12
दहनज्ञानस्य संवादमापादयति, न तथा प्रथमचरमकालयोरेकीभावप्रतिबद्धा171 काचित्
क्रियोपलब्धिगोचरा172, ययैकभावग्रहोऽपि संवादी स्यात् ।

सर्वेषां सर्वदैकाध्यवसायसाम्यात् किमपरसंवादापेक्षयेति173 चेत्—न,
असिद्धत्वात् । यद्यपि हि समानशक्तिभिरेकत्वमवसेयं तथापि सर्वैरिति
न शक्यमसर्वविदा । अतीन्द्रियदर्शिनां 174सुरमुनियोगिनामुल्लंघनीयतया तेषु कश्चित्
कदाचित् क्षणभङ्गदर्शी175 यदि स्यात्, न विरोधः176 । अधिकाधिकशक्तिदर्शनं च
संभावनाबीजम् । यदि तु स्वभाव एवायं क्षणभङ्गनामा न भवति न तैर्ग्रहणमिति,
युक्तमेतत् । तच्च निरूपयितुमारब्धम् । अतो यावन्न स्वभावसिद्धिः, तावन्न
सर्वेषां क्षणध्वंसनिषेधाध्यवसायसिद्धिः177 । अतीन्द्रियदर्शिद्वेषिणो हि178
नानुपलब्धिमात्रेण निषेधमभिदधानाः179 साधवः, अतिप्रसङ्गात् । योग्यानुपलब्धिस्तु
देशादिविप्रकर्षिण्यसमर्थेत्यास्तां तावत्180 । कतिपयसंप्रतिपत्तिस्तु तैमिरिककलित
केशादिष्वपि संभविनी न संवादमवस्थापयितुं शक्नोति । एतच्च प्रत्यक्षापेक्षयोच्यते ।
अनुमानतस्तु क्षणभेदे भावभेदं प्रतियन्तः किमिहापि परिषदि निषेद्धुं शक्यन्ते,
तत्साधनाभ्यासस्य क्वचिदनिवारणात् ? तस्मान्न सर्वेषामध्यक्षकृतोऽनुमानात्मा181 वा
एकाध्यवसायो नियमेन भेदाध्यवसायनिषेधो वेति न182 प्रमाणान्तरवत् संवादसंवा
दितमस्य प्रामाण्यम्, लूनपुनर्जातकेशकुशकदलकाण्डादिषु183

  1. रेकभा० र

  2. गोचरो अ

  3. ०दात्पक्षस्येति र

  4. अस्पष्टम् अ

  5. क्षणदर्शी अ

  6. स्या
    न्निरोधः अ

  7. ०धावसाय० र

  8. हीति नास्ति अ

  9. सभिदधाना र

  10. ०कषिण्यस्तान्तावत् र

  11. अनुमानकृतो एका० र

  12. नकारत्यक्तः र

  13. ०दिष्व० अ