सिद्धरप्येषां 558काचिदर्थ
सिद्धिरित्युक्तमेवेत्यफल एवैष भावः ।
यथा तर्हि त्रिलोचनश्चर्ययति559 तथानयोरपि नीयतामभिप्रायः560 । तथा
च न्यायमञ्जरी, असाधारणमपि सत्त्वं माध्यमिकन्यायेन शक्यमुद्भावयितुम् ।
तथा हि, क्षणवादेऽपि 561पूर्वरूपक्षणो येन स्वभावेनानन्तरक्षणमुत्पादयति562,
किं तेनैव रसक्षणमप्याहोस्वित् स्वभावान्तरेण ? यदि तेनैव, रसस्यापि रूपत्वप्रसङ्गः ।
न ह्येकस्वभावात् कारणात् कार्यभेदं पश्यामः, विश्वस्याहेतुकत्वप्रसङ्गात्563 । अथ स्व
भावान्तरेण करोति564 ? यद्येवमेकस्य विरुद्धं, स्वभावद्वयं प्रसज्येत565 । रूपजनन
स्वभावो हि रसजननस्वभावान्नाव्यभिचारी566 । तत्र यदि स्वभावान्तरं भवेत्,
भवेत्तत्रैव तस्य भावोऽभावश्च । भावाभावौ च 567साक्षाद्विरुद्धौ पूर्वकं रूपलक्षणं
भिन्तः । न च भिन्नो दृश्यते सः ।
स्यादेतत् । पूर्वकस्य568 रूपक्षणस्य रसे कर्तव्ये स्वभावान्तरं पूर्वक 15b एव
रसक्षणो, 569न च विरुद्धं स्वभावान्तरमस्तीति । यद्येवमक्षणिकस्यापि क्रमवतीषु कार्य
व्यक्तिषु570 स्वभावान्तरं क्रमवत् सहकार्यन्तरमेवेति सर्वं समानमन्यत्राभिनिवेशात् ।
तस्मादसाधारणमुपाददानस्य स्वभावभेदापत्तेः क्षणिकेभ्यो निवर्तमानं सत्त्वम् । येन
च571 प्रकारेण स्वभावभेदो निराक्रियते, 572तस्याक्षणिकत्वेऽपि समानत्वात् सत्त्वमक्ष
णिकान्न निवर्तते । अतो व्यतिरेकासिद्धेः573 प्रतिबन्धासिद्धिरिति ।
तत्र तावद् योगाचारनिष्ठामनालोचयन्नयं सौगतसमयज्ञानाभिमानी माध्यमिक
न्यायेनेत्याह—उभयोरपि हेतुफलापवादस्य तत्त्वतोऽभिमतत्वादित्यधरसिद्धिमुद्धूय574
साकारसिद्धौ दर्शितमेव । स्थिते च हेतुफलभावेऽस्माकमियं क्षणभङ्गचिन्तेत्युक्तम्575 ।
सा च स्थितिग्रह्यिग्राहकभावस्य तात्त्विकत्वे गृहीते । तदा च576 यदेव यस्यान्वय
व्यतिरेकानुविधायि, तदेव कार्यं कारणं च भवतु 577बीजाङ्कुरवत् । यथा च578 कस्यचि
देकमन्वयव्यतिरेकानुविधायि दृश्यमानं कार्यं, तथा यद्यनेकमपि 579कस्यचिदेकस्यान्वय
37
व्यतिरेकावनुविधीयमानमुपलभ्यते580, तदा किमनेकेनाप्येककार्येण581 भवितव्यम् ?
परवेदनापलापे हि एकमप्येकस्य कार्यं न स्यात् । अनपलापे त्वनेकमपि कार्यमेकस्य
केन वार्यते ? अतः परवेदनापवादिवादिमतावतारणेन न किञ्चित् । ग्राह्यग्राहकस्थितौ
त्वेकवदनेकस्याप्येककार्यतान्यायः समानः । तत्कथमेकात्मना 582जन्यमानमेकाकारमेव
भवेदिति प्लवते ?
यत्तूक्तम्—नह्येकस्वभावात् कारणात्कार्यभेदं पश्याम इति, तदतिसाहसम् । किं
वा न पश्यति प्रदीपमेकं विकारकारिणमन्धकारहारिणं च, तरणिं वा तमःकमलयो
र्निधनप्रवोधविधायिनम् ? सर्वदान्धकारमग्नो वा भवान् पश्यति वा सहस्रमंशु
मालिनः कार्यसहस्रकारिणः ? एकस्वभावात् तु कारणान्न कार्यभेद इति समान
सामग्र्या न कार्यवैजात्यमित्यर्थः । अतएव न विश्वस्याहेतुकत्वम् । तस्मादेकस्मादने
कोत्पत्तिरविरोधिनी583 । कार्यद्वारेण तु रूपं रूपकारणं रसकारणं चेति समुच्चयेन
स्वभावद्वयव्यवहारः । अतएव न विरोधवार्ता । नहि समुच्चये प्रमाणसिद्धे विरोध
गन्धः । वातातपयोरिवैकस्मिन्नाकाशदेशे584 ॥
यत्तूक्तम्—रूपजननस्वभावो हि 585रसजननस्वभावताव्यभिचारीति, तावतापि
भेदमात्रं सिध्यति, न तु विरोधः, कृतकानित्यवत्586 । यथाहि नीलाभावाव्यभिचारि
पीतं न नीलं भवितुमर्हति, न तु तन्मात्रेण विरोधः । न हि यद् यतो भिद्यते तदशेषं
तेन विरुद्धमभिधातुं शक्यम् । विरोधस्तु यद्यप्येकस्मिन् धर्मिणि द्वयोरसंभवयोर्नियमः,
स च कदाचिद् वस्तुनोरेकस्य भावेऽन्यपर्यादानाद् दहनतुहिनवत् । कदाचिद्धर्मयोः
स्वभावेनैव एकाधिष्ठितेऽन्यासंभवात् भावाभाववत्, नीलत्वानीलत्ववद् वा । तत्र
यदि नीलपीतद्रव्ययोरप्येकभावेऽन्य587पर्यादानमापादयेत्, स्यादेव588 16a सहानव
स्थाननामा विरोधः । न तु तदभावाव्यभिचारमात्रेण । भेदमात्रं तु तावता । एवं
नीलत्वपीतत्वयोरप्यभावव्यभिचारमात्रेण भेदमात्रं तु न तु विरोधः । विरोधस्तु
नीलत्वस्वीकृते589 धर्मिणि स्वयमेवानीलत्वभेदस्य पीतत्वस्याभावात् । अन्यथा 590कृत
कत्वानित्यत्वादीनामपि तदभावाव्यभिचारमात्रेण विरोधप्रसङ्गात् ।
अथ कथमत्र तदभावाव्यभिचारः ? न हि कृतकेन सता नानित्येन591 भाव्य
मित्युपपत्तिरस्ति । यद्येवं रूपजनकेन592 सता रसजनकेन न भाव्यमित्यत्रापि कोपपत्तिः ?
38
रूपजनकत्वादेवेति चेत्—न, अयोगव्यवच्छेदेन विशेषणे क्षीणत्वादुपपत्तेः, अन्ययोग
व्यवच्छेदस्यासिद्धत्वात् । तथाहि593 किं रूपस्य जनकमेव ? अथ रूपस्यैव जनकमिति
रूपजनकम् ? तत्र प्रथमपक्षे रूपं प्रत्यजनकत्वस्यैव व्यवच्छेदो न पुनरन्यजनकत्वस्य
व्यवच्छेदो विधिर्वेति, साधनान्तरमपेक्ष्य तेनैव विरोधे व्यवच्छेदस्यैव असिद्धेः ।
द्वितीये तु पक्षे, अन्यजननक्षेपसिद्धिरसन्दिग्धा । केवलं न तत्र प्रमाणव्यापारः । यथा
ह्येकस्य तन्नान्तरोयकत्वं तथा द्वितीयस्यापि यदि स्यान्न दोषः, प्रदीपवत् । न तु
595रूपजनकमित्येव 596रसजनकप्रतिक्षेपो, रूपजनकत्वस्यायोगव्यवच्छेदेनापि चरितार्थ
त्वादिति न काप्युपपत्तिरत्रापि । केवलं कल्पनाबुद्धौ यथार्थान्तरमिव रूपजनकत्वं
प्रतिभाति, तथा तदभावाव्यभिचारि च पृथगेव रसजनकत्वमवसीयते । यतः पृथक्
शब्दप्रमाणवृत्तिः अपेक्ष्यते, तावतैव विरोधमध्यवस्यति । सावगतिः597 598कृतकत्वानित्य
त्वयोरपि न व्यवसीयते599 केनापि । नापि तत्र विरोधाभिधानेन 600कश्चिदुपयोगः । एकत्र
धर्मिण्यपरपरिहारार्थमेव हि विरोधः साध्यते । तद् यदि विरोधेऽप्येकधर्मिसम्पर्कः,
कृतं विरोधचिन्तया । नीलत्वानीलत्वादिषु601 तु प्रयुज्यते परस्परपरिहारात्मा विरोधः ।
ननु602 603परस्पराभावाव्यभिचाराविशेषेऽपि कथं केषाञ्चिद् धर्माणामेक
धर्मिण्यनवस्थानात्मा विरोधः, केषाञ्चित् पुनर्भेदमात्रं न विरोधः ? उक्तमत्र, यद्व्यव
च्छेदेन यस्य विधानं यद्विधानेन वा यस्य व्यवच्छेदो नियमेन, तत्तेन प्रतियोगिना
विरुद्धम् । यत्र नेयं गतिः, तदविरुद्धमित्यलं पुनः परिश्रमेण । तदेवं रूपजननरस
जननयोः परस्पराभावाव्यभिचारेऽपि 604कृतकत्वानित्यत्ववद् भेदमात्रं शब्दप्रमाणान्तरा
कर्षि, न तु विरोध इति स्थितम् ।
यत्तूक्तम्—तत्र यदि स्वभावान्तरं भवेदित्यादि । स तर्हि न्यायः किं कृतका
नित्यत्वाभ्यां बिभेति605 ? प्रसङ्ग एव606 तत्रापि भवत्विति चेत् ? ननु607 पराभ्युपगमेन
प्रसङ्गः, न च मयेदमङ्गीकृतं परस्पराभावाव्यभिचारमात्रेण विरोध एकत्रानवस्थान
हेतुरिति । किं तवैषोऽभ्युपगमः प्रमाणवृत्तिर्वा ? उभयथाऽपि न ममापराधः । 16b
सिध्यतुतरां च कृतकत्वानित्यादीनां विरोधो, न चैवं तस्मात्परस्पराव्यभिचारस्य608
39
तादात्म्यनिषेधे व्यापारात् न कृतकत्वमेवानित्यत्वम् । अनिषेधे त्वेकस्यैव कृतकत्वस्य
भावोऽभावश्च स्यात् । यथा वस्तुनो नीलादनीलस्याव्यवच्छेदे तस्यैव भावोऽभावश्च
स्वीकृतः स्यादित्युच्यते । नीलमिति हि तस्य भावः । अनीलमिति चाभावः तदभाव
व्याप्तस्यानीलस्य609 भावो न610 व्यापकं तदभावमनाकृष्य स्थातुं शक्तः, भावाभावयोश्च
विरोधः प्रसाधित एवेत्येकधर्मिण्यनवस्थानमिति यन्नीलं तन्नानीलं पीतादिवस्तु, तथा
धर्मोऽपि यत्कृतकत्वं, तन्नाकृतकत्वमनित्यत्वादि । यद्रूपजननं तन्नारूपजननं रसजन
नादि । अन्यथैकत्र कृतकत्वरूपजननादौ 611शब्दप्रमाणप्रवृत्तावन्यत्रानित्यत्वरसजननादौ
प्रमाणान्तरानपेक्षाप्रसङ्गः ।
तस्मात् तादात्म्ये भावोऽभावश्चैकत्र स्यादिति दोषः । न तदाधारत्वे ।
तौ हि परस्परं भिन्नौ धर्मौ यद्येकत्र स्यातां, कीदृशो दोषः ? भावाभावदोषस्य
भेदसाधनेनैव चरितार्थत्वात् । शास्त्रेऽपि हि विरुद्धधर्माध्यासो भेद उक्तो, न
विरोधः । विरोधलक्षणं त्वन्यत् प्रसिद्धमेव । 612तादात्म्यनिषेधोऽपि विशेषणानपेक्ष
स्वभावानुपलम्भादुक्तो न विरुद्धोपलम्भात् । तदेवं भावाभावलक्षणविरुद्धधर्म
संसर्गात् तद्धर्मित्वेन भासमानौ धर्मावेव भिन्नौ भवत इति न तयोरपि धर्मिवस्तुनो
र्नानाधर्मयोगमात्रेण613 भेदवार्ता । यदा पुनस्तथा भिद्यमानावेव धर्मौ यथोक्तपरस्पर
प्रतिद्वन्द्विनौ भवतस्तदा तद्धर्मिणोऽपि भेदः, 614नीलत्वानीलत्वभावाभावधर्मिवत्,
एककार्यं प्रति 615जननाजननवच्च । तस्माद् भावाभावौ साक्षाद् विरुद्धौ रूपजनकत्व
रसजनकत्वलक्षणौ धर्मावेव स्वधर्मित्वेनाभासमानौ भिन्तः616 । न तयोरप्याधारं
617प्राचीनविरूपलक्षणम्, स्वयं विरोधाभावात् । अत एव न618 भिन्नौ दृश्यते सः,
एककार्यजनकाजनकत्वे च स्वयं प्रत्यनीकतया स्वधर्मिणं भिन्त619 एव, अभेददर्शनं च
प्रत्यनीकावसायेन विरोधी यत इति अनुमानवृत्तिश्चेति सर्वमनवद्यम् ॥
अयं तु स्वयमेव न ह्येकस्वभावात् कारणात् कार्यभेदं पश्याम इति, न च भिन्नो
दृश्यते स इति च ब्रूवन्नस्वस्थ एव न निर्बन्धयोग्यः । तस्मान्नैकस्वभावायाः सामग्र्याः
कार्यवैजात्यमित्यविरोधः । न तु स्वभावपरम्परारहितादिति । तदेवं स्वभावसन्देहा
40
पोहाद्620 यदुक्तम्, क्षणिकेभ्यो निवर्तमानं सत्त्वमसाधारणमुपाददानस्य स्वभाव
भेदापत्तिरिति621 तन्निरस्तम् ।
काल्पनिक इव भेदप्रतिभासो न तात्त्विको भेदः । किं च तात्त्विकस्वभावभेदा
पत्तावपि सत्त्वमसाधारणमिति श्रद्धावधेयमेव । न हि वस्तूनां परिमाणातिरेकेण
नित्यादिव क्षणिकादपि व्यावृत्तं भवति सत्त्वम्622, यतोऽसाधारणमवधार्येत । स्वभाव
भूमनि कश्चिन्नित्योऽपि स्यादिति चेत् ? 623तमनुपतत्तर्हि सत्त्वं624 17a साधारण
मनैकान्तिकमाशङ्क्यताम् । तच्च चिन्त्यम् । बाधकानां व्यात्तवदनानां संभवात् ।
अथ स्वभावपरम्परासंभवे भावस्येव परिभवात् कस्य क्षणिकत्वमिति क्षणि
कादपि व्यावृत्तमुच्यते, तदपि नास्ति । स्वयमेव स्वभावेभ्यो भिन्नस्य स्वभाविनः
क्रियासमर्थनेन रक्षाविधानात् । न च स्वभावभेदसंभवे 625मूलस्य क्षयोऽपि युक्तः,
अपरिमितोपाधिसंभवेऽपि तद्वतो व्ययानिष्टः । अस्मद्दर्शनेऽपि यदि नाम 626वस्त्व
न्तरराशेरुदयः, तथापि प्रकृतभावस्य कीदृशी क्षयोपपत्तिरिति 627व्यक्तमेतत् । स तु
राशिः 628प्रमाणमन्वियान्नवेति चिन्त्यम् । भवतु वा मूलापलापः । ये तु स्वभावा
भाविका इष्टाः तदात्मनि मग्नत्वान्मूलस्यैकं पृथक् सत् क्षणिकं मा भूत् । भूयांसस्तु
क्षणिकाः सन्त इत्युपचय एव क्षणिकतायाः629, कथं क्षणिकतायाः सत्त्वव्यावृत्तिः ?
