क्षणभङ्गाध्याये
तृतीयः पादः—व्यतिरेकाधिकारः

नाप्यनैकान्तिकशङ्का, सर्वोपसंहारवत्या व्याप्तेः प्रसाधनात् । ननु विपर्यय
बाधकप्रमाणवशाद्948 व्याप्तिसिद्धिः, तस्य949 च नोपन्यासवार्ता । तत् कथं व्याप्तिः
प्रसाधितेत्युच्यते ? 950तदेतदुपरिपरिप्लवमानतरलतरबुद्धिविलसितम् । तथा ह्यक्तमेतत्,
कर्तुः सा न क्रिया अन्यदापि, किं तु परक्रिया अक्रियैव वा । अतएव951 प्रकारद्वयेऽपि
क्षणभङ्गस्य सङ्गतिरवश्यम्भावस्तन्मात्रानुबन्ध इति यावत् । तच्च प्रसाधितमतः साध्येन
व्याप्तैव सा अर्थक्रियाशक्तिरिति ।

नन्वेवमन्वयमात्रमस्तु, विपक्षात्पुनरेकान्तेन व्यतिरेक इति कथं लभ्यमिति
चेत् ? व्याप्तिसिद्धेरेव । व्यतिरेके व्याप्तिसिद्धिरेव कथमिति चेत्—न, द्विविधा
हि व्याप्तिः, अन्वयरूपा च कर्तृधर्मः साधनवति धर्मिणि साध्यस्यावश्यम्भावो यः,
व्यतिरेकरूपा च कर्मधर्मः साध्याभावे साधनस्यावश्यमभावो यः, व्याप्तिर्व्यापकस्य
तत्र भाव एव व्याप्यस्य वा तत्रैव भाव इति न्यायात् । 952एनयोश्चैकसिद्धिर्नियमेन
द्वितीयप्रतीतिमाक्षिपति । अन्यथा एकस्याप्यसिद्धेः । केवलं साक्षादेकत्र प्रमाण
व्यापारोऽन्यत्र नान्तरीयकतया प्रतीतिरिति 953तावतैवैकव्यपदेशः । तथा च सत्येकत्र
प्रमाणप्रवृत्तेः पूर्वमन्यत्र संशयः प्रवर्तमानोऽपि पश्चात्तन्या954 तया निरस्यते । यथा
विपर्ययबाधकप्रमाणवादिनामन्वयः सन्दिह्यमानोऽपि विपक्षादेकान्तेन व्यावृत्तिबलात्
निरस्तसंशयः पर्यवस्यत्यक्षणिके सर्वथाऽनुपपद्यमानेयं सत्ता क्षणभङ्गनियतैवेति, एवं
सत्तावतः प्रतिक्षणं नियतस्वभावभेदोपस्थापनात् तदभावेऽपि सत्तासंशयक्षणः पूर्वप्रवृत्तोऽपि
स्वयमेव परिगलति955 । क्रियावता चेदवश्यं क्षणभङ्गुरेण भाव्यम्, क्षणिकत्वव्यतिरेके
956भवत्येव नियतं सत्तेति ।

61

यदि तु तदभावेऽपि स्यात्, तदा तस्यां सत्यां नियमेन क्षणिकत्वमित्यन्वयोऽपि
कथम् ? तस्मात् साध्याभावे साधनस्यैकान्तिको व्यतिरेकः, साधने सति साध्य
स्यावश्यमन्वयो वेति न कश्चिदर्थतो भेदः । प्रमाणव्यापारस्तु मुख्यतोऽर्थतश्चेति द्विधा
व्यवहारः । अतएव यत्र यत्र साध्यविपर्यये बाधकप्रमाणपर्येषणा957, तत्र साधने
सति साध्यान्वयः958, साधकप्रमाणपर्येषणापि तयोपलक्षिता वेदितव्या । विपर्यय
बाधकशब्देन पुनरुभयसंग्रह एव । व्यतिरेकरूपव्याप्तौ हि साध्यविपर्यये बाधकं
साधनस्य, अन्वयरूपायां तु साध्यविपर्ययस्य बाधकं साधने सतीति । तदुभयाभावे959
साधनस्य साध्यप्रतिबन्धानुपपत्तिरित्ययमर्थः । अन्यथा व्यतिरेकनिश्चायकप्रमाणस्य
साक्षादलाभेऽपि960 यदि 961साधनस्य साध्येनान्वय25a नियमप्रसाधकं962 प्रमाणमुप
दर्शयेत्, कस्तस्य 963साध्यसिद्धौ प्रतिबन्धो व्यतिरेकस्यान्वयस्यापि सामर्थ्याक्षेपात्964
अन्यथा साधर्म्यप्रयोगोऽनुपादेय एव स्यात्, साक्षाद् व्यतिरेकानुपदर्शनात् । तद्
यदि सामर्थ्यगम्योऽपि965 न व्यतिरेकात्मा, तदाऽपि966 यत्र यत्र साधनं तत्र तत्र साध्य
मितीयतैव साधने सति968 969साध्यप्रत्याशाप्रयुक्तः कृती970 कृतार्थः । तदभावेऽभाविन्यपि
हि साधने सति971 यदि तद्भावेऽवश्यंभावि साध्यं तदा फलितः972 साधनस्वीकारः ।
तस्मात् साधनवादिना973 द्वयमपि पर्येषणीयं विकल्पेन, वादिना चैकोऽपि प्रकारः
प्रमाणसिद्ध उपदर्शयितव्यः, परसाधनेषु च व्यतिरेकवदन्वयोऽपि नियमवान् दुर्लभ
एवेति वेदितव्यम् ।