तदेवमेवंविधाः प्रलापा 630ग्राम्यजनजनितमहिमानस्तेष्वेव शोभन्ते, न तर्ककर्कश
कुशाग्रीयबुद्धिषु बौद्धेषु । या तु शिक्षा स्वभावभेदसाधनाय स्यादेतदित्यादिः 631सैषा
मेवास्तु, अन्योऽन्यस्य स्वभाव इति स्वस्थस्य वक्तुमशक्तेः । स्वभावभेदस्तु632 साधना
संभवादध्यक्षबाधनाच्च परिहृत एव । न च भवन्नपि प्रकृतदोषसंस्पर्शी633 । नापि
सहकार्यन्तरमेव634 स्वभावान्तरमिति दन्तनिष्कोषिकया635 स्वभावभेदसाधना हेतवो
विपर्यासयितुं शक्यन्ते636 । क्षणिकवादी हि सहकारिणः पश्यन्नेव 637प्रसिद्धस्वभावभेद
साधनाय साधनमुपन्यस्य न कथमप्यनेन वचसा प्रतारयितुं शक्यः । तद्वरं तत्साधनम
साधनमेवेति मुख्यमाख्यायतानिष्टसिद्धव्याघातादिति ।
तत्र 638चोक्तमस्माभिः । न च सहकारिसाधनायैव 639प्रत्यवस्थातुरयं प्रयत्नः ।
640कार्येणानुभूतान्वयव्यतिरेका हि सहकारिणः प्रत्यक्षादिप्रमाणसिद्धा एव किमत्र
साध्यम् ? ततोऽक्षणिकाभिमतस्य क्रमवतीषु कार्यव्यक्तिषु स्वलक्षणभेदसाधन उपन्यस्ते
दूषणमनुक्त्वा641 सहकार्यन्तरमेव स्वभावभेद इति लपनं642 यदि स्वहृदयसन्तोषमा
लम्बेत, आलम्बताम् । न तु643 परसाध्यं बाधितमनेन । तस्मात् सिद्धमर्थक्रियाकारित्वम
स्थैर्येण व्याप्तमिति ॥
यदप्यनेनोक्तम्—किं चेदं तावदयं क्षणिकवादी प्रष्टव्यः । पूर्वस्य क्षण644स्योत्तर
स्मिन्नेकसन्तानवर्तिनि क्षणे कर्तव्ये646 नान्यत् किञ्चिदपेक्षणीयमस्ति । ततश्च परोत्पत्ति
प्रत्यनपेक्षत्वात् तन्मात्रानुबद्धेनोत्तरेणापि647 सत्येव तस्मिन् भवितव्यम् । अभवन् वा
तन्मात्रानुबद्धो648 न स्यात्, अपि तु निमित्तान्तरापेक्षो विज्ञायेत । असभागोत्पत्तौ तु
649पूर्वे समानसन्तानवर्तिन एकसन्तानान्तर्भूतत्वाविशेषात्650 समर्था असमर्था वा651
भवेयुः । तेन सन्तानान्तरवर्तिक्षणप्रतिबन्धसामर्थ्यः सापेक्षः क्षणः स्यात् । न तु
सभागक्षणप्रतिबन्धोत्पत्तौ652 । तथा च सति पूर्वक्षणसत्तामात्रानुबन्धित्वाविशेषादुत्तरोत्तरः
क्षणः पौर्वापर्यं त्यक्त्वा युगपदुत्पद्येत । ततश्च 653प्रबन्धापेक्षकार्य17b क्षणकालभाविनां
क्षणानां प्रबन्ध उच्छिद्येत । ततश्च त्रैलोक्यवर्तिसकलवस्तुसन्तानभाविनामनेनैव पर्यायेण
प्रबन्धोच्छेदादन्योन्यसंपीडिता654 कृत्स्ना त्रिलोकी प्रसज्येत ।
अथापि 655समयसमयभावित्वात् सव्येतरगोविषाणयोरिव कार्यकारणभावो
नास्तीत्युच्यते, यद्येवमतीते क्षणे656 657 पूर्वस्मिन् वस्त्वन्तर उत्पद्येत, सति च नोत्पद्येत
इत्यपूर्वोऽयमन्वयव्यतिरेकानुगमप्रकारः । एतयापि द्वारा क्षणिकानामर्थक्रियाकारित्व
मेवानुपपन्नमिति658 ॥
तदपि सर्वमसंबद्धम् । तथाहि यत् तावत् पूर्वस्योत्तरे कर्तव्ये नान्यत्र क्वचिद
पेक्षेति, तत्र सभागा उत्तरे सर्व एव क्षणा अभिप्रेता भवतः । अन्यथा सर्वेषां यौग
पद्यप्रसञ्जनमनुपपन्नं स्यात्659 । तत्र यदि स्वाभिप्राये दूषणं तदा न कश्चिद् विपक्षः660 ।
अथ सौगत एव प्रष्टव्यः, तदा पूर्वस्य उत्तरस्मिन्ननन्तर एव क्षणे661 कर्तव्ये निरपेक्षत्वं,
42
नोत्तरे क्षणे । स एव तर्हि तस्य स्वभावो नास्ति यस्तदुत्पादकः662 । ततः स्वभावसापेक्ष
त्वात्कथमनपेक्षः ? स तर्हि स्वभावः कदाचिदस्य भावी, न भावी तर्हि तदपेक्ष इति
वाचोयुक्तेः कोऽर्थः ? अयमर्थः । यदुच्यते663 देवदत्तोऽत्र कार्ये यज्ञदत्तापेक्षः समर्थ
इति । तत्र द्वयं प्रतीयते, स्वयमसमर्थ इति, यज्ञदत्तेन 664सह समर्थ इति च । न च
सर्वो व्यवहारस्तत्त्वानुरोधी । किं तु क्वचित् किञ्चित् सत्यम्665 । तदत्रापि स्वयमसमर्थ
इत्ययमंश उभयसंमतत्वाद् दुरपह्नवः । स एव पश्चादन्येन सह समर्थ इत्यत्र तु
विवादः । अतएव 666साधने बाधनावतारः । अतस्तदंशासिद्धेः667 तदपेक्षं स्वयं
668शब्दमप्यपनीय क्वचित् 669सापेक्ष इत्यसमर्थ इत्येवार्थः । तत उत्तरोत्तरे कर्त्तव्ये
असंभविनि तदुत्पादनस्वभावे सापेक्ष इति कोऽर्थः ? उत्तरोत्तरकर्तव्ये समर्थः ।
670तदत्र यद् दूषणं तदुच्यताम् ।
स्यादेतत् । उत्तरस्वरूपाविशिष्टमुत्तरोत्तरम्, ततः पूर्वं यथोत्तरे शक्तं तथोत्तरो
त्तरेऽपि । उत्तरोत्तरे अशक्तः तदुत्तरेऽपि कथं शक्तः671 स्यात्, एकस्वभावत्वाद्
द्वयोरिति ?
तदप्यसंगतम्, एकस्वभावत्वासिद्धेः672 । सभागक्षणपरम्परापेक्षया सिद्धमेक
स्वभावत्वमिति चेत्—न, सर्वथा सभागत्वासिद्धेः । सजातीयार्थो हि सभागार्थः ।
सजातीयत्वं च विविधम् । रूपतः शक्तित उभयतश्चेति । तत्र यद्यपि रूपमात्रकृतं
सजातीयत्वमुत्तरस्योत्तरेण, तथापि सामर्थ्यकृतं नास्ति । ततः कृतं673 विजातीयत्वमेव ।
अतएव बीजादीनां स्वभावपरिणामपरम्परया कियत्याप्यङ्कुरकार्यनिष्पत्तिः । तत्र हि
अन्तिमस्य बीजक्षणस्याङ्कुरे शक्तिः । अन्तिमे पुनरुपान्त्यस्योपान्त्ये च तत्पूर्वस्येत्येवं
यावत्प्रथमबीजसंभवः । एवं सहकारिसामग्र्यपि 674तत्रापरापराविशिष्टैवेति वेदितव्यम् ।
अतएवापरापरप्रत्यययोगेन प्रतिक्षणभिन्नशक्तयः संतन्वन्तः संस्कारा यद्यपि कुतश्चित्
साम्यात् सरूपाः प्रतीयन्ते, तथापि भिन्न एवैषां स्वभावस्तेन किञ्चिदेव कस्यचित्
कारणं कार्यं वेति न्यायः । 18a ततः सर्वथा सभागत्वविरहात् पूर्वस्योत्तरक्षणजनन
सामर्थ्येऽपि नोत्तरोत्तरजननमस्य, ततः शक्तिविशेषेण विशेषात्675 । तथा तस्याप्यन्य
स्मात् शक्तेरुपचयोऽपचयो वा676 ? उभयोरपि विशेष एवोच्यते । विशिष्यतेऽन्यस्मा
43
दिति । तत् कथमेकक्षण एव सर्वेषां सभागाभिमतक्षणानामुपनिपातचोद्यावकाशः677 ?
अन्वयव्यतिरेकोत्प्रासोऽपि पश्चिमो दुश्चरितमेव678 । क्षणभङ्गसाधनसामर्थ्याकदर्थने
हि679 यदेकानन्तरमन्यजन्म, स एवान्वयः । यच्च तत्कारणस्य प्रागसंभवेऽसंभव एव
देशकालान्तरे कार्यस्य, स एव व्यतिरेक इति किमत्र क्रियतामनिच्छतापि ? नित्य
वादिनोऽपि हि न सहैव680 हेतुफलयोर्जन्म । किं तु हेतुजन्मानन्तरं फलस्य जन्म ।
यत्क्षणाच्च कारणस्य कार्यमुदयवत् ततः प्राक् पश्चाद् वा संभवे कारणस्य681 कार्यस्य क
उपकारः ? तत्क्षणान्तरमस्य जन्मेति तावतैव कृतार्थत्वात् कार्यस्य तावतैवान्वयः,
तदभावेऽभावश्चेति व्यतिरेकश्च । केवलं तत्क्षणात् प्राक् पश्चादपि कारणाभिमतस्य
भावः प्रमाणोपनीतेन682 कार्यानुपयोगमात्रेण परिहर्तुं शक्य इति तावन्नित्यवादिनो683
विशेषः । स च विचारितः । अन्वयव्यतिरेकौ तु यथोक्तमात्रेणेति स्थितम् ॥
यदपि सत्त्वस्यासाधारणतां प्रतिज्ञाय एकस्मादनेकस्मादेकमनेकं वोत्पद्यत इति
विमृश्यानेकस्मादनेकोत्पत्तिपक्षं स्थितमादायोवाच वाचस्पतिः, किं पूर्वे क्षणा उत्तरेषां
क्षणानां परस्परं निरपेक्षा684 एव जनका आहोस्वित् सापेक्षा685 इति ।
ननूक्तमन्त्यक्षणप्राप्ताः686 परस्परमनपेक्षाः कार्याणि जनयन्तीति । तत् किमनभ्यु
पेतारोपप्रपञ्चेन ? तत् किमिदानीं 687समर्थबीजक्षणजनकोऽपि तज्जनने बीजक्षणोऽन
पेक्ष688 एव ? ओमिति ब्रूमः689 । हन्तानेन प्रकारेण सर्व एव बीजक्षणा निरपेक्षाः कार्य
जनन690 इति कृतं सहकारिभिः । ननूक्तं नैते प्रेक्षावन्तः किं तु स्वप्रत्ययाधीननियत
सन्निधयो न क्षणमपि691 व्यवधेरीशत इति । तत् किमयं कृषीबलोऽपि न प्रेक्षावान्,
यः692 कुशूलादपनीय बीजमावपति भूमौ परिकर्षितायां693 क्षित्यादिसहभावेन 694एवाति
शयीत्पादपरम्परया अङ्कु रजननसामर्थ्याद् बीजस्य । कुशूलस्थाद् वत्सर श तेनापि695
तददर्शनात् तत्रावपतीति चेत् ? अथ किमयं न स्वसन्तानमात्रप्रभवः समर्थो बीज
क्षणः ? तथा चेत्, कथं सन्तानान्तरं सहकारि नापेक्षेत696 कार्यकरणे ?
नन्वपेक्षत एव किं तु स्वोत्पादे, न पुनः स्वकार्ये । 697तत्र तस्यानपेक्षत्वमुच्यते698,
न तु स्वोत्पत्तौ । ननु स्वोत्पत्तावप्यस्य स्वसन्तानवर्ती जागर्ति पूर्व एव निरपेक्षः क्षणः ?