अस्माभिस्तु प्रकृतसाधने नियमवानन्वयः प्रसङ्गविपर्ययाभ्यां पौरस्त्याभ्यां
दर्शित एव, तौ च यद्यपि सपक्षीकृते जलभृति प्रवर्तितौ, तथापि यो यत्करणस्वभावः
स तज्जनयत्येव, यो यन्न जनयति न स तत्करणस्वभावः, इत्येवं प्रवर्तमानौ
सर्वमेव क्रियाशक्तियुक्तं क्षणिकत्वे नियतं दर्शयत इति सर्वोपसंहारो व्यतिरेकाक्षेपबीजं
धूमादिवत् । यथा चाध्यक्षं धूमस्य, धूमध्वजेन व्याप्तिं प्रतियतो 974न वह्नेर्महानसे
सत्तामनुपसंहरत्975 प्रत्येति, तथा जलभृति क्षणिकतां प्रतियदेव976 यथोक्तानुमानं
सामान्येन क्रियावतः साधारणन्यायतया क्षणिकतया व्याप्तिमातनोतीति । यदुक्तं
62
प्राक् न सत्त्वादन्यदनुमानस्थिरसिद्धौ यतोऽनवस्था न स्यादिति, तदपास्तम्
यथोक्तप्रसङ्गविपर्यययोरपि977 तत्साधकत्वादिति ।

यद्येवमनर्थकः सत्त्वहेतूपन्यास इति चेत् ? ब्रूमः । किं हेत्वन्तरसत्तामात्रेण
बन्ध्यं साधनान्तरं, 978उत पक्षीकृते तस्याप्युपन्यासात्, अथोपन्यसितुं शक्यत्वात्,
979यदि वावश्योपन्यसनीयत्वात्, यद् वा यदर्थकारि980 तदवश्यं क्षणिकमिति व्याप्तिसिद्धौ
जलधरवत् क्षितिधरादेरप्यर्थकारिणः क्षणभङ्गसिद्धिरिति पक्षाः ।

तत्र प्रथमस्तावत् न युक्तः, अनेकसाधनसंभवेऽपि विवक्षोपनीतस्यैव981 परोप
योगात्982 । अतएव शक्योपन्यासत्वमपि नानर्थक्यहेतुः, तादृशस्याप्युपन्यासात्983
प्रागप्रागल्भ्यात्984 । साध्यधर्मिण्युपन्यासश्चासिद्धौ दृष्टान्तधर्मिमात्रे उपन्यासात् ।
अतएव पक्षेऽवश्यमुपन्यासापेक्षाप्यसिद्धा, तद्बलाद् व्याप्तिसिद्धौ संश्चायं चपलचामर985
इत्येतावतैव साध्यसिद्धेः । अन्तिमस्तु दोषः सर्वत्र सर्वोपसंहारवत्यां व्याप्तौ असि
द्धायां986 शङ्कामवकाशयति, न च तत्र विपर्ययबाधकस्यापि987 विशेषः, केवलं988 सामा
न्येन क्रियावति क्षणभङ्गितया989 व्याप्तेः सिद्धेऽपि विशेषे प्रवृत्त्यर्थिनः सच्चेदमित्य
वश्योपन्यसनीयत्वादिति किमत्र निर्बन्धेन ? ननु तथापि दृष्टान्तधर्मिणि तावत्तदनुमान
मवश्याश्रयणीयं व्याप्तिसाधनाय, 25b तदेव च990 क्षणभङ्गसाधनं स्वधर्मिणः,
एवं सति साध्यधर्मिण्यपि तदुपन्यस्यैव निर्वृतिरालम्ब्यताम्, किमियता प्रयासेन
विभागेन तदनुमानावतारणम् ? तेन च व्याप्तं सत्त्वं प्रतीत्य सत्त्वात् 991पक्षे क्षणभङ्ग
इति ।

यद्येवं विपर्ययबाधकप्रमाणवादिनोऽपि समानः पर्यनुयोगः, तेनापि यद् यदा
यज्जननस्वभावमित्यादिप्रयोगस्य व्याप्तिसिद्धावपेक्षणात्, साध्यधर्मिणि सामर्थ्या
नपायाच्च तस्य । तस्मात् प्रतिपत्तुः प्रवृत्तिभेदमाश्रित्य विभागोऽत्र कर्तव्यः, यो हि प्रति
वस्तु यो यज्जननसमर्थः इत्यादिकमवतारयन्992 क्षणिकतापरीक्षणक्षमः, तस्य तत एव
क्षणभङ्गसिद्धिः किमन्यहेतुना ? एवं परप्रतिपादनेऽपि प्रत्येकवस्तुषु तथैव साधयतः
कृतमन्यहेतूपन्यासेन । यस्तु तदपेक्षया प्रतिबुद्धबुद्धिः स एकत्र तत्साधनव्यापारेण
63
न्यायेन993 सर्वस्य क्रियावत इयमेव गतिरिति क्षणिकतया तद्व्याप्तिमनवधारयन्
प्रत्येकं तन्न्यायावतारणप्रयासमनाविशन्नेव यथा स्वयं994 यं यमर्थक्रियासमर्थं995 पश्यति,
तं तमस्थिरं स्थापयतीति सत्त्वहेतोरुपयोगः, तथा परप्रतिपादनेऽपि तन्न्यायसिद्ध
व्याप्तिकं सत्त्वमेव व्यापारयतीति न दोषः । तदत्र प्रतिवस्तु तन्न्यायावतारणप्रयासः
असह्य एव । अगतिकतया त्वाद्यः प्रतिपत्ता तमेवाश्रयेत् । द्वितीयस्तु सप्रज्ञतया996
एकत्र प्रवृत्तेन तन्न्यायेन झटित्येव क्रियामात्रमस्थैर्यपरतन्त्रमवधारयन् सत्त्वेनैव
परमपि प्रतिपादयति, न तु तन्न्यायस्य क्वचित् क्रियावति क्षणभङ्गसाधनसामर्थ्य997
प्रतिघातः, नापि सत्त्वादिसाधनबन्ध्यतैव,998 साध्यधर्मिण्यप्रवर्तिततन्न्यायप्रत्युपन्यासा
दित्यलं999 बहुना ।

तदेवं व्याप्तिर्व्यापकस्य व्याप्यवति भाव एवेति कर्तृधर्मान्वयरूपव्याप्तिसंपादित
सामर्थ्यादेव सत्त्वहेतोः क्षणभङ्गसिद्धिरप्रतिहतेति किमत्र विपर्यये 1000बाधकप्रमाणोप
न्यासेनेति समर्थितम् ? अतएव तदुपन्यासाशक्यतापि न पीडयति1001, विपर्ययस्यैव
बाधकेन साध्यस्य सिद्धत्वात् ।1002 शास्त्रेऽपि प्रथमनियमे च व्याप्तिरन्वयरूपा बीजादि
वदनेकान्तपरिहारव्याजेन1004 विस्तरतः प्रसाधिता । स्फुटतरमनुद्भेदात्तु व्यतिरेकलक्ष
णायाः परिकरमात्रमेतदारोपयति लोक इति ॥

अत्रापि तीर्थिकवचनविक्रान्तिकृतं कौतुकमस्ति व्यतिरेकरूपायामेव व्याप्तौ ।
तदापि

नाप्येकैव विधाऽन्यदापि

किं तु1005
परकृद्1006, वा भवेत्

स्थिराभिमतस्यान्यदा पूर्वं पश्चाद् वेति क्रमनिर्देशः ।
नैव क्रिया वा भवेत्

अन्यदा नैवेत्यबधारणान्न पूर्व1007 नापि पश्चात् क्रियेत्यक्रमनिर्देशः, यदि तु प्राक्
64
पश्चाद् वा स्यात् कदाचित् क्रिया, तदा क्रम 26a एवेत्यसङ्कीर्णमनयोर्लक्षणमाख्यातं
भवति । यद्यपि चैकस्या एव समसमयां क्रियामपेक्ष्य यौगपद्यं भिन्नसमयमपेक्ष्य क्रमः,
तथाप्यपेक्षणीयभेदादसङ्कर1008 एव पितापुत्रवत् । अक्रियाग्रहणेन च 1009वस्त्वभाव एव
वा सर्वथास्तु, क्रियाशून्यं वा स्वरूपमवशिष्यतां मतभेदेन, नात्र निर्बन्धः । तत्र
नाप्येकैवेति पूर्वपरयोरेकत्वमात्रविवक्षया जातिनिर्देशः, पूर्वा परा वा पुनरेकानेका
वा1010 क्रिया स्यात् । एकदा क्रियापक्षे वोभयमप्यक्रमशब्दवाच्यतां 1011नातिपतति ।
तत्राप्यनेकक्रियैव तात्त्विकी, पुञ्जात्पुञ्जोत्पत्तेस्तात्त्विकत्वात् । 1012शङ्कामात्रेणानवकॢप्त्या
वा एकक्रियाभिधानम् । अतएव यौगपद्यशब्देन तस्याप्युपलक्षणादक्रमसंगृहीत एवार्थो
यौगपद्यपदेऽप्यवगन्तव्यः1013 शास्त्रे । एतस्य च कार्यगतस्य प्रकारद्वयस्य कर्तुः क्षणभङ्ग
एव सङ्गतिरित्यत्यन्तीभावावधारणया1014 वृत्त्या नित्याद् व्यावृत्तिरुक्ता । प्राधान्येन
क्षणभङ्गसङ्गतिरित्यक्षरं तु नित्यादिव क्षणिकादपि सा व्यावृत्तिः1015 शक्नोति लक्षयितुम् ।
अथवा व्याप्यस्य वा तत्रैव भाव इत्यनुकरणार्थम् । एतेन नित्यस्य क्रमयौगपद्याभ्याम्
अर्थक्रियाविरोधात् तल्लक्षणं सत्त्वमवहीयते, अतः क्षणिकत्व एव विश्राम्यति तेन1016
व्याप्यत इति क्रमयौगपद्यलक्षणव्यापकानुपलम्भाद् विपर्यये बाधकात् सत्त्वस्यार्थ
क्रियाशक्तिलक्षणस्य क्षणिकत्वेन व्याप्तिसिद्धिरित्युक्तं1017 भवति । तत्र कर्तृधर्मो यदार्थ
क्रिया, तदार्थक्रिया शक्तिरिति वा व्यवहार एकार्थः । केवलं कर्मधर्मस्य1018 क्रमयौग
पद्याभ्यां व्याप्तौ कथं कर्तृधर्मस्य व्याप्तिव्यवहार इति स्यादाशङ्का । तत्रापि क्रमाक्रमिक
कार्यविषयतया व्याप्यमाना कारणशक्तिः क्रमाक्रमव्याप्तेत्युच्यते व्यवहारलाघवार्थ
मिति ॥