एवं तस्य तस्य पूर्वः पूर्वः क्षणः699 स्वसन्तानपतित एवानपेक्षो जागर्ति जनन इति
कुशूलनिहितबीज एव स्यात् कृती कृषीवलः । कृतमस्य प्रेक्षावतः कृषिकर्मणा दुःखा
करेणेति ।
यदि मन्येत द्विविधमिह कार्यं, एकं 18b सहकारिभिराहितातिशयविशेष
परम्पराप्रसवधर्मकम्700, द्वितीयं 701सहकार्यतिशयनिरपेक्षजनकम्702 । यत्राङ्करोऽतिशय
विशेषपरम्परापेक्षजन्मा । आद्यातिशयस्तु सहकारिकृतातिशयपरम्परानिरपेक्षोत्पादः ।
न चैतदुभयविधमपि कार्यं703 बीजस्य स्वसन्तानमात्रादुत्पत्तिमर्हति704 । क्षित्यादिसन्ता
नान्तरापेक्षमेव बीजं705 स्वसन्तानवर्ति, भिन्नसन्तानवर्ति वा706 कादाचित्कं कार्यं करोतीति
कल्पते 707कृषिकर्मं, सन्तानान्तराणि तु कादाचित्ककार्योत्पत्तौ ये 708सहकारिप्रत्ययाः,
त एव यथाङ्कुरोत्पत्तौ सहकारिणो बीजस्य सामर्थ्यप्रबोधे हेतवः कदाचित् तेषां क्षित्या
दीनां येऽपि जननहेतवः त एव सामर्थ्यहेतवो भवन्ति, यथा बीजादीनामाद्यातिशयो
त्पादने सामर्थ्यप्रबोधहेतव उपसर्पणप्रत्ययाः । सर्वथा सन्तानान्तरैरनाहितातिशयं न
बीजं कार्यविशेषं कादाचित्कं करोति । सामर्थ्यप्रबोधहेतवश्च द्वये सहकारिप्रत्यया
उपसर्पणप्रत्ययाश्चेति ।
तदनुपपन्नम् । तथाहि भवतु तथा709 द्विविधं कार्यम् । अस्तु च तत्कादाचित्क
त्वात् सन्तानान्तरापेक्षम् । अपेक्षार्थश्च वक्तव्यः । कारणस्य स्वसामर्थ्यप्रबोध इति
चेत् ? ननु सामर्थ्यतत्प्रबोधयोः 710समर्थभावतत्त्वाव्यतिरेकात् समर्थप्रत्ययोत्पाद
इत्युक्तं भवति । तथा च 711स्वोत्पादापेक्षितकारणं सहकारिप्रत्ययात्712 सत्यम् 713अभ्यु
पगम एव दोषत्वेन चोद्यते । अथायमङ्कुरजननसमर्थो वा क्षणः, आद्यातिशयो वा
किं निरपेक्षेण स्वसन्तानमात्रजन्मना714 पूर्वक्षणेन जन्यते, न पुनः 715स्वसन्तानमात्र
जन्मना, अस्यापि 716पूर्वस्मादेव पुञ्जादुत्पत्तेः ।
ननु समानशक्त्या717 कुशूलजन्मसु बीजसन्तानेषु 718कस्मात् किञ्चिदेव बीजं
परम्परयाऽङ्कुरोपजननानुगुणमुपजनयति बीजक्षणम्, नान्ये बीजक्षणा भिन्नसन्ता
नान्तःपातिनः ? न खलूपसर्पणप्रत्ययात् प्रागेतेषां समानासमानसन्तानवर्तिनां कश्चित्
परम्परातिशयो बीजक्षणानाम् । 719अर्थोपसर्पणप्रत्ययात् प्राङ् न तत्सन्तानवर्तिनो
जनयन्ति परम्परयाप्यङ्कुरोपजननानुगुणं 720बीजक्षणम्, बीजमात्रजननात्तेषाम् । कस्य
चिद् बीजक्षणस्योपसर्पणप्रत्ययसहभुव आद्यातिशयोत्पादः । हन्त तर्हि तदभावे
सत्युत्पन्नोऽपि जनयेदेव । न चास्योपसर्पणप्रत्ययेन सहभावनियमः, अतत्सन्तानानां
कुशूलवर्तिनां बीजक्षणानां तेन सह 721समानयोगक्षेमाणामभ्युपसर्पणप्रत्ययसहभावा
भावात्722, क्षणस्य चैकस्य क्षणान्तरेणैकेन कार्यकारणनिश्चयाभावात् । 723सामान्य
विषयोत्पादान्वयव्यतिरेकयोस्तत्रैवोपपत्तेः । तथा च केवलानां व्यभिचारसंभवादा
द्यातिशयोत्पादमङ्कुरं वा प्रति क्षित्यादीनां 724परस्परापेक्षत्वमेवोत्पादकत्वमकामेनाप्यङ्गी
कर्तव्यमिति ।
तदपि प्राचीनचर्चया निरस्तप्रायम् । तथाहि यदि नाम परस्परापेक्षाणामेवो
त्पादकत्वमेतावता समर्थितं, प्रस्तुते किमायातम् ? अथ725 स41b मानकालभाविनां
परस्परोपकारमन्तरेणापि परस्परापेक्षत्वमुपलब्धम् ? एवमक्षणिकस्यापि सहकारिष्व
नुपकारिषु त्यक्ष्यते इति कदाचित् कस्यचित् करणसंभावना42a यामायास
संभविनी नित्याद् व्यावृत्तिः सत्यस्येत्यभिप्रायः । यद्येवं कथमसाधारणताप्रतिज्ञा
निर्वाहः ? सन्दिग्धविपक्षव्यावृत्तिकत्वमेवाभिधातुमुचितम् ॥
अथ क्षणिकस्य सहकारिषु नापेक्षा नानपेक्षा युक्तेति व्यवस्थितम्, वक्ष्यते
च पुरस्तादयमभिप्रायः, ततोऽपेक्षानपेक्षाभ्यां व्याप्तमर्थक्रियाकारित्वमनित्याच्च
तदभावाद् व्यावर्तते । स्थिराच्च क्रमयौगपद्यविरहाद् व्यावर्तते त्वन्मतेनेति व्यक्तम
साधारणम् । तथा च न क्षणिकस्य सहकारिष्वपेक्षा उपकाराभावात्, नाप्यनपेक्षा,
तामन्तरेण कारणाभावादिति सिद्धो व्यापकाभावः ।
तदपि यत्किञ्चित् । तथा हि कीदृशमपेक्षार्थमादायेदमुच्यते ? यदि तावत्
सहकारिणमपेक्षत इति सहकारिणोपकर्तव्य इत्यर्थः, तदा तदभावादनपेक्षैव क्षणि
46
कस्य कथमुभयव्यावृत्तिः ? सहकारिभेदमन्तरेण करणानुपपत्तिस्तु क्षणान्तरे स्वयम
भावादेव ।
अथ तद्वा तादृग्वा आसीदिति न कश्चिद्विशेषः, ततः तादृक्स्वभावसंभवेऽप्यकरणं
सहकारिणि निरपेक्षान्न क्षमत इति चेत्—असंबद्धमेतत्, अकर्तुस्तादृक्स्वभावताया
विरहात् । 42b यदेवानन्तरकार्यमपर्यासितशक्तिसकलसहकारिमध्यमध्यासीनस्य
स्वरूपं तदेव यदि देशकालान्तरेऽपि, हन्त तद्वदेव करणक्षमत्वम् । न च वर्णसंस्थान
मात्रसाम्ये च साम्यं बीजान्तराणां भवितुमर्हति । दृश्यन्ते ह्याकारसाम्येऽपि
फलसद्भावादिभेदेन भावानां भिन्नव्यवस्थितयः, तथा शक्तिभेदेनापि स्युः ।
पाकोपचये हरीतकीवत्726 । स तु स्वभावभेदस्तेषां बीजत्वे साधारणेऽपि कुत इति
प्रश्नेऽपि कारणसामग्रीशक्तिभेद एव शरणं कथञ्चित् साम्यप्रतीतावपीति दर्शितम
परापरप्रत्ययेत्यादिप्रस्तावे ।
ततो यदुक्तम्, ननु समानकुशूलजन्मस्वित्यादि, तदपास्तम् । यस्य हि दृष्टादृष्ट
कारणसामग्रीपरिणामे परम्परायातः स्वभावभेदो बीजस्योपसर्पणप्रत्ययसहकारिभाव
भूमिः, तत् परिणामपरम्परया जनयत्याद्यमतिशयमङ्कुरं वा । नान्ये बीजक्षणास्तथा
भूतहेतुपरम्पराविरहेण तत्स्वभावाभावात् । नन्वेकत्र क्षेत्रे निष्पत्तिलवनादिपूर्वकमानीय
कुशूले क्षिप्तानि सर्वाण्येव बीजानि साधारणरूपाणि प्रतीयन्ते तत् कुतस्त्योऽमुकबीज
संभवी विशेषो नान्येषाम् ? अतश्चैवं, यतो हि 43a क्षेत्रलवनाय करस्पर्शस्तस्यैव
स स्वभावः, पश्चादन्येषामपि नयने तद्दर्शनात् । तत् कथमस्य समस्वभावत्वमपह्नोतुं
शक्यते ? इति ।
अत्रोच्यते । कारणं खलु सर्वत्र द्विविधम्—दृष्टमदृष्टं चेति 19b सर्वास्तिक
सिद्धमेतत् । तत्रादृष्टं कर्मस्वभावमन्यजन्मजनितमदर्शनैकनियतं727 कार्यवैचित्र्यदर्श
नादनुमितवैचित्र्यम्728 । दृष्टं पुनरैहलौकिकस्वभावं दृश्यमदृश्यं चेति द्वेधा729 । तच्च
प्रत्येकं चेतनसमवेतमचेतनसमवेतं730 चेति चतुर्धा भवति । तदेवं न हेतुसामग्री सर्वा
सर्वाकारेण प्रत्यक्षा पुरुषमात्रस्य ।
तथा च त्रिलोचनः । कश्चित् सहकारिप्रत्ययः प्रत्यक्षः परोक्षश्चेतरः । ततश्च731
प्रत्यक्षपरोक्षसहकारिप्रत्ययसाकल्यमसर्वविदा प्रत्यक्षतो न शक्यं प्रतिपत्तुमिति ।
47
यदंशेनापि732 सा733 सामग्री प्रत्यक्षा तत्राप्यवान्तरसूक्ष्मभेदपरिगणनाय न734 समर्थः
पृथग्जनः735 स्थुलदर्शित्वात् । ततो भवेदपि तादृशस्वभावभेदः केषाञ्चिद्वीजानामुप
लब्धकर्मकरपाणिप्रणयानां यः परम्परया 736प्रकृतकार्यमर्जितुमूर्जस्वी, यश्च नान्येषां
तदेककुशूलस्थानामपि, न737 चैनमन्वियाल्लोकः । न चानवधारणमात्रेण738 तदभावः,
संशयस्तु स्यात् । स च कार्येण करस्पर्शेण न739 भवता परिभूयते । तथाचैकशरीरा
वयवानामविभक्तमातापितृसंयोगादिसामग्रीसंभवानां740 क्वचिदेव तिलकश्चित्रकचिण्टि
कादय741 उदयमासादयन्तः सहजाः क्रमजा वोपलभ्यन्ते । अस्ति च त्वङ्मांसादि
साम्यमन्यावयवेष्वपि742 । तदमी तिलकादयो विभागेन भवन्तो दृष्टादृष्टकारणसामग्री
परिणतिविभागमनुपलक्ष्यमपि743 ख्यापयन्तः कथमिव निषेद्धुं शक्याः । एवं बाह्येष्वपि
भावेषु । सर्वकार्यग्रामस्य हि साधारणसाधारणकर्मणि जातत्वमिष्टं744 शिष्टानाम् ॥
अथापि स्यात्, शरीरे दक्षिणेतरगोप्यागोप्यस्थानेषु 745भवन्तस्तिलकादयोऽवश्यं
सुखासुखादिकमुपनयन्तीति सत्संवर्तनीयकर्माधिपत्यादुचितः स्थाननियमः । कुशूले तु
बीजविसरेण746 तेनान्येन वा परिकर्मितभूमावुप्यमाने न कश्चिद् विशेष इति वैषम्यात्
न कर्मशक्तिकल्पनमिति चेत् ?
हन्तैवं साक्षादुपयोगदर्शनादर्शनाभ्यां कर्मादिसाधनशक्तिकल्पनाकल्पनयोर
ल्पीयः किश्चित्कार्यं747 जगति कर्मनिर्मेयमनुमन्तव्यमीश्वरादिसाध्यं वा ? न हि शिशु
पशुविशेषसाधारणव्यावृत्त्या748 छागादीनां पुरीषादेर्वर्तुलीकरणेन किञ्चित्प्रयोजनमुप
लभसे । अनुपभुक्तविशीर्णेषु750 वाटवीविटपफलप्रसूनपल्लवादिषु । त एव तिलकादि
मन्तः पुरुषाः अपरिचितस्वकीयकायतिलकादयः751 । परिचयेऽपि 752वानुदीर्णदुःखदौर्म
नस्यादयो दृश्यन्ते मरणमुपगच्छन्त इति कस्तत्राप्युपयोगः753 ? 754सव्यासव्यगोप्येतरस्था
नेषु वा स्थवीयस्सु तिलकादिसंभवयोग्यस्थानीयस्य देशस्य भूयसः संभवात् कथमुद्भति
स्थाननियमस्तिलकादीनाम् ? मृगादिषु च वर्णमात्रवैकृत्येन क्वचिदङ्गे 755दौर्मनस्यादि
शङ्कयाप्यलं किं तेषु 756कीदृशमुपयोगवर्णनम् ? 20a कियद्वा शक्यमेतादृशमुपदर्श
48
यितुम्757 ? कियति वा त्वयापि प्रतिविधेयम् ? तत् किं विफलमायास्यसि758 ? उपयोगा
भ्यूहविरहेऽपि759 प्रतिनियतदेशकालस्वभावेषु भावेषु760 कार्यभेदोपलम्भः सर्वत्रा
वान्तरभेदं दुर्लक्ष्यकर्मादिसाधनशक्तिभेदभावितम् । साक्षात् पारम्पर्येण वा दृश्या
दृश्यचेतनाचेतनार्थकर्मण्युपयोगिनं761 योगिभिरप्यवान्तरैरशक्यपरिच्छेदमिदन्तया762
नियमेन सामान्यतो व्यवस्थापयतीति गलेपादिकयापि स्वीकारयितव्यो न्यायान्वेषी763
न्यायविदा । तथा च सति कस्यचिदेव बीजस्यापसर्पणप्रत्ययसम्पर्ककर्कशः स्वभावः,
अन्येषां तु तद्विशेषविश्लेषमसृण इत्यवान्तरावान्तरविशेषात्764 स एव बीजक्षणः
परम्परयापि प्रकृतकार्योपयोगी, नान्ये बीजक्षणाः । स चावान्तरो विशेषः करस्पर्शा
दनुमीयमानो न कर्मादिसाधनशक्तिविशेषानभ्यूहादुपयोगविशेषानभ्यूहाद् वा शक्य
प्रतिक्षेपः । तिलकादिसंभवादिव देहांशविशेषः, वृक्षाद्यंशविशेषो वा कुतश्चिदेकदेशिक
विकारलेशात्765 । तत्रापि हि विकारबिन्दुस्थानस्यांशस्येदं दृष्टमदृष्टं वा कारणमासाद्यो
पादानभागविशेषपरम्परयायं766 स्वभावभेद 767इदमन्यभागासाध्यमर्थं कर्तुं समर्थ इति
विशेषानवधारणेऽप्यस्ति किञ्चिद्विशिष्टं कारणमुपयोगो वाऽन्या768संभवीति सामान्यतो
769विकारकारणयोगादङ्गस्य स्वभावभेदनिश्चयः । एवमत्रापि बीजे 770पुरुषबुद्धिप्रयुक्त
करस्पर्शादस्ति स्वभावभेदः सूक्ष्महेतु771फलभेदभागीति सामान्यतो दुर्निवारो निश्चयः ।
ततः स्वाभवभेदसंभवात् तदेव बीजमुपयुज्यते परम्परयाप्यङ्कुरोपजननानुगुणे विशेषे773
नान्ये बीजक्षणा इति सिद्धमेतत् ।
यत्तूक्तं न खलूपसर्पणेत्यादि । तदेतत् कस्य प्रमाणस्य व्यापारमालोच्यते ?
न तावत् प्रत्यक्षस्य, आकारसाम्येन स्थूलैकजातीयतानिश्चयेऽप्यवान्तरभेदस्य सूक्ष्म
तयानवसितस्याशक्यनिषेधत्वात्774 । दृष्टं च तिक्तेतरत्रपुषादौ सदृशाकारे स्थूलजाति
भेदवत्यपि प्रस्खलदध्यक्षमेकावसायजननात् । तन्नैकावसायमात्रेण तत्त्वस्थितिः, तदंशे
बाधकस्य775 दर्शितत्वात् । अत्यन्ताभ्यासभाविते तु संवादिनि बाधकाभावादेकता
स्थितिरविरुद्धेति न प्रत्यक्षीकृतः776 प्रस्तुते परस्परातिशयनिषेधः । नाप्यनुमानात्,
777यद्युच्येत क्षित्यादौ जनयितव्ये तदुपादानं पूर्वमेव क्षित्यादिबीजस्य रूपान्तरमिति,
49
न तर्हि बीजं तदपेक्षं क्षित्यादीनां जनकम्, तदनपेक्षत्वे तेषामङ्कुराद् भेदानुपपत्तेः । न
चानुपकारका अपेक्षन्त इति त्वयैवोक्तम् । न च क्षणस्योपकारसंभवोऽन्यत्र जननात्,
तस्याभेद्यत्वात् । तथा चार्थक्रियाया एकत्वानेकत्वसापेक्षत्वानपेक्षत्वव्याप्तत्वात्,
तृतीयप्रकारविरहात् । अनयोरन्यतरनिषेधस्यान्यतरविधाननान्तरीयकत्वात् । अक्षणिके
च तद्व्यापकयोरेकत्वानेकत्वयोः सापेक्षत्वानपेक्षत्वयोः प्रकारयोरभावात् उक्तेन क्रमेण
सत्त्वं निवृत्तमित्यसाधारणानैकान्तादव्यभिचारिणो लिङ्गस्यानुपदर्शनादुपदर्शयितु
मशक्यत्वाच्च । बाधकस्यैव विद्यमानत्वात् । 778तस्मान्नानिष्टमात्रघोषणेन किञ्चित् ।
एतेन नोपकारोऽपेक्षार्थ इत्यनपेक्षैव क्षणिकस्य सहकारिषु, नोभयव्यावृतिः ।
अथ संभूयकरणमपेक्षार्थः779 । तदपि यदि पूर्वस्थितस्येति विशेषणापेक्षा तदापि
क्षणिकस्य नैव780 काचिदित्यनपेक्षैवाक्षीणा781 ।
अथ पूर्वस्थितस्येति नापेक्षते मिलितावस्थितस्य782 करणमात्रमपेक्षार्थः, तदा
सापेक्षतैव नानपेक्षा । तथापि नोभयव्यावृत्तिः ।
20b अथास्मत्समयापेक्षया अपेक्षास्थितिः783 । तदा सापेक्षमसमर्थमेव
समर्थितवन्तो वयमिति यत्कार्यं प्रति 784यदसमर्थं तत्सापेक्षम्, यत्तु समर्थं तदनपेक्ष
मिति व्यवस्था । तदा785 चैकनिषेधेनापरविधानात् सामर्थ्यरहितं786 समर्थमेव भवत्य
सामर्थ्यम् । उक्तं च,
यच्चावोचत्, अपि चान्त्यक्षणप्राप्तं 788बीजमनपेक्ष्याङ्कुरावनिपवनपाथस्तेजांसि
जनयत्789 किं येनैव रूपेणाङ्कुरं790 जनयति तेनैव तदितराण्यपि, किं वा रूपान्तरेण ?
न तावत्तेनैव, क्षित्यादीनामप्यङ्कुरस्वाभाव्यापत्तेः । न खलु कारणाभेदे भेदवत् कार्यं
भवितुमर्हति, कार्यभेदस्याकस्मिकत्वप्रसङ्गात् ।
यदाह, अयमेव हि 791भेदो भेदहेतुर्वा यदुत विरुद्धधर्माध्यासः, कारण
भेदश्चेति । नापि सामग्रीभेदः, 792तस्या अप्येकत्वात् । अन्यथा सहभावनियमाभावात्,
50
रूपान्तरेण तदितरेषां जनकम् । तथा हि बीजमङ्कुरं जनयदुपादानम्, तद्विक्रियया
तदुत्पत्तेः । तदितरेषु पुनरस्य सहकारिप्रत्ययता, तेषां तु पूर्वे पवनादयो यथा 793स्वमुपा
दानानि, तद्विक्रियया तदुत्पादादिति चेत् ? ननु सहकारितोपादानते किमेकं तत्त्वं
नाना वा ? एकं चेत्, कथं रूपान्तरेण जनकम् ? नानात्वे तु अनयोर्बीजाद् भेदो
ऽभेदो वा ? भेदे कथं बीजस्य जनकत्वम्794, ताभ्यामेवाङ्कुरादीनामुपपत्तेः ? अभेदे वा
कथं बीजस्य न नानात्वम्, भिन्नतादात्म्यात् । 795एतयोर्वैकत्वमेकतादात्म्यात् ।
796यद्युच्येत, क्षित्यादौ जनयितव्ये तदुपादानं पूर्वमेव क्षित्यादि बीजस्य रूपा
न्तरमिति ? न तर्हि बीजं तदनपेक्षं क्षित्यादीनां जनकम् । तदनपेक्षत्वे तेषामङ्कुराद्
भेदानुपपत्तेः । न चानुपकारकारिणोऽपेक्षन्त797 इति त्वयैवोक्तम् । न च क्षणस्योपकार
संभवोऽन्यत्र जननात्, तस्याभेद्यत्वात् । तथा चार्थक्रियाया एकत्वानेकत्वसापेक्षत्वा
नपेक्षत्वव्याप्तत्वात् । तृतोयप्रकारविरहात् । अनयोरन्यतरनिषेधस्यान्यतरविधान
नान्तरीयकत्वात् । क्षणिकवद् व्यापकयोरेकत्वानेकत्वयोः सापेक्षत्वानपेक्षत्वयोः
प्रकारयोरभावादुक्तेन क्रमेण सत्त्वं निवृत्तमित्यसाधारणानैकान्तिकत्वं गन्धवत्त्वा
देरिवेति ।
यदि मन्येत, अनुपकारिणोऽपि भवन्ति सहकारिणोऽपेक्षणीयाश्च, कार्येणानु
विहितभावाभावत्वात् । सहकार्यकरणाच्च । नन्वनेन 798क्रमेणाक्षणिकोऽपि भावोऽनुप
कारकानपि सहकारिणः क्रमवतः कार्येणानुकृता799न्वयव्यतिरेकानपेक्षिष्यते, करिष्यते
च क्रमवत्सहकारिसमवधानवशात्801 क्रमेण कार्याणीति व्यापकानुपलब्धेरसिद्धेः802
सन्दिग्धव्यतिरेकमनैकान्तिकं सत्त्वं क्षणिकत्वसिद्धाविति । तदपि पूर्वमेव निरस्तम् ।
यत्पुनरयमधिकमाह—नापि 21a सामग्रीभेदः, तस्या अप्येकत्वादिति । तत्रापि
ब्रूमः—यथा सामग्र्या अभेदः, तथा कार्याणामप्यभेदात् कथं न कारणाभेदानुकारः ?
ननु प्रतिनियतानेकरूपाणां कार्याणामभेद इति केयं वाचोयुक्तिः ? यद्येबं न
खलु803 समग्रेभ्यो भिन्ना804 काचिदध्यक्षगोचरः । सौगतमते च चिन्तेयम् । ततोऽभिन्ना
सामग्रीति805 समग्रा एव प्रतिनियतानेकमूर्तयोऽभिन्ना इत्यपि कीदृशी वाचोयुक्तिः ?
सामग्रीलक्षणकारणभेदाभेदाच्च कार्यभेदाभेदमाशङ्कमानस्य अयमभिन्नसामग्रीवादो
51
वाचस्पतेरुचितः । अन्यथा बीजमेकं कथमङ्कुरसरोधरणिधामादि806 जनयेदित्येतावतैव
गतमेतत् । न चेदं चोद्यम्, यतो यदि प्रमाणवृत्तिमनुवृत्त्य807 एकस्मादनेकोत्पत्ति
निषेधोऽभिप्रेतः, तदा एकस्मादपि दीपाद् वर्तिविकाराद्यनेकं कार्यमुपजायमानमधि
गच्छदध्यक्षमखिलतद्विपरीतमतिष्वास्थां दुस्थयति ।
तदपि कथमिति चेत् ? ननु प्रमाणपुरस्कारेण विचारे808 प्रत्यक्षमादावादाय
परिशिष्टगणनात्तेन साधिते बाधिते वा809 नापरस्य बाधनसाधनयोरधिकारः810 । प्रमाण
मार्गोल्लङ्घिनस्तु तादृशैव देयमुत्तरमित्यास्तां तावत् ।
अथाङ्कुरकारि कथं धरणिक्षणहेतुः ? न ह्यत्रापि प्रत्यक्षबाधाभिधानं युक्तिमत्,
क्षणस्य तद्गोचरातिक्रान्तत्वात्811 । तदापि यद्येककारकोऽन्यकारको न भवतीति
व्याप्तिः, तदा दीपेनैव व्यभिचारः । 812अथाङ्कुरकारको न पृथ्वीहेतुरिति तदाऽसाधा
रणानेकान्तः । अथाङ्कुरस्य हेतुः कथमन्यस्य भवितुमर्हतीति चेत् ? किमङ्कुरस्यैवाथा
ङ्कुरस्यापि, 813यद्वा अङ्कुरस्य तावद् भवति, अन्यत्रानिश्चयः ? अत्र च पक्षत्रयेऽप्यसिद्ध
विरुद्धानैकान्तिकत्वं क्रमेण दुष्परिहरम् । तस्मान्नात्र प्रमाणवृत्तिः । प्रसङ्गोद्भावनमपि
पराभ्युपगमेन भवति, न चैकमनेकस्याजनकमिति क्षणिकवादिनामभ्युपगमः । तन्न
सामग्र्यन्तर्गतवस्त्वेकत्वेन कार्यैकत्वप्रसञ्जनमबालस्य । सामग्रीलक्षणकारणापेक्षणे च
भिन्नानामप्यङ्कुरादीनां कारणभेदाभेदानुविधानं814 सिद्धमिति815 नाभेदानुविधानानु
रोधादङ्कुरादीनामेकतापत्तिः । यथा ह्यङ्कुरादयः प्रत्येककार्यत्वेऽपि भिन्नाभिन्नात्मआनः816,
तथा सामग्रोशब्दवाच्या बीजादयः प्रत्येकं कारणीभवन्तो भिन्नाभिन्ना एवेति817
सिद्धः कारणभेदाद् भेदः ।
अथ भिन्नात्मानोऽपि बीजादयः कयाचित् प्रत्यासत्त्या एकव्यवहारगोचरी
क्रियन्ते, एवमङ्कुरादयोपीति कारणाभेदेऽभेदोऽपि सिद्धः । तत्र कारणानामेकैकार्थ
जनकत्वमेकव्यवहारहेतुः । कार्याणां त्वेकैकजन्यत्वमिति समानम् । तत् किमर्थमेकी
भवितव्यमङ्कुरादिभिः, सामग्र्यपेक्षायामपि तावतैव 818हेतुभेदाभेदानुविधानस्य
पर्याप्तत्वात् । एतच्च कारणशब्देन सामग्रीं 819व्युत्पद्यमानस्यापि 21b परस्य भेदा
52
भेदयोरव्युत्पत्तिरेव820 821बुद्ध्यनुरोधादभिधीयते । तत्त्वतस्तु यथा कारणं सामग्री
विवक्षिता, तथा भेदाभेदावपि वैजात्यावैजात्ये विवक्षिते इति दर्शितप्रायम् ।
नन्वद्यापि न समग्रेभ्योऽन्या सामग्रीति तेषामेव822 समग्राणां सादृश्ये वैसदृश्ये
वा कार्याणां सादृश्यं वैसदृश्यं वेति प्राप्तम् । एवमेतत् । न तु तत्पुञ्जस्थानां परस्परं
सादृश्यादिनिरूपणम् । किं तु पुञ्जान्तरस्थैः सह स्वजात्यपेक्षया सेनायाः सेनान्तरेण
सह सादृश्येतरनिरूपणवत् । तत्र यावन्तो यादृशा एकसामग्रीप्रज्ञप्तिगोचरा अर्था
हेतुसंमताः, तावन्तस्तादृशा एव यदि देशकालान्तरवर्तिनस्तदासौ सदृशी सामग्री,
कार्यं च सदृशमस्या823 इति कार्यशब्देनापि पुञ्ज एव । यावन्ति यादृशानि कार्याणि
जातान्येकत्र824 तावन्ति तादृशान्येवान्यत्रापि 825जायन्त इत्यर्थः । वैसदृश्ये तु तारतम्य
भेदेन भिद्यमाने कार्यमपि तारतम्यभेदेन भिद्यत इत्यपि कार्यपुञ्जस्यैव तारतम्यभेदेन
वैसदृश्यमित्यर्थः । भेदमात्रबिवक्षायामप्ययमेव826 न्यायः । सत्यां बिप्रतिपत्तौ भिन्नायाः
सामग्र्या भिन्नमेव 827कार्यं भवतीति एतादृशमेव कारणभेदानुविधानं828 कार्यस्य
प्रमाणानुसारि । तदतिक्रमे च विश्वस्याहेतुकत्वप्रसङ्गः सङ्गतिमवतरति । न प्रमाण
बाधितस्य एककारणैककरणनियमस्यातिक्रमे । तदियं भेदाभेदानुकरणवार्ता नैयायि
कानां 829गोपमुखात्पायसमिष्टताश्रुतिमनुहरति ।
तस्मादेकमेव बीजमङ्कुरादिकमनेकं जनयति, एवं क्षित्यादिकमपि प्रत्येकम् ।
अतो नैकानेकयोरुभयोरपि व्यावृत्तिर्यतो व्यापकानुपलम्भाऽयमपरः क्षणिकपक्षेऽपि
क्रियाबाधनं 830सत्तया असाधारणीकरणार्थमुपन्यस्यते831 । रूपान्तरेण जनन
पक्षस्तु प्रतिक्षिप्त एवास्माभिरिति832 न तद्दूषणपरम्परायाः परिहाराभियोगः । एतच्च
तत्त्वापेक्षयोच्यते । कल्पनाविलासे तु यदङ्कुरजननं न833 तत् क्षितिजननम् । तथा न
सहकारित्वमेवोपादानत्वमित्येवं प्रकारप्रपञ्चसंभवेऽपि नापराधो वस्तुनः कश्चित्
834क्रियाविरहलक्षणः, तात्त्विकेनैव रूपेण सर्वनिर्वाहात् । अतएव क्षित्यादौ जनयितव्ये
तदुपादानं पूर्वमेव क्षित्यादिबीजस्य रूपान्तरमिति किमर्थं बक्तव्यमस्माभिः, यदुत्तरः
प्रबन्धः साधुः स्यात् । अनपेक्षा चैका सहकारिष्वपि835 साधितेति प्रकरणार्थनिगमनं
सकलमाकुलमाकुलधियः परस्य ।
किं च येनैव रूपेण बीजमङ्कुरमुत्पादयति किं तेनैव क्षौणीक्षणमिति पर्यनु
युञ्जानाः तेऽपि पर्यनुयुज्यन्ते रूपशब्देन किमत्र विवक्षितमिति ? किं तावत् कल्पना
तल्पशायिनो भिन्ना इव भासमाना धर्माः 836कृतकत्वानित्यत्वादिवदङ्कुरेतरजनकत्वादयः
स्वरूपशब्देनापि 837लब्धव्यवहृतयः ? अथ रूपं स्वरूपं 838स्वलक्षणं यद्भेदात्22a
नापरो वस्तुभेदः यदधिकारेणोच्यते, यदादौ वस्तुनः स्वरूपं तदेव839 यदि पश्चादपि
प्रागिव840 पश्चादपि न जनयेदित्यादि ?
यद्वा नैयायिकैः पत्युर्नामाविजानत्या भ्रातृशब्देन व्यवहारवत् सहकारिण एव
स्वरूपशब्देन व्यवहृता रूपमित्युक्तम् । तत्र841 प्रथमपक्षे तावन्न पर्यनुयोगसंगतिः ।
कल्पनानिर्मिता हि धर्माः परस्परं धर्मिणश्च सकाशाद् विद्यमाना इव 842भान्तोऽपि यथा
प्रतिभासमसत्त्वात् प्रमाणसहतया न क्वचित्843 क्रियायां करणभावभाजो भवितुमर्हति ।
यदेव हि स्वलक्षणमध्यक्षगोचरीकृतमनङ्गं तत एवान्वयव्यतिरेकाभ्यामर्थक्रियानिष्पत्ति
निश्चयेऽप्यनादिवासनावशादुपजायमान विकल्पचेतसि ततस्ततो व्यावृत्तवस्तुव्यवसाय
बलावलम्बिसंवादेषु844 845धर्मष्वपोद्धारेणास्यामस्यां क्रियायामयमयं धर्म उपयुज्यत इति
व्यवहारमात्रमातन्यते । न तु तेषा क्वचित् करणभावः, स्वयमसत्त्वात् । विवक्षाकृतस्तु
न वार्यते । यथा प्रकाशे पिशङ्गात्मनि846 प्रदोपेप्ययमखण्डेनैव रूपेण तमसो नाशमव
काशपिञ्जरणं च कुर्वति तथैव निश्चिते च 848यदयं दीपः प्रकाशरूपः, ततोऽन्धकारं
हरति हरिणाङ्कवत् । पिशङ्गत्वाच्च पिञ्जरणहेतुर्हरिद्रादिवदितिव्यवहारः । न च तत्र
प्रकाशपिशङ्गभावौ भिन्नौ । विकल्पचेतसि तु भिन्नवद्भासमानावेकैकमपोद्धृत्य भिन्न
क्रियाकरणत्वेन 849व्यवस्थितौ विवक्षितौ, न व्यवस्थितौ वा न च विवक्षामात्रेण
प्रदीपस्याकारकत्वं भेदो वा । तथा बीजस्याप्यङ्कुरजननेन रूपेण कल्पितेनाङ्कुरकणं
पृथ्वीजनकेन च तत्करणमिति व्यवहारेऽपि तत्त्वतो नैकस्याप्यनेककर्मणि निषेधो
भेदोपपत्तिर्वा अक्रियैव वा । ततो विकल्पारूढरूपापेक्षयानेकेन850 रूपेणानेककरणमिति
व्यवहारमात्रं न वस्तु । वास्तवी च चिन्तेयम् । तत्851 किमनेन विकल्पितेन, किं तेन
रूपेणान्येन वेति ? विकल्पेऽपि वानेकेनैव विसर्जनं व्यवहारमात्रेण । न च कश्चिद्
दोषः । द्वितीयपक्षस्त्वनेकस्वलक्षणदर्शने सत्युपपद्यते । न च बीचस्वलक्षणानि अपि852
54
सकृदेकसंख्या853 निरीक्षाविषयः । न ह्यपरिदृष्टभूमनि मनुष्ये किमयमत्र कर्मणि नियोज्यो
नरः, किमयं वेति प्रश्नावतारः ।
तृतीयविकल्पे त्वयमर्थः स्यात्, येनैव रूपेणाङ्कुरं करोति किं तेनैव 854क्षिति
मिति ? येनैव सहकारिणाङ्कुरं जनयति किं तेनैव भुवमिति ? एतच्च कदोच्यते यदि
बीजस्याङ्कुरकरणे निर्जाते855 नियतरूपः कश्चित् सहकारी व्यापारवान् परिनिष्ठितोऽन्य
करणे सन्दिग्धव्यापारः । न चैवं शक्योपदर्शनम् ।
अथैवं सति बीजस्याङ्कुरकरणे पृथ्वीपाथःप्रभृतयः सहकारिणस्य एव किं तस्य
पृथ्वीजननेऽपीति विकल्पार्थः ? तेनापि नोपयोगः । सर्वेषां सर्वत्र परस्परं सहकारि
भावस्य सुप्रसिद्धत्वात्856 किमत्र प्रश्नेन ? न चोत्तरः प्रबन्धोऽत्रानुरूपः । 857नहि तदापि
कारणभेदाभेदाभ्यां 22b कार्यभेदाभेदाविति श्लिष्टता काचित् । तस्मादीर्ष्याशल्य
कदर्थितनिरर्थकैः प्रलापैः परमाकुलयितुमिच्छन्ति न्यायविन्मानिन इत्यलमत्र
निर्बन्धेन858 ।
अपि चापूर्वोऽयमसाधारणानैकान्तिककीर्तनप्रकारः । विद्यमानो हि भावः
साध्येतरयोरनिश्चितान्वयव्यतिरेको गन्धवत्त्वादिवदसाधारणो युक्तः । प्रकृतव्यापका
नुपलम्भबलाच्च859 सर्वथार्थक्रियैवासतीति 860तत् कथमसाधारणानैकान्तिकी भवितु
मर्हति ? 861असिद्धिदूषणं तु वक्तुमुचितम् । तत्र चोक्तमेव ।
अथ क्षणिकत्वे व्यापकाभाव इत्युक्तम्, तन्न सर्वथासत्त्वमिति चेत् ? एवं तर्हि
विद्यमानैवार्थक्रिया क्षणिकादेव व्यावर्तते, ततो नियमेनाक्षणिके862 विश्राम्यन्तीति863
तेन व्याप्यत864 इति विरुद्धताप्यस्तु865 ।
अथ साक्षादक्षणिके तस्या बाधकस्य साधकस्य वा विरहात् सन्देह इति चेत् ?
विद्यमानत्वे क्षणिकाद् व्यावृत्तिरेव साधनी तस्याः सन्देहमनवकाशयति । विद्यमानता
सन्देहे च सन्दिग्धासिद्धिरेव दूषणम् ।
किं च प्रकृतव्यापकानुपलम्भस्य क्षणिकवदक्षणिकेऽपि सामर्थ्यानपायात् कथं
866बाधकसिद्धिरित्यसिद्धिरेव सर्वथायाता । शक्यं हि नित्येऽपि वक्तुं न सहकारिणि
55
सापेक्षस्य करणमुपकाराभावात् । न निरपेक्षस्य, तेन विना करणात् । स्थिरं च
बीजमङ्कुरजनकेनैव रूपेण क्षितिमुत्पादयति भिन्नेन वेत्यादि यदा विसदृशक्षित्यादि
जन्मोपालम्भः प्रदीपोऽपि चाक्षणिक एव भवताम्867 । तत्र वर्तिविकारतैलक्षयावेकेन
भिन्नेन वा रूपेण क्रियेतामिति समानम्868 । यस्तु समाधिः सहकारिण एव भिन्नाः
तस्य स्वरूपभेद इति, एवं च ब्रुवता परोऽप्यात्मा आत्मापि पर इति निवृत्तेदानीमात्म
परादिशब्देभ्यः प्रतिनियतार्थप्रत्यायनप्रत्याशा869 । न च देवदत्तस्य स्वरूपं यज्ञदत्तः
शुक्लस्य वा नीलमित्युचितं क्वचिदेककर्मणि व्यापारेऽपि ।
तदेतदपेतागमयुक्तिकं परस्पर्धयाऽभिधीयमानं नियतमुपहासभाजनीकरोति ।
सहकारिणोऽवधीर्य च स्वरूपशब्दवाच्यमर्थं पृच्छतः870 सहकारिणोत्तरमिति व्यक्तं न
तेन नान्येन वात्मना जनयति स्थिरोऽपि भाव इति नियतमनुज्ञातैव व्यापकानुप
लब्धिः । अन्यस्यापि हि स एवात्मा जनको न स्वयमिति न कश्चिज्जनकः । तदयं स्थिरा
स्थिरयोः साधारणो न्यायः क्रियानिषेधसाधन इति । तस्य दृढत्वे सर्वथा क्रियैव
नास्तीत्यसिद्धिरेव, अन्ततः क्रमयौगपद्यविरहलक्षणस्यापि दोषस्यापरिहारात् । स्थिरेऽपि
क्रियानिवृत्तिरवश्याभ्युपेया । कथमन्यथा क्षणिके क्रियानिषेधाभिधानेन केवलेना
साधारणताप्रतिज्ञा871
निवृत्तिमालम्बेत ? न हि साध्याद् व्यावृत्तिरित्येवासाधारणता ।
अन्यथा विपक्षाद् व्यावृत्तिरित्येव किं नासाधारणत्वमुच्यते, किमियता प्रयासेन ?
873ननु विपक्षाद् व्यावृत्त्या साध्ये नियमाद्धेतुरेव स्यादिति चेत् ? साध्याद् व्यावृत्त्या
विपक्षे नियमाद् विरुद्ध एव 23a स्यादिति समानम् । तस्मादर्थक्रियायाः प्रतिज्ञा
मात्रेऽप्यसिद्धिरेव874 ।
अथान्येन प्रकारेण उभयोरनिश्चयमात्रं सत्तायाः ख्याप्यते, तथा च सत्यसाधा
रणता875 युक्तैव । तदयुक्तम् । व्यापकानुपलम्भो ह्येकान्ततोऽभावनिश्चयकर एव कथम
निश्चयः ? तत्र876 यदि नाम क्रमाद्यनुपलम्भस्य नित्यात् सत्तानिवर्तकस्य दार्ढ्यम्
असंगतम्, तथापि प्रकृतस्य 877क्षणिनित्यताबाधनस्य दृढत्वमभिप्रेतमेव, अन्यथोपन्यासा
योगात् । ततः क्षणभङ्गरात् क्रियाया ऐकान्तिकी 878व्यावृत्तिरेव व्यावृत्तिरसाधा
रणतायाः । नहि गन्धवत्त्वं कुतश्चिदेकान्तेन व्यावृत्तमवसातुं शक्यम् । तदयं879 व्या
56
पकानुपलम्भः स्थिरेऽपि व्यापकानुपलम्भमपेक्षमाणो880 न साधुरसाधारणतासाधने ।
अपेक्षमाणश्च सर्वथा क्रियामेवोन्मूलयतीत्यसिद्धिरेव न साध्यसाधनभावः881 । तस्माद्
बाह्यवेदनं बाह्यवेदकप्रमाणसिद्धां चार्थक्रियां वस्तुसतीमाश्रित्य वादप्रक्रमे तस्यासाधा
रणतावादिना882 न साध्येतरयोरेकत्र वृत्तिरेकतो व्यावृत्तिर्वोपदर्शयितव्या, किं तूभयत्र
संशयमात्रं शरणीकरणीयम् । न च व्यापकानुपलम्भे संभवस्तस्य । तस्मान्न
साधुरसाधारणतोपन्यास इति स्थितम् ।
स्यादेतत् । यदि भिन्नकालकार्यजन्मनि जनकस्य स्वभावभेदः, तदा 883भिन्नदेश
कार्योत्पादेऽप्येष प्रसङ्गः । तदवश्यं सहकार्यपेक्षयैव884 देशभेदः कार्याणाम् । न च
किञ्चित्करः सहकारोति885 886कालभेदोऽप्येषामकिञ्चित्करः सहकार्यपेक्षयैवास्तु887 ।
अथोपादानभेदाद् देशभेदः ? कालभेदे तु888 नैवं शक्यमभिधातुम् । कालान्तर
जन्यानामुपादानस्य स्थिरपक्षे तदानीमपि प्राप्तिसंभवात् । तस्मात् 889कारणभेदरूप
भेदनिबन्धन एव890 कार्यस्य कालभेद891 इति चेत् ? तदपि नास्ति, उपादानसहकारि
भेदस्य तत्त्वतोऽतात्त्विकत्वात् । 892तात्त्विकत्वेऽप्युपादेयसहकार्यभेदेन दीपादेरुपादान
सहकारिभावभेदादनेकस्वभावताप्रसङ्गः । तदयमारोपितस्वभाव उपादानसहकारिभाव
भेदेन भेदः कारणस्य893 कथं कार्यस्य देशभेदाय प्रभवेत् ? यदि चारोपितोऽपि कारणस्य
भेदः कार्यस्य देशभेदाय प्रभवेदेवं सत्यारोपित एव कारणभेदः कालभेदाय894 कार्याणां
पर्याप्त इत्यलं तात्त्विकभेदप्रत्याशया ।
न चैतद् वक्तव्यम्, यथा कालभेदे यद्यदा895 यज्जनकमित्यादि बाधकमस्ति न
तथा देशभेद इति, एतादृशस्य बाधकस्य देशभेदेऽपि वक्तुं शक्यत्वात् । यथा 896यत्
यत्कार्यं तत् तद्देशं यथोपादेयाभिमतं897, तत्कार्यं च कार्यान्तरमपीति ॥
यदपीदमुच्यते,
तत्रापि898 शक्यमेवं899 पठितुम्
अथ कारणस्य वैभवाभ्युपगमे स्यादेष दोषः । तदभावे23b तु900 किंकृतमस्य
सर्वदेशसमानत्वम् ? एवं तर्हि देशान्तरेऽपि कार्यं901 न कुर्यात्, तत्र स्वयमप्रवृत्तेः902 ।
योग्यतामात्रेण तु तद्देशवृत्तिमनपेक्ष्य तत्र कार्यकारिणः समानोऽस्य देशः 903उपकार
स्यैकतोऽप्यलाभात् । तस्मात् तद्देशे करोतीति न स्वापेक्षया देशस्याधारभावः किं तु
कार्यापेक्षया । अयोगव्यवच्छेदेन च तत्करणम् । अन्यथा देशान्तरवतः कार्यस्य
करणप्रसङ्गात् । एवं तर्हि काले करोतीति स कालः904 कार्यस्यैवाधारो नियमेन ।
हेतोस्तु स चासच्च स्यात् । अयोगव्यवच्छेदेन 905त्वेककालकार्यकरणमिति कालान्तर
वतोऽपि कार्यस्य करणमविरोधि906 । तस्मात् कुशूलादिसर्वावस्थासमानस्वभावस्यापि
907तदतत्कालकार्यजननमुपपन्नम्, भिन्नदेशानेककार्यार्जनवदिति ।
तदेतन्न सङ्गतम्, 908बाधकभावाभावाभ्यां विशेषात् । यत्तु तत्कार्यत्वं तद्देशता
साधनायोपन्यस्तं तद्विपर्ययबाधकप्रमाणाभावादसाधनमेव । अन्वयव्यतिरेकसमधि
गम्यश्च909 कार्यकारणभावः । तौ च यथा तद्देशकार्यजन्मनि दृष्टौ910 तथा भिन्नदेशकार्य
संभवेऽपि । न चैवं स्थितेनापि911 कारणेन सह तत्कालकार्यस्यान्यकालकार्यस्य912
वान्वयव्यतिरेकौ समानाविति युक्तम् । कालान्तरेऽपि तदेव कारणमनुवर्तत इति
न प्रत्यभिज्ञातोऽन्यत्प्रमाणम्, सा च दूषितेति कथं स्थिरेणान्वयव्यतिरेकग्रहणं
कार्याणां कालभेदवतामिति नायं न्यायः समानः । ततो विपर्ययबाधकविकलतया
देशभेदे913 भेदसाधनो हेतुर्यदि स्वसाध्यसाधनसमर्थः किमायातं तद्वलवतः कालभेदे
भेदसाधनस्य । नहि 914वृषभस्यादोहयोग्यत्वे धेनोरपि तथेति युक्तम् ।
अस्तु वा देशभेदेन भेदसाधनस्यापि विपर्ययबाधा बलम्, कालभेदे भेदसाध
नस्य तु किमेतावता दूषणम् ? अनैकान्तिकत्वमुपपाद्यत इति चेत् ? किमयं मन्त्रपाठः ?
कदाचिज्जननसमर्थस्याजननस्यान्वयदर्शनात्915 सन्दिग्धविपक्षव्यावृत्तिकत्वमभिमत
मिति चेत् ? तथापि किमनेन श्रमेण ? समर्थं च स्यात्, न च जनयतीतीयतैव तत्
58
सिद्धेः । देशोदाहरणेन916 संशयपुष्टिः क्रियत इति चेत् ? यदि विपर्ययबाधा बलमस्य917
न पुष्ट्यापि संशयमनुल्लङ्घयन्त्या 918किञ्चित्, विपर्ययबाधावैधुर्ये तु संशयमात्रेणापि
हेतोर्विपर्यासनात् किमपरं पुष्ट्या919 ? यदि च तन्मात्रं विवक्षितम्, तदा विपर्ययबाधकेन
निरस्तेऽस्मिन् किं पुनरुपन्यासेन ?
अथ कालदेशयोः सर्वत्र समानन्यायोपलब्धेरेकयोगक्षेमत्वाद् देशभेदवदेव920
कार्येण कालभेदवतापि न 921हेतुभेद इत्युच्यते ? तदप्ययुक्तम् । तथाहि न परमाणोः
कालव्याप्तिसदृशी देशव्याप्तिरिष्यते नित्यवादिभिः । नापि विद्यु24a दुद्द्योतस्य922
देशव्याप्तिसदृशी कालव्याप्तिरेवं 923घटादेरपीति कथं सर्वत्र समानन्यायता ? न
चान्यत्र समानन्यायतादर्शनेऽपि सर्वत्र तथाभावः, प्रस्तुते वैपरीत्यसंभवे बाधका
भावात् ॥
उपादानभेदाच्च देशभेदे यदुक्तमुपादानसहकारिभावोऽवान्तर924 इति, तदप्य
युक्तम् । यद्यपि विकल्पे प्रतिभासमानौ 925तावुपादानसहकारिभावौ 926भिन्नाविव न वस्तु,
तथापि वस्तुनस्तत्तद्व्यावृत्तिसंभवान्नावास्तवव्यवस्था, अन्यान्यापेक्षया च न
विरोधः । यथैकस्यान्यापेक्षया पितृपुत्रत्वस्य न वास्तवत्वं, न च927 विरोधः ।
न च रूपद्वयेन कार्यद्वयस्य करणम्, येन कल्पनाभासिनो928 रूपयोरवास्तव
त्वात् द्वयाकरणम् । यथा चैकरूपेण द्वयाकरणं929 तथा स्वोपादेयं स्वदेशे परोपादेयं च
परदेशे करोतीति उपादानभेदादुपपन्नोऽपि930 देशभेदः । यतश्च नारोपितस्वभावभेदादेव
देशभेदः कार्यस्य, किं तु स्वोपादेयं स्वस्वदेशं931 जनयद्भिरेवार्थाद् 932भिन्नदेशं सहकार्यं
कार्यमिति न्यायः । ततो न 933विकल्पितस्वभावभेदादेव 934भिन्नकालकार्यकरणमभिन्नस्य,
बाधकसामर्थ्येन935 भेदसाधनात् । अत एव न सर्वदेशसमानत्वं कारणस्य । स्वसह
कार्युपादेये हि सहकारिता अस्य, तस्य च कार्यस्य स्वोपादानदेश एव संभवात् तत्रैव
अस्य 936सहक्रियासामर्थ्यं न देशान्तर इति कथमस्य सर्वः समानो देशः कुतश्चिदुपकारा
भावेऽपि ?
यच्चोक्तम्, कार्यस्यैव स काल आधारो937 नियमेन, हेतोस्तु स चासच्चेति, तदपि
देशसाम्येन प्रतिहतम् । तथाहि938 यथैकदेशस्थ939 एव हेतुर्भिन्नदेशानि कार्याणि करोति,
59
तथा एककालस्थ एव भिन्नकालानि कार्याणि करोतीत्यप्राप्यैव कार्यकालं940 देशवत् ।
ततश्च कदाचिज्जातनष्टोऽपि सहकार्यपेक्षया सकलकालकलितानि941 कार्याणि कुर्यादिति
स्थाने संभूयैकार्थकरणप्रतिज्ञानिर्वाहः ।
अथ देशमपि कार्यस्य प्राप्यैव जननान्न देशदृष्टान्तसिद्धिरिति चेत्—न, पुरुषा
न्तर्भुवो942 ज्ञानस्य देशप्राप्तेरभावाद् दीपस्य ज्ञानाधिकरणस्यात्मनः प्रदीपसंयोगेऽपि
न ज्ञानसुखादिसंभवदेशे 943देहान्तःप्रभाप्रवेशावकाश इति काशकुशावलम्बनमेतत् ।
यश्चायं तद्देशत्वसाधनस्तत्कार्यत्वहेतुरुपन्यस्तः, स न स्वतन्त्रः, प्रतिबन्धाभावाद् ।
भावेऽपि नास्माकं क्षतिरित्युक्तम् ॥
न च प्रसङ्गो भवितुमर्हति, तत्कार्यतायाः प्रमाणसिद्धत्वेन परोपगममात्रा
भावात्, विपर्ययपर्यवसायिताविरहाच्च944 । तदाहि 945न च तद्देशत्वमतस्तत्कार्यत्व
मपि नास्तीति स्यात्, न चैवं शक्यम् । शक्यत्वेऽपि नास्माकं मूलप्रसङ्गयोः क्षतिः ।
न चोक्तदोषः, यतो जननसामर्थ्यमन्यदा परोपगममात्रेणैव, न प्रमाणात् । विपर्यये
च जननाभावः प्रमाणसिद्धः946 क्षणान्तरे तत्का24b र्यसामर्थ्यं निवर्तयन् जलधरस्य
947अन्यक्रियाक्रियापक्षयोर्द्वयोरपि क्षणभङ्गं साधयतीति सपक्षे भावान्न विरुद्धः
सत्त्वहेतुरिति ॥
-
जलकृति अ; जनभृति र
↩ -
चकारस्त्यक्तः र
↩ -
नाविरोध र
↩ -
तथा ताने० र
↩ -
स
↩
एवाहमिति नास्ति र -
स्य वि० अ
↩ -
नासार्थक्रियाशक्तिः र
↩ -
०ति वा अ
↩ -
०बन्धा र
↩ -
कारितः अ
↩ -
तदेति नास्ति र
↩ -
रेकभा० र
↩ -
गोचरो अ
↩ -
०दात्पक्षस्येति र
↩ -
अस्पष्टम् अ
↩ -
क्षणदर्शी अ
↩ -
स्या
↩
न्निरोधः अ -
०धावसाय० र
↩ -
हीति नास्ति अ
↩ -
सभिदधाना र
↩ -
०कषिण्यस्तान्तावत् र
↩ -
अनुमानकृतो एका० र
↩ -
नकारत्यक्तः र
↩ -
०दिष्व० अ
↩ -
वर्ण्णक्षण० र
↩ -
अस्पष्टम् अ
↩ -
अर्थमात्रेण र
↩ -
व्यतिरेकमात्रेणेति नास्ति अ, वाच्य० र
↩ -
निर्ज्ञात० ? अ
↩ -
क्व व्यभिचारः र
↩ -
०दृशे वस्तु० र
↩ -
भङ्गो
↩ -
०मात्र प्रमाणं र
↩ -
तवेति नास्ति र
↩ -
भेदप्रत्यय० र
↩ -
अपीति नास्ति अ
↩ -
भेदाध्यवसायः र
↩ -
भिन्न एवेति नास्ति अ
↩ -
किम
↩
नेकत्वाध्यवसायः अ -
न भेदस्या० अ
↩ -
पूर्वक र
↩ -
०नुपलक्ष्यमाणत्वात् र
↩ -
व्यय इति
↩
नास्ति र -
०ऽन्वलक्षणेऽपि र
↩ -
०त्तांशोल्लेख० र
↩ -
यौक्तभ्रमेपि ? अ
↩ -
०मितेश्च र
↩ -
ग्रहणतन्त्र र
↩ -
स च एवास्मा र
↩ -
०वत्क्रियापरम्वा र
↩ -
प्रत्यक्षेण द्वये र,
↩
प्रत्यक्षेण क्षण० अ -
वैकल्येन अ
↩ -
विषयप्रा० अ
↩ -
विषयप्रा०
↩ -
तदनुदयन० र
↩ -
तदु
↩
त्पत्तिसंवादा र -
पाठो घृष्टः अ
↩ -
यत्र एवा० र
↩ -
इयं च भिनवतमं ? र
↩ -
०ति अ
↩
भिज्ञा र -
०रनैकान्तिकश्च र
↩ -
मात्रनिषेधा अ
↩ -
चकारस्त्यक्तः अ
↩ -
सद्भावे अ
↩ -
बाधयो० अ
↩ -
न बाध्य र
↩ -
स्वेति नास्ति र
↩ -
०वे तायिनामप्रा र
↩ -
०स्तदेव र
↩ -
०मनुशा र
↩ -
परिमुष्टनि अ
↩ -
प्रमेयहेतू० अ
↩ -
या सा व्यभि० र
↩ -
तत्प्रमैव र
↩ -
व्यक्तमेव र
↩ -
ज्ञानार्थ० र
↩ -
नामनक्रियतां सावा० र
↩ -
न तव भव० र
↩ -
निवार्य इति र
↩ -
कत्रात्मा० अ
↩ -
दीपितो
↩
परिदीपतो नि० अ -
अ पाठो घृष्टः, विपर्यय र
↩ -
०लम्ब्यमा० अ
↩ -
०दिति र
↩ -
अपीति नास्ति र
↩ -
०र्शन
↩
समर्थसामग्री० अ -
तदनुमानुष्टान० र
↩ -
०कालाध्याभ्यास० अ
↩ -
व्यभिचारीणि क्षणिक०
↩ -
सभां संविशत प्रेक्षाः र
↩ -
हेहतकत्या र
↩ -
उ?त लक्षण अ
↩ -
व्यतिरेके र
↩ -
नैकस्याव्यभि० र
↩ -
व्यभिचारदर्शी अ
↩ -
प्रत्यभिज्ञान्यायानयेत् । व्यभिचारशंकातया र
↩ -
०स्तावदेकदास्वभावो र
↩ -
क्रियेयं र
↩ -
अन्य जातीयामिति नास्ति र
↩ -
तदिति नास्ति अ
↩ -
समर्थ इति नास्ति अ
↩ -
अपीति नास्ति अ
↩ -
०म्भावादेवजनन० र
↩ -
०पाक्षोणं अ
↩ -
तेषां हि त स०
↩ -
किं कुतः अ
↩ - तत्त्वसंग्रहे ३९५ ↩
-
दूरात् र
↩ -
तदा करोत्येव अ
↩ -
वारिधारण० र
↩ -
अतो० अ
↩ -
नियमवत्वे लक्षण० अ
↩ -
पाठो घृष्टः अ
↩ -
०बन्धे अ
↩ -
सिध्यतीति अ
↩ -
अन्यदाऽकरण० र
↩ -
लब्धिः र
↩ -
न र ।
↩ -
न तत् तत्र समर्थं र
↩ -
कार्यं क्रिया० र
↩ -
असआमर्थ्यां० र
↩ -
नायं र
↩ -
सआमर्थ्यं र
↩ -
सआमर्थ्यमिति र
↩ -
०स्तोयधरस्य र
↩ -
०भङ्गतया अ
↩ -
सत्त्वे अ
↩ -
भिद्यमान० र
↩ -
कारणाकरण० र
↩ -
पुनःतस्य र
↩ -
सामर्थ्ययमानः र
↩ -
सकलवै० र
↩ -
सहकारित्वमेव
↩
व्यावृत्त हेतो० अ । -
शक्तिरिति र
↩ -
नेति चेत् र
↩ -
०कल्ये शक्त इति र
↩ -
धर्मिधर्मणो र
↩ -
स्थानतः र
↩ -
एव...कारिणामिति नास्ति आ
↩ -
एतदर्थं र
↩ -
प्रतिपन्न० र
↩ -
गोपेना० र
↩ -
शक्तः अ
↩ -
शक्त्युक्ती? अ
↩ -
०धापन० र
↩ -
चेतीति नास्ति र
↩ -
तथेति नास्ति र
↩ -
०नभि० अ
↩ -
अपीति नास्ति र
↩ -
प्रकृतितो र
↩ -
०रं नैव अ
↩ -
०न्तरमपि विकल्प० र
↩ -
यथा र
↩ -
कार्यं च अ
↩ -
तत इति नास्ति र
↩ -
पाठो घृष्टः अ
↩ -
यदि च नाक्षेपकारित्व० नास्ति र
↩ -
सत्यपेक्ष० र
↩ -
ततः र
↩ -
यदा र
↩ -
कुर्यात् र
↩ -
कार्यं० र
↩ -
तुकारस्त्यक्तः र
↩ -
क्व र
↩ -
कालयोः कारकस्वभावत्वाद० र
↩ -
जनना नास्ति र
↩ -
क्षयः र
↩ -
०त्पत्तेरि० अ
↩ -
कारक० अ
↩ -
तस्यां भावात् अ
↩ -
भावस्या र
↩ -
रेकत्वारोपे...
↩
...नपूर्वापर० इति भागस्त्यक्तः र -
रजतंआरोपेण र
↩ -
अपीति नास्ति अ
↩ -
पर्वपरयोरेकत्वं अ
↩ -
प्रसंज्यमाने अ, र
↩ -
समं यत्स एव अ
↩ -
०वदसम्बद्धो निषेधः इति नास्ति र
↩ -
समयमयं र
↩ -
०मर्थे पुष्णाति र
↩ -
क्षणिकवादिना र
↩ -
०रशक्तिश्चेति नास्ति र
↩ -
०माचरती र
↩ -
नैपुन र०
↩ -
जज्जनयती० र
↩ -
समाख्येयं र
↩ -
शक्तमाह अ
↩ -
एवं र
↩ -
०दर्शनं र
↩ -
सर्वजन० र
↩ -
चकारो नास्ति र
↩ -
०लं जनकं र
↩ -
पूर्णनाशः र
↩ -
शक्ता
↩
स्वभा० र -
हीति त्यक्तम् अ
↩ -
भेदोऽसिद्ध र
↩ -
दृष्टयोः र
↩ -
भेदेऽपि र
↩ -
उभयत्र वि० र
↩ -
विडम्बयति र
↩ -
स खलु र
↩ -
नवारिता अ
↩ -
कुम्भव्यावृति० र
↩ -
न खल्व० अ
↩ -
०स्यैव केन अ
↩ -
विज्ञानात्
↩ -
अग्राह्य र
↩ - ↩
-
ग्रहणमिति प्रस० र
↩ -
तत्तु अ
↩ -
कृतमन्य० इति नास्ति र
↩ -
तर्हि अ
↩ -
कथमति० र
↩ -
पूर्वैकेवत्त र०
↩ -
०द्य अ
↩ - ↩
-
०ऽर्थक्रिया र
↩ -
०सानानुत्तव र ०सानात्त न च अ
↩ -
तदिति नास्ति अ
↩ -
क्षणाननु
↩
वृत्त्या० अ -
०र्विषयसरू० अ
↩ -
तस्मात् र
↩ -
प्रकृतिः र
↩ -
नेति नास्ति र
383- Reference of this note not clear from print.↩
↩ - Reference of this note not clear from print.↩
-
प्रमाण० अ
↩ -
०ऽक्रियेति नास्ति र
↩ -
न विरोधदृ० र
↩ -
सर्वत्रानवका० र
↩ -
०मेष हि अ
↩ -
०श्चात्र र
↩ -
०कार्याका० र
↩ -
०देन व्यवस्था र
↩ -
कालैकत्वापेक्षं र
↩ -
स्वकार्यकारण० अ
↩ -
०स्वरूपं र
↩ -
प्रसङ्गो न र
↩ -
भेदेयं र
↩ -
यद्यभिन्ना र
↩ -
तदापि र
↩ -
तस्मात् र
↩ -
नियमसिद्धेः र
↩ -
चाभिन्नेऽपि र
↩ -
नकारो
↩
नास्ति अ -
०त्वावसाय० र
↩ -
धर्म इत्येव र
↩ -
विरोधोऽविरोधो वा० र
↩ -
विरुद्धधर्ममिति र
↩ -
०मजनयतैव र
↩ -
विरुध्यतां । नवर्ण० र
↩ -
ततो र
↩ -
स्वभावापर० र
↩ -
तदिति नास्ति अ
↩ -
०रेककार्यस्मृति० अ
↩ -
त्वेति त्यक्तम् अ
↩ -
इत्येव र
↩ -
०न भिन्न० अ
↩ -
तद्वदिति र
↩ -
स्वत० अ
↩ -
०स्याबाधितविशेष...मसिद्धम् अ
↩ -
यदय अ
↩ -
कथं न र
↩ -
स्यादित्यादि अ
↩ -
०मभित्वो नामित्तं र
↩ -
०नेन दृशो० र
↩ -
त्विति नास्ति र
↩ -
भिद्यमाना इति नास्ति र
↩ -
चक्रादि० र
↩ -
विभागात् वर्णः र
↩ -
धर्मा० इति नास्ति अ
↩ -
चेति नास्ति अ
↩ -
परसमयस्य तथापि र
↩ -
०ष्टाभासता च भिन्न
↩
समयस्थानां र -
नियमन० र
↩ -
ह्युतरकार्य० र
↩ -
०भेदोतत्वतो र
↩ -
तद्भेदि० र
↩ -
०धर्माणां नाना० र
↩ -
धर्मि० नास्ति अ
↩ -
चेति नास्ति र
↩ -
भवतो र
↩ -
०थेतर० र
↩ -
त्विति नास्ति अ
↩ -
०विशतु र
↩ -
०वावलम्बनेन र
↩ -
०कारकस्यो अ
↩ -
ते इति
↩
नास्ति अ -
०न्न विरुध्यते र
↩ -
यस्मात् अ
↩ -
द्वयोरभावे तत्कार्यं तयोरभावे र
↩ -
कार्यानुप
↩
पत्तेः अ -
यद्यपि हि० अ, यद्यभिहितत्वत्वारि र
↩ -
पश्चादेवेति र
↩ -
०स्यायुक्त० र
↩ -
हेतोः सामर्थ्यम
↩
समर्थव्यसनेन अ -
असतु र
↩ -
सद्रव्यमानं र
↩ -
०न्तरमेव अ
↩ -
सह...स्तावन्त इति
↩
नास्ति अ -
लभ्यं सं०
↩ -
तेषु सत्सु र
↩ -
वियुक्ता अ
↩ -
०न्नतत्—हेतुबिन्दुटीका, पृ० ३६० ।
↩
स्यान्न कार्यन्तत्—वार्तिकालं पृ० ५६ -
०क्तेऽस्य—हेतुबिन्दुटीका, पृ० ३६०
↩ - वार्तिकालङ्कारे १. ४११ ↩
-
स्वयम्भवन्ताव यदेव र
↩ -
तथैतद्भआवे० र
↩ -
भवत र
↩ -
कारणभेदः र
↩ -
भेदम्विज्ञान० अ
↩ -
तदाभेदस्य र
↩ -
धर्मो अ
↩ -
स इति
↩
नास्ति अ -
भेदे वर्णमुप० र
↩ -
कारणभेदक इति र
↩ -
यज्जननः स्व० अ
↩ -
भावीन्य० र
↩ -
०मेव र
↩ -
०देर्व्यवस्थि० र
478- Reference of note not clear from print.↩
↩ - Reference of note not clear from print.↩
-
०दिनान्यान्यी० र
↩ -
कारणमर्थ० अ
↩ -
चकारो नास्ति र
↩ -
लक्ष्यते र
↩ -
प्रमाण...
↩
वर्तिरप्येवम् इति नास्ति अ -
प्रतिज्ञानस्य अ
↩ -
संयोग इतर र
↩ -
०रादि सासा?तेभ्यः अ
↩ -
परिणामस्य अ
↩ -
अस्पष्टः पाठः अ
↩ -
स्फटिकादेः र
↩ -
येनेति नास्ति अ
↩ -
इति
↩
चेत् इति नास्ति अ -
नैव अ
↩ -
पाठो घृष्टः अ
↩ -
अस्ति तत्र अ
495- Reference of note not clear from print.↩
↩ - Reference of note not clear from print.↩
-
अशक्योप० र
↩ -
केनचिदिति नास्ति र
↩ -
स्वक्रिया र
↩ -
यदैव र
↩ -
०भेदि र
↩ -
कार्यभेदाऽकर
↩ -
०त्यन्तासम्ब० अ
↩ -
भेदो हि र
↩ -
सदृश० अ
↩ -
भ्रमदर्शने र
↩ -
०मुपलम्भर्थं र
↩ -
योगिन० अ
↩ -
स्वभावप्रस० अ
↩ -
पाठोऽस्पष्टः अ
↩ -
०मेवमिति र
↩ -
कार्यपर्वान्तरकाल० र
↩ -
त्वेति नास्ति र
↩ -
अथ रूप० र
↩ -
दनेकमेवः?० र
↩ -
नकारो नास्ति अ
↩ -
०कारण० अ
↩ -
सदैवं र
↩ -
०दिराकारण० र
↩ -
कालभेदभि० र
↩ -
०न्तरितैरनेकामेभिरेरनेकं र
↩ -
पाठोऽस्पष्टः अ
↩ -
०प्रयुक्तं साधन
↩
मिति र -
कथं कथं र
↩ -
साधने क र
↩ -
कारणा० अ
↩ -
न भावस्य र
↩ -
विरहो अ
↩ -
बौद्धे र
↩ -
दृष्ट० र
↩ -
तथापि तत् अ
↩ -
साधनाय इति नास्ति र
↩ -
प्रमा
↩
तार्थमाया र -
पाठोऽस्पष्टः अ
↩ -
कं र
↩ -
मध्यमो विक्षिप्त० र
↩ -
पाठोऽस्पष्टः अ
↩ -
०मुप
↩
नाम० र -
०मविसम्वादक० र
↩ -
प्रणति र
↩ -
दृष्टं पर्वतया० र
↩ -
०बाधे च अ
↩ -
०परितस्या० र
↩ -
०लभ्यता० र
↩ -
०भासने र
↩ -
यदिह कारिणि र
↩ -
शब्द० इति
↩
नास्ति र -
स्वतो वाशब्द० र
↩ -
करणं च कारण० र
↩ -
यावत्स्व० अ
↩ -
नैनं र
↩ -
०धेयान्निजं अ
↩ -
प्रतीप० र
↩ -
तदिति नास्ति र
↩ -
सर्वत्रोत्पत्ते० र
↩ -
कारणवैजात्यमित्युपगमः अ
↩ -
०मेकस्यैवानेक० र
↩ -
कचिद० अ
↩ -
चर्वयति अ
↩ -
तथानयोरपनीय० अ
↩ -
पूर्वो० र
↩ -
येन स्वभावेऽन्तरमु
↩
पादेयं क्षण० र -
प्रसङ्गः अ
↩ -
०वान्तर भवेति र
↩ -
प्रसज्यते र
↩ -
स्वभावाव्यभि० र
↩ -
साक्षाद्विरुपलक्षणं र
↩ -
पूर्वस्य अ
↩ -
न तुस्व० अ
↩ -
व्यक्ति इति नास्ति र
↩ -
चकारो
↩
नास्ति र -
तस्य क्षणि० अ
↩ -
०रैकसिद्धः र
↩ -
०कदित्य० र
↩ -
हेतुफलचिन्ते० अ
↩ -
यदा
↩
च र -
कारणं चेतरत् बी० र
↩ -
चकारो नास्ति अ
↩ -
एकस्य इति नास्ति अ
↩ -
०मानि० अ
↩ -
०प्यैक० अ
↩ -
०मान० इति नास्ति अ
↩ -
०विधिनो अ
↩ -
०रिव कस्मिन् र
↩ -
०स्वभावाभावा० अ
↩ -
०तकनित्व० अ
↩ -
०कस्वभावे० र
↩ -
स्यादेव० र
↩ -
स्वीकारात् अ
↩ -
कृतकत्व० अ
↩ -
न नित्येन अ
↩ -
०कत्वेन र
↩ -
तथाहि इति नास्ति र
593- Reference of note not clear from print.↩
↩ - Reference of note not clear from print.↩
-
रूपजनकत्व० र
↩ -
रसजनकत्व० र
↩ -
सा च सति र
↩ -
कृत
↩
कत्व नि० र -
व्यवधीयते अ
↩ -
०भिधाने कश्चि० र
↩ -
नीलत्वादिषु र
↩ -
नन्व० अ
↩ -
परव्य
↩
भिचारा० र -
कृतकत्व० अ
↩ -
विभाति र
↩ -
एष र
↩ -
नन्व० अ
↩ -
०मात्रेण...
↩
व्यभिचार० इति नास्ति र -
नीलत्वस्य र
↩ -
भावेन अ
↩ -
प्रमाणवृत्ता० र
↩ -
तदात्म० र
↩ -
नानाधर्मयोर्नाम० र
↩ -
नीलत्वा० नास्ति अ
↩ -
एककार्यजनना० र
↩ -
भिन्नः र
↩ -
प्राचीनरूप० र
↩ -
नकारो
↩
नास्ति अ -
धर्मिणिष्ठिन्त?र
↩ -
सन्देहो मोहाद् र
↩ -
सत्त्वेन च वस्तु....न वस्तु धर्मिणामसा० अ
↩ -
तत्त्व० र
↩ -
तन्न र
↩ -
सत्त्वमिति नास्ति अ
↩ -
सू?न्यस्य र
↩ -
०राशि० र
↩ -
०रिव्यक्त० अ
↩ -
प्रमाणे
↩
मन्वि० र -
क्षणितायाः अ
↩ -
जन० इति नास्ति र
↩ -
०त्यादि र
↩ -
स्वभावकाभिः?भेद
↩
स्तदैव र -
दोषस्पर्शी अ
↩ -
कार्यान्तर० अ
↩ -
निष्णोषिक? र
↩ -
वाक्षन्ते र
↩ -
प्रेति
↩
नास्ति र -
तत्रैवो० अ
↩ -
साधनायै प्र० र
↩ -
०नानुकृता० र
↩ -
०ममुक्त्वा अ
↩ -
नय? येन र
↩ -
यत् अ
↩ -
०स्यक्षण इति नास्ति अ
644- Reference of note not clear from print.↩
↩ - Reference of note not clear from print.↩
-
कर्तव्ये इति नास्ति अ
↩ -
०बन्धे० अ
↩ -
०बन्धो र
↩ -
पूर्वस० र
↩ -
र्भुवो विशेषाः अ
↩ -
भासप्रम्बाधा र
↩ -
प्रबन्धो र
↩ -
०न्धाक्षेप० र
↩ -
संपीता अ, संपीतिता र
↩ -
समसमभावि० र
↩ -
क्षणात् र
↩ -
पूर्वस्मिन्नुत्तर उत्प० र
↩ -
०त्वमनुपपन्न० र
↩ -
०पन्नमिति र
↩ -
विवक्ष? र
↩ -
क्षण० अ
↩ -
०दनः अ
↩ -
य उच्यते अ
↩ -
सहेति नास्ति र
↩ -
सत्ययं र
↩ -
साधनबाध० र
↩ -
०दंशसि० र
↩ -
शब्दमप० अ
↩ -
सापेक्षता इत्य० र
↩ -
तदन्वयद्० अ
↩ -
यथोत्तरे
↩
शक्तं भवदुत्तरेऽपि कथं शक्तः अ -
०सिद्धः अ
↩ -
तत्कृतं र
↩ -
०परापर० र
↩ -
शक्तिविशेष
↩
णात् र -
रूपादयो? पचयोर्वा र
↩ -
मुपरिपाततत्वाभ्य?वकाशः र
↩ -
०तश्चरित० र
↩ -
०मेपि र
↩ -
सहसैव र
↩ -
सम्भ
↩
वेन कारणेस्य र -
प्रमाणोयनीतो न अ
↩ -
इत्ययं नित्य० र
↩ -
०स्परनिर० र
↩ -
ता० टी०
↩
पृ० ८४१ -
मनक्षये?भागे र
↩ -
सम्बन्ध० र
↩ -
०पिक्षणोऽत० र
↩ -
ओमिति चेत् र
↩
ता० टी० पृ० १४१ -
कार्योपजन० ता० टी०
↩ -
क्षणमपीति नास्ति ता० टी०
↩ -
प्रेक्षवान् यतः
↩
प्रयत्नेनेत्यधिकम् ता० टी० -
परिकर्मिता० र
↩ -
सहभुव एव बीजक्षणस्यातिशयो ता० टी०
↩ -
गतेनापि र; सहस्रेणापि वर्षैः ता० टी०
↩ -
०न्तरस्तु सहकारि नापे० र, कारिणा अ, सन्तानान्तरं
↩
नापेक्षेत स्वकार्ये ता० टी० -
तत्र तास्या? तत्तवास्या अ
↩ -
०मुपेयते ता० टी०
↩ -
तस्य पूर्वःक्षणः अ
↩ -
०कर्मकं र
↩ -
०कार्याति र
↩ -
०जननं अ
↩ -
कार्यमिति नास्ति र
↩ -
उत्पत्तुम० र
↩ -
०पेक्षणे च बीज० अ
↩ -
भिन्नसन्तान इति नास्ति र
↩ -
कृषीधर्मस्वसन्ता० अ
↩ -
ये इति नास्ति अ
↩ -
तथेति नास्ति
↩
र -
०भावत्वात् व्यति० र
↩ -
०देऽपेक्षेत र
↩ -
प्रत्ययो न र
↩ -
०नाभ्युप० र
↩ -
०मात्र
↩
जन्मान अ -
स्वेति नास्ति अ
↩ -
तस्यापि र
↩ -
शक्त्या इति नास्ति अ
↩ -
जन्मसु व...षु बीज० अ चक्षु?षु र
↩ -
अथो अ
↩ -
बीज
↩
क्षणमिति नास्ति र -
समानायोग० र
↩ -
प्रत्ययेनाभावासहभावात् अ
↩ -
पाठोऽस्पष्टः अ
↩ -
०पेक्षाणामेव अ
↩ -
19b पृष्ठं परित्यक्तम् अ
↩ -
पाकविशेषेण शतपुटादिकरणे भिन्नस्वभावहरीतकीवदित्यर्थः ।
↩ -
०न्मनितम० र
↩ -
०वैचित्र्य
↩
दर्शनादनुमितेति नास्ति र -
द्विधा र
↩ -
चेतनमचेतनं चेति र, पाठोऽस्पष्टः अ
↩ -
०क्षेतरः अ
↩ -
०दंगेना० र
↩ -
सा इति नास्ति अ
↩ -
पु?तुन र
↩ -
पृथग्जनः इति नास्ति र
↩ -
प्रेति नास्ति र
↩ -
चैव० र
↩ -
मात्रात् र
↩ -
नकारो नास्ति अ
↩ -
०नां सविभक्तमाता० र
↩ -
०कश्चित्कणि
↩
कादय० अ -
०दिनामाद्यावयवेष्वपि र
↩ -
०गमुपल० अ
↩ -
निर्जातत्व० र
↩ -
भक्तः ति० अ
↩ -
०रेणेति र
↩ -
कार्ये अ
↩ -
साधारणवृत्त्या र
748- Reference of note not clear from print.↩
↩ - Reference of note not clear from print.↩
-
भुक्तशीर्णेषु र
↩ -
अपचितस्वकीयतिल० र
↩ -
चा र
↩ -
इति तत्रा० अ
↩ -
मध्यामध्य० र
↩ -
०दंशे अ
↩ -
०प्यलङ्कितेषु र
↩ -
०मुपपादयितुं र
↩ -
०मायास्यपि र
↩ -
अपीति नास्ति र
↩ -
भावेषु इति नास्ति र
↩ -
चेतनार्थकर्मिण्यु० र
↩ -
परिच्छेदन्तया र
↩ -
न्यायान्वेषीति नास्ति र
↩ -
इत्यवान्तर
↩
विशेषात् अ -
०नेषते र
↩ -
०दानता वा विशेष० र
↩ -
इममद्य भागो र
↩ -
०ऽन्यो र
↩ -
०विका करण० अ
↩ -
बीजेषु रूप० र
↩ -
हेत्विति नास्ति अ
771- Reference of note not clear from print.↩
↩ - Reference of note not clear from print.↩
-
जननगुणे विशेषे अ, ०विशेष० र
↩ -
०ऽवसित० र
↩ -
बाधस्य अ
↩ -
न प्रत्यक्षतः र
↩ -
यद्युच्येत इत्यादि उक्तेन क्रमेण सत्त्वं
↩
निवृत्तमित्यसाधारणानैकान्ताद० इत्यन्तो भागः पतितः अ -
०न्नानिष्टि० र
↩ -
अक्षार्थः र
↩ -
क्षणिकस्यानेन कदाचिदि० र
↩ -
०दित्यपेक्षै० अ
↩ -
०तावस्थस्य अ
↩ -
०समयास्थितिः र
↩ -
प्रतिपद० र
↩ -
तत्र र
↩ -
सामर्थ्यमेव रहित० र
↩ -
न सुतरार्थमुभय० र
↩ -
०पेक्ष्यमङ्कुर० र
↩ -
जनयतु अ
↩ -
रूपेणा...मंकुरं अ
↩ -
भेदाभेद० अ
↩ -
तस्याप्ये० अ
↩ -
स्वयमु० र
↩ -
जनकं र
↩ -
तयो० र
↩ -
यद्युच्येत इत्यतः सत्त्वं निवृत्तमित्यसाधारणानै०
↩
इत्यन्तो भागो नास्ति र -
०कारिण्ये० अ
↩ -
क्रमेण अ
↩ -
०णावकृमा० अ
799- Reference of note not clear from print, current placement is only a guess.↩
↩ - Reference of note not clear from print, current placement is only a guess.↩
-
०समवधारण० र
↩ -
०रसिद्धिः अ
↩ -
खल्व० अ
↩ -
भिन्न० अ
↩ -
इति शब्दो नास्ति र
↩ -
०धारिणि अ
↩ -
०वृत्त अ
↩ -
विचारेण र
↩ -
वेति नास्ति र
↩ -
साधनबाधनयो० र
↩ -
क्षणभेदस्य गोचरातिक्रा० र
↩ -
यद्वा र
↩ -
तद्वा र
↩ -
०भेदान्न० र
↩ -
सिद्धमिति
↩
नास्ति र -
०भिन्नायोन० र
↩ -
०न्तोभिन्नाएवे० र
↩ -
हेत्विति नास्ति अ
↩ -
व्युत्पआद्य र
↩ -
०त्पत्तेरे० र
↩ -
०बुद्धानु० अ
↩ -
येषामेव र
↩ -
०मस्य अ
↩ -
जातान्येव आत्र र
↩ -
वास्या अत्रापि अ
↩ -
०मयमेव र
↩ -
कार्यसन्भ० र
↩ -
०भेदाभेदानु० र
↩ -
गोपसुख
↩
पयसमृ० र -
बाधनः अ
↩ -
०ताग्रासाधारणी० र
↩ -
०प्तमस्माभि० अ
↩ -
नकारस्त्यक्तः अ
↩ -
क्रियाया र
↩ -
कारिप्र० र
↩ -
कृतकानि र
↩ -
लब्ध० इति नास्ति अ
↩ -
स्वेति नास्ति अ
↩ -
भेदे च अ
↩ -
प्रागेव अ
↩ -
तत् अ
↩ -
भ्रान्तो र
↩ -
नेति नास्ति अ
↩ -
संवादिषु ?
↩ -
०ष्वपोद्धाद्वारेण अ
↩ -
शङ्का० र
846- Reference of note not clear from print.↩
↩ - Reference of note not clear from print.↩
-
यदर्थं र
↩ -
व्यवस्थितौ न व्यवस्थितौ र
↩ -
विंशेन एकैकेन र
↩ -
ततः अ
↩ -
०स्वलक्षण
↩
नापि र, अपीति नास्ति अ -
सकृदनेक० अ
↩ -
क्षितिमिति...किं तेनैवेति नास्ति र
↩ -
कारणेनिर्जति र
↩ -
स्वप्रसिद्ध० र
↩ -
न कारण० र
↩ -
अतिनिर्बन्धेन र
↩ -
०लम्भनाच्च र
↩ -
वासतीत कथ० र
↩ -
प्रसिद्ध० र
↩ -
नियमेन क्ष० अ
↩ -
०म्यन्ती तेन अ
↩ -
व्याघात अ
↩ -
विरुद्धताऽस्तु अ
↩ -
बाधकासिद्धि० अ
↩ -
वाऽक्षणिका च भवता र
↩ -
समानमिति नास्ति र
↩ -
०तास्वप्र० र
↩ -
पृत?र
↩ -
प्रति
871
ज्ञानेवृत्ति० अ- It is not clear in either edition where this note should go.↩
↩ - It is not clear in either edition where this note should go.↩
-
नकारस्त्यक्तः अ
↩ -
क्रियायां...प्यसिद्धे० र
↩ -
तथा चासाधा० र
↩ -
तद् र
↩ -
क्षणेनि० अ; ०बाधक० र
↩ -
०रेवव्यावृत्ति० नास्ति र
↩ -
तदन्वय० अ
↩ -
०मनपेक्ष० र
↩ -
साधनावतारः र
↩ -
तस्यासाधारतावादिना अ
↩ -
०स्तदभिद्ध० र
↩ -
०पेक्षैव र
↩ -
सकारीति र
↩ -
कालभेदेप्ये० अ
↩ -
करसहकार्यपेक्षैवा० अ
↩ -
काले तु र
↩ -
कारणरूपनिब० र
↩ -
एवेति नास्ति र
↩ -
कार्यकाल० र
↩ -
०त्वेक्षयादेव र
↩ -
भेद
↩
कारणस्य र -
०भेदः काल० इति नास्ति र
↩ -
भेदे यदा र
↩ -
यथेति नास्ति अ
↩ -
०देयमभि० र
↩ -
अत्रापि अ
↩ -
०मेव अ
↩ -
च अ
↩ -
कार्यमिति नास्ति र
↩ -
०मवृत्ते र
↩ -
उभय
↩
स्यैक० अ -
तत्कालः र
↩ -
चैक० र
↩ -
विरोधिते र
↩ -
तदत्कार्य० अ
↩ -
०भावभावा० र
↩ -
०गम्याश्च र
↩ -
जन्मिभिर्दृष्टौ र
↩ -
क्षितिनापि र
↩ -
स्यान्यकालकार्य० इति नास्ति र
↩ -
भेदे इति नास्ति र
↩ -
वृषस्य अ
↩ -
०स्यानुप० र
↩ -
देशोपहरणेनु० र
↩ -
बलस्य प्रष्टापि अ
↩ -
न किञ्चित् अ
↩ -
प्रष्टा अ
↩ -
०वतेव अ
↩ -
नाहेतु० र
↩ -
विद्यौद्योतस्य अ
↩ -
घण्टा० र
↩ -
०वास्तव० र
↩ -
तादुवु दृगु र
↩ -
मावो भिन्नो विधन र
↩ -
चकारो नास्ति अ
↩ -
०भाविनो र
↩ -
कारणं र, ०द्वयकरणं अ
↩ -
अपीति नास्ति र
↩ -
देयस्वस्वदेश० र
↩ -
०रेवाद्भिन्नभिन्न० र
↩ -
कल्पित० अ
↩ -
०काल
↩
इति नास्ति र -
सामर्थ्यो न र
↩ -
सहेति नास्ति र
↩ -
आधारे अ
↩ -
यदाहि र
↩ -
०देशस्थं र
↩ -
प्राप्यै कार्यकारणं र
↩ -
०कलिकलितानि र
↩ -
पुरुषान्तभवो र
↩ -
देश देहा० अ
↩ -
विरहात् र
↩ -
न वदेदतद्दे० अ
↩ -
प्रसिद्धः र
↩ -
क्रिया० इति नास्ति र
↩