एतेन कृत्वा करणलक्षणं क्रममाश्रित्य क्षणिकादयं क्रमो निवर्तयितुं शक्य1019
इत्यसारप्रबन्धं त्रिलोचनचोद्यं1020 निरस्तम् । अर्थक्रियाविरोधादित्यत्र चार्थक्रिया कर्तृ
धर्म एव वेदितव्यः, तल्लक्षणं सत्त्वमिति वचनात्1021

अथवा लक्षणमुपलक्षणं न स्वभाव इति कर्मधर्मोऽप्यस्तु । तदत्र पक्षे क्रमा
क्रमाभ्यामुपलक्षितार्थक्रिया नित्यस्य1022 विरुध्यत इत्यर्थः । प्रथमपक्षे तु क्रमाक्रमेणोप
लक्षितार्थकारित्वं नित्यस्य विरोधीत्यर्थः । क्रमयौगपद्याभ्यामिति तु 1023विशेषणान्न
65
शेषाभ्यनुज्ञाशङ्का, हेतुत्वार्थमुपादानात् । यस्मात् क्रमाक्रमाभ्यामेवार्थक्रिया ततो1024
नित्यस्य विरोधिनी, क्रमाक्रमातिक्रमादित्यर्थात् ॥

कः पुनरत्र विरोधः ? न तावत् सहानवस्थानमुभयोवस्तुत्वप्राप्तेर्नित्यं सदेव
स्यात्1025

नापि द्वितीयः । नित्यं हि तद्विपरीतेनानित्येन1026 विरुध्येत1027 । क्रमाक्रमव्याप्ता
1028चार्थक्रिया अनर्थक्रिययैव1029 विरुध्यत इति चेत् ? प्रमाणबलेन नित्येऽत्यन्तं 1030तस्या
बाधसाधनाद् विरोध एव प्रमाणान्तरबाधाद्वेति वचनात् । वस्तुतस्तु परस्परपरिहार
एव निष्ठास्यति1031 । किं 26b पुनः प्रमाणं 1032अक्षणिकेऽर्थक्रियाबाधकमिति चेत् ?
यद्यत् क्रमयौगपद्यवत्यामर्थक्रियायां नोपयुज्यते तन्नार्थक्रियाशक्तम्, यथा1033 हरिपदार
विन्दम् । नोपयुज्यते च नित्याभिमतो1034 भावः क्रमाक्रमधर्मिणि कर्मणीति व्यापकानुप
लम्भः । न हि क्रमाक्रमाभ्यामन्यः प्रकारोऽस्ति, येनार्थक्रियासंभावनायां ताभ्याम
व्याप्तिरस्या भवेत् । तस्मादर्थक्रियामात्रानुबद्धतया तयोरन्यतरस्य प्रकारस्य उभयो
रभावे चाभावात्ताभ्यामस्या व्याप्तिसिद्धिरिति पक्षीकृते तयोरभावे चार्थक्रियाशक्त्य
भावसिद्धौ1035 नानेकान्तस्तावत्1036

तत्र यत् शङ्करः क्रमाक्रमाभ्यामर्थक्रियानिषेधे प्रकारान्तरेण संभावयन्नाह—
न च तृतीयस्य प्रकारान्तरस्याभावसिद्धिः, विशेषनिषेधस्य शेषाभ्यनुज्ञाविषयत्वादिति,
तन्निरस्तम् । 1037हेतुत्वार्थवचनेन यत्तूपलभ्यस्वभावत्वे नात्यन्ताभावसिद्धिरुपलभ्य
स्वभावत्वादेव पटादिवत्1038, अनुपलभ्यस्वभावत्वे तु नासत्तानिश्चयो विप्रकर्षिणामिति
कथं प्रकारान्तराभावनिश्चयस्तन्निमित्तायोगादिति विप्लवते1039 ? तत्र यद्यादरः, हन्त हतः
1040प्रकारेयत्तापरिच्छेदद्वारेण तत्त्वव्यवस्थाननिबन्धनः स्वर्गापवर्गमार्गानुष्ठानभेदः ।
यदा हि प्रकारद्वये तृतीयः शङ्क्यते, त्रये चतुर्थश्चतुष्टयादौ पञ्चमादिः, तदा सर्वत्रानन्त-1041
प्रकारत्वे 1042प्रकारद्वयत्रयादिनियमकृतं तत्त्वव्यवस्थानं कुतः1043, यथा चत्वारि प्रमाणानि,
षट् पदार्थाः ? यदा च प्रमाणप्रकारशतमन्यदपि संभाव्यते, तदा चतुर्भिर्यन्न सिद्धं
तदन्येन सिद्धं, चतुःसिद्धं चान्येन बाधितमिति कथं तद्द्वारेण तत्त्वव्यवस्थितिः1044 ?
66
एवं यदार्थसहस्रे द्रव्यादिव्यतिरेकिणि सिध्यति तत्त्वपरिनिष्ठाविप्लवात्1045 किमभ्युदय
निःश्रेयसयोर्वात्माऽनुष्टेयमस्तु1046 ? कथं चानित्यस्य1047 ज्ञानकारित्वाकारित्वपक्षौ दूषयित्वा1048
निर्वृतमनेन स्वयमेवं प्रकारेण1049 प्रकारशतस्य निषेद्धुमशक्यत्वात् ?

किं च पशवोऽपि यदयुक्तं पश्यन्ति न तदैव तदाचरन्तीति कथमनेन साहसमिद
मनुष्ठितम्1050 ? अनुपलब्धेर्दृश्यविशेषणापेक्षाभ्यां प्रकारद्वैतं नियम्य क्रमाक्रमाभ्यां
द्वैतनिराकरणं1051 नाम, प्रकारान्तरस्योपदर्शयितुमशक्यत्वादिति तु क्रमाक्रमेऽपि द्वैत
वादिनां नाशक्यम् ।1052 तस्मात् किमप्ययं जल्पमहोदधिनामपरिपुष्टये 1054विचेष्टताम्,
एकनिषेधेनापरविधाने तावदशक्याभिधानः प्रकारान्तरसंभवः ?

किं च एककालक्रियानन्तरं क्रियान्तरस्य भावे क्रमव्यवहारोऽभावे चाक्रम
इति भावाभावयोरपि तृतीयशङ्केति महत्तार्किकत्वम्, तदलं निर्बन्धेन । स्थितमेतत्
क्रमाक्रमाभ्यामर्थक्रियाशक्तेर्व्याप्तिरेवेति ।

यदपि त्रिलोचनः कश्चित् सहकारिप्रत्ययः प्रत्यक्षः । परोक्षश्चेतरः । 27a ततः
प्रत्यक्षपरोक्षसहकारिप्रत्ययसाकल्यमसर्वविदा प्रत्यक्षतो न शक्यं प्रत्येतुम् । तथा च
सति सादृशसहकारिप्रत्ययसाकल्यवतः1055 क्रमयौगपद्यस्यात्यन्तपरोक्षत्वात् तेन व्याप्तं
सत्त्वमपि परोक्षमेवेति कथं प्रतिबन्धः प्रत्यक्षेण1056 सिध्यतीत्याह, तदपि निरुपयोगम् ।
कार्यधर्मौ हि क्रमाक्रमौ प्रतिपादितौ । ततः कारणसामग्र्याः साकल्यासाकल्यनिश्चया
भावेऽपि क्रमयौगपद्यनियमः कार्याणामध्यक्षगोचर1057 एव । एकदैव 1058कार्योत्पत्तिरन्य
दापि नेति कथमगोचरः प्रत्यक्षस्य ? तदापि1059 हि कार्यमेकमनेकं वा स्यात् । प्रत्यक्षेण
वा तथा गृहीतमनेकसंभवेऽपि चैकं गृहीतमस्तु, सर्वथा1060 क्रमाक्रमाभ्यामेव व्याप्ता
कार्यनिष्पतिरिति सिद्धमेतत् ।

ननु क्षणभङ्गपक्षे नार्थक्रियाप्रतीतिः, नापि क्रमाक्रमप्रतीतिरिति कथं व्याप्ति
व्यवस्था ? तथा च शङ्करः, क्षणिकत्वे सति सर्वसंवित्तीनां स्वभावनियमेन हेतुफलयोः
स्वरूपान्वयव्यतिरेकासिद्धौ सर्वत्र तद्भावस्यावगन्तुमशक्यत्वात्,1062 न हि1063 कार्य
संवित्त्या तस्य हेतुभावे भावः प्रतीयते, तदा तस्य हेतोरतीतत्वात् । नापि हेतुसंवित्त्या
67
कार्यस्य तद्भावे भावोऽवसीयते, तदा तस्यानुपपत्तेरेव, न चातीतानागतयोर्वर्त
मानेन सिद्धिरतिप्रसङ्गात् ।1064 नापि कार्यसंवित्त्यैव हेतुस्वभावसंवित्तिः, अदृष्टान्वय
व्यतिरेकस्यापि धूमेऽग्निजन्यत्वविनिश्चयप्रसङ्गात् । 1066एतेन हेतुमात्रसंवित्त्या कार्य
संवित्तिरपास्ता । हेतुव्यतिरेके तु कार्यव्यतिरेकः 1067स्वसंवित्तिवादिनो मनोरथस्याप्य
विषयः, तस्य हेत्वभावे कार्याभावप्रतिपत्तावुपायासंभवात् । नहि तच्च नास्ति तेन च
प्रतिपत्तिरिति न्याय्यम् । तदयं कार्यस्य हेतुसद्भावे भावं 1068तदभावे चाभावं प्रतिपद्य
मानोऽवस्थितं 1069प्रतिसन्धातारं प्रसाधयतीति । एवं च यद्यवस्थिकर्तृसिद्धिः, तदा
साधरणानेकान्त एव मौलः1070 सत्त्वहेतुः, किमत्र विपर्ययबाधकप्रमाणोपन्यासः
करिष्यति ? तदनिष्टौ1071 तु व्याप्तिग्रहानुपपत्तेः सन्दिग्धविपक्षव्यावृत्तिकत्वमुभयोरपि ।
यथा च क्रमिणी हेतुफले प्रत्येतुमशक्ये एवं फले अपीति न क्रमप्रतीतिः, नापि यौग
पद्यस्य ।

यथाह स एव, नापि1072 यौगपद्यस्य, भिन्नाकारेण ज्ञानेन प्रतिनियताकाराणां
यौगपद्यस्याशक्यसाधनत्वात्1073 । न तावद्भिरेव ज्ञाने यौगपद्यं प्रत्येतव्यम्, तेषामितरे
तरासंवेद्यत्वे सन्तानान्तरवत्1074 युगपद्भावस्यासिद्धेः । न चैकमनेकाकारम्,1075 स्वभाव
भूताकारभेदे 1077भेदस्यावश्यंभावित्वात् । भेदे तु विज्ञानस्याकारेभ्योऽर्थान्तरत्वप्रसङ्गे
न विषयस्य तदाकारत्वं समर्थितं भविष्यतीति ।

अत्रोच्यते, प्रतिसन्धातृस्वीकारस्तावदसंबद्धः1078, प्रतिसन्धेयाभिमताभिर्बुद्धिभिर्भेदा
भेदविकल्पाक्षमत्वात् । अभेदे 27b हि स एव वा स्याद् बुद्धय एव वा ? अत्र
च प्रथमपक्षे कर्मणः, पक्षान्तरे 1079कर्तुरभावात् कः प्रतिसन्धानार्थः ? भेदेऽपि बुद्धिभ्यो
भिद्यमानस्य जडस्य कः प्रतिसन्धानार्थः ? बुद्धियोगाद् द्रष्टृवत् प्रतिसन्धातृत्वमिति
चेत् ? बुद्धिरेव तर्हि द्रष्ट्री प्रतिसन्धात्री चेति नियतस्वीकारे तद्योगादन्यस्य
तथात्वमिति किमनेन याचितकमण्डनेन1080 ? बुद्धीनां कर्तृत्वाभावादिति चेत् ? तद्
द्वारेणापि तर्हि तस्यात्मनो द्रष्टृत्वादिव्यवहारानुपपत्तिः । यदि हि बुद्धिर्हेतोः फलस्य
वा द्रष्ट्री स्यात्, तदानन्तर्यप्रतिनियमस्य चानुसन्धात्री कल्पिका, तद्योगात्तस्य द्रष्टृत्वं
68
प्रतिसन्धातृत्वं वोच्यत इति स्यादपि । प्रतिविषयमलब्धविशेषायां च बुद्धौ संबन्धोऽपि
न विशेषं व्यवहारयितुमीशः, अधुना निबन्धनाधिगन्ता, अधुना फलस्य, इदानीं
प्रतिसन्धातेति । तथाविधबुद्धिगतविशेषस्वीकारे तु किमपरेण1081 कर्तव्यम् तावतैव
पर्याप्तत्वाद् व्यवहारस्य । स्थिरात्मानमन्तरेण1082 सैव बुद्धिर्न स्यादिति चेत् ?

केनैवं प्रतारितोऽसि ? अहो मोहमाहात्म्यं यदीदृशानपि परवशीकरोति ।
तथाहि नेदमिदमन्तरेणेति1083 यदुच्यते तत् खल्वन्यत्र प्रत्यक्षानुपलम्भाभ्यां सामर्थ्याव
धारणे सति युज्यते, वह्नेरिव धूमे । चक्षुरादिवद् वा दृष्टकारणसामग्र्ये1084 कार्यादर्शने
पश्चाद् दर्शने च किञ्चिदन्यदपेक्षणीयमस्तीति सामान्याकारेण । आद्यः पक्षस्तावन्ना
स्तीति व्यक्तम् । द्वितीयोऽपि न संभवी । नहि कारणबुद्धिसमनन्तरं कार्यबुद्धौ सत्यां
निश्चयप्रवृत्तस्य इदमस्यानन्तरं दृष्टं मयेति प्रतिसन्धानमदृष्टपूर्वं, कदाचिद्, यतोऽन्यस्य
सामर्थ्यपरिकल्पनं स्यात् । एवं स्मरणमप्यनुभवात् कुतश्चित् परम्परया शक्तिपरिणाम
द्वारेण, कुतश्चित् साक्षात् तत् परिपाकबलादिति ।

1085अन्यस्यानुभवे तर्हि कथमन्यस्य न स्मृतिः ।
अन्यस्येति न संबन्धी सिद्धश्चोद्यं किमीदृशम् ॥

अनुभवादिभ्यो 1086भिन्नसंबन्धिसिद्ध्यधिकरणविवादप्रक्रमे तमेव सिद्धमास्थाय
पर्यनुयोग इत्यसंबद्धमेतत् । तत्सिद्धौ हि विवादपर्यवसानात् का परापेक्षा ? तस्मादन्य
स्येति विवादपदत्वादपनीयानुभवे कथं न स्मृतिरिति 1087परिशिष्यमाणं न प्रकृतोपयोगि ।
एवं तु युज्यते चोद्यार्थः । 1088यद्देहसंबद्धोऽनुभवस्तदन्यत्र देहे कस्मान्न स्मृतेरुदय इति ?
एवं च 1089वदता यत्क्षेत्रसम्बन्धि बीजं तदन्यत्र क्षेत्रे किं नाङ्कुरजन्मेत्युक्तं भवति । स च
कुतस्त्यो न्यायः ?

ननु कार्यकारणभावमात्रादनुभवस्मरणयोर्न काचिदपरा प्रत्यासत्तिः, न च
कार्यकारणभावेऽयं नियमो, यदाधारमेव कारणं तदाधारमेव कार्यमिति, विषयादत्यन्त
दूरेऽपि ज्ञानकार्यदर्शनात् । एवं तर्हि नाङ्कुरस्यापि कार्यतामात्रादपरा प्रत्यासत्तिरिति
ज्ञानमिवाङ्कुरं दूरेऽपि बीजं जनयेत् । ननु बीजारम्भिणः 28a एव परमाणवः
केचिदङ्कुरे समवायिकारणतां प्रतिपद्यमानाः कथं क्षेत्रान्तरेऽङ्कुरमुत्पादयितुमीशते ?
69
भवतस्तु1090 तथाविधप्रत्यासत्तिविरहात् । विज्ञानादिना साधारणं कार्यत्वमस्येति दूरेऽपि
जननप्रसङ्गोऽनिवार्य इति चेत् ? कस्मात् पुनरङ्कुर एव कार्ये बीजपरमाणवः समवायि
कारणतां प्रतिपद्यन्ते न ज्ञानादौ, कार्यत्वेन सर्वेषामेकरसत्वात् ? ततः सर्वेषामङ्कुरवत्
तद्देश एव जननं, ज्ञानादिवद् वाङ्कुरस्यापि दूरे जननं, कार्यत्वेनाविशेषात्1091,
तद्वदेवाङ्कुरेऽपि निमित्तकारणत्वाद् बीजस्य ।

ननु यत्रैव कार्ये बीजपरमाणवः समवायिकारणतां प्रतिपद्यन्ते स एवाङ्कुरः,
तत् कथमङ्कुरादन्यत्र तेषां समवायिकारणता1092 चोद्यते ? एवं तर्हि कार्यत्वेनैकरसतया
समवायिकारणताया दुष्परिहरत्वादङ्कुरैकरूपत्वं सर्वेषामेकदेशता च1093 1094प्रसह्यायातेति
स्थाने फलितं परिहारप्रत्याशया । यदि च कार्यत्वेन 1095सर्वेषामविशेषः कार्याणाम्,
कारणानामपि सर्वेषां कारणत्वेनाविशेष इति विश्वस्य वैचित्र्यमत्राणम्1096
तस्मात्कार्यत्वे सत्यपि न रीतिरेकैव सर्वेषामिति । यथा1097 निसर्गभेदात् क्वचित् किञ्चित्1098
समवायिकारणत्वेन क्वचिदसमवायिकारणत्वेन1099 क्वचिन्निमित्तकारणत्वेनोपयुज्यते
भवतः, तथास्माकमपि किञ्चित् कार्यं समानदेशमेव हेतुरुत्पादयति, किञ्चिद् व्यवहित
देशम्, कार्यं च किञ्चिन्नियमेन हेतुदेश एवोत्पत्तिधर्मकं किञ्चिदन्यथा । तथैकत्र1100 कार्ये
प्रत्यभिज्ञासंभवो नान्यत्र कार्यत्वाविशेषेऽपि दीपान्तरवत् ज्ञानवच्च1101 । तादृक् कार्या
पेक्षया च यत्र भवतः समवायिकारणव्यवस्था, तत्रोपादानकारणव्यवहारोऽस्माक
मात्मादेरन्यत्र । तथाविधहेतुफलपरम्परायां1102 च एकत्र सन्तानव्यवस्थानमन्यत्र
सहकारित्वमात्रमिति प्रक्रियाभेदेऽपि कार्यद्वैतं तादृग् 1103निसर्गसिद्धमस्तीति भवतोऽप्य
शक्यमतिक्रमितुमिति स्थितमेतत् । तथाभूतभेदसंभवे च 1104यत्कार्यकरणाधिकरण
एवोत्पत्तिधर्मकं तत्कथमितरत्रोत्पद्यते ? कारणं वा स्वाधिकरण एव शक्योत्पादनं कार्यं
कथमन्यत्र जनयेत् ? तदयमनुभवोऽपि स्वाधिकरणजन्यं स्मरणमङ्कुरमिव बीजात्1105
कथमन्यत्रोत्पादयेत् ? स्मृतिर्वानुभवाधिकरणनियतोत्पत्तिरङ्कुरवत् कथमन्यत्रोत्पद्येत,
यतो देहान्तरे स्मरणप्रसङ्गः चोद्यमवकाशमासादयेत् ? आत्मवादे तु दुष्परिहरमेतत्,
व्यापिनस्तस्य तेनैव स्मृतिजननरूपेण देहान्तरेऽपि स्थानात् । अदृष्टाश्रयणं च नित्य
स्यैवेति । बीजाङ्कुरवदनुभवस्मरणयोर्न्यायो1106 नान्यवदिति कथमवगन्तव्यमिति चेत् ?
70
बीजाङ्कुरयोरपि स न्यायस्तथादर्शनादेवावसीयते1107, तथा नियमदर्शनं चानुभवस्मरणयो
रप्यस्ति, न ह्यन्यदेहेऽनुभववति1108 28b अन्यमूर्तिः स्मृतिमती नाम ।

ननु देहः कथमनुभववान् ? तदाधारतया तत्कारणतया तेन सह समानकारणतया
वा संबन्धविवक्षास्तीति न क्षतिः । किं चात्मनोऽपि कथमनुभववत्त्वम् ? समवाय
बलादिति चेत् ? ननु समवायोऽपीहेतिबुद्धिहेतुरिष्यमाण इहेतिबुद्धिनिबन्धनकल्पन
एव । अस्ति चेह शरीरे बुद्धिः, अतः1109 किं न समवायकल्पनापि ? अयुतसिद्ध
त्वाभावात् शरीरबुद्ध्योः पृथगेव प्रतीयमानत्वादिति चेत् ? ननु पृथक्प्रतीयमानयोरिहेद
मिति प्रतीतिनियमः, उपर्यधोभावेन हि भावद्वये परिदृश्यमाने परस्परासङ्करेण
सप्तमीप्रथमयोर्निर्देश उपपद्येत, यदा तु पृथग्दर्शनमेव नास्ति तदा कथमिहेदमिति
भेदेन निर्दिशन् प्रेक्षावत्ताया न हीयते ? समवायविषये1110 क्वचिदपि भेदस्यादृष्टेरिति1111
चेत् ? अतएव स्वयमिहेति बुद्धिं विकल्पमात्रत्वेन इच्छया1112 1113निर्वर्तनयोग्यामुत्पाद्य
समवायो नाम कल्प्यते ।

इहेति बुद्धेः समवायसिद्धिरिहेतिधीश्च द्वयदर्शने स्यात् ।
न च क्वचित्तद्विषये द्वयेक्षा स्वकल्पनामात्रमतोऽभ्युपायः ॥

तेन 1114चासंविद्यमानस्यैवात्मनो बुद्धिमत्ताव्यवहार इति बन्ध्यापुत्रेण तुरगशृङ्गस्य
1115खोलिघटनवृत्तान्तमनुहरति । यत् खलु यावतोपयोगेन1116 कल्पितं तावत उपयोगस्य
अन्येन सिद्धिरेव तस्याभावः, सिद्धश्चात्मनोऽपि स्मृत्याद्युपयोगोऽन्यथेति । तस्मात् नैक
कायस्थोऽनुभवः कायान्तरे स्मरणकरणाय प्रभवति ।

ननु क्षणिकत्वे देहान्तर एव स्मृतेरुदयात् कथमिदं शक्यपरिहारम्, जन्मान्तर
परिग्रहे वा ततः सन्तानान्तरत्वेनाभिमतेऽपि देहे किं न प्रसङ्गोऽन्यत्वस्याविशेषादिति
चेत् ? ईदृशं देहान्तरे स्मृतिजननमात्मनोऽपि दुष्परिहरम्, ततोऽन्यत्रापि तत्प्र
सङ्गोऽन्यत्वस्याविशेषादिति समानम् । यद्यपि च 1117कायस्य क्षणिकत्वं नेष्टम्, आशु
नाशित्वं पुनस्तैरिष्टमेव, ततः समानो दोषो यद्भयादात्मवादस्वीकारः । अथात्मवादे
तस्यात्मनः कर्मणाभिसंस्कृत एव देहे स्मृतिजननमिति न दोषः, नैरात्म्यवादे तु कस्य
तत् कर्म ? शारीरातिरिक्ता हि बुद्धिरेव क्षणिका संभवति । अतएव च न कर्तृक्षणस्य
71
तत्कर्मसुखदुःखादि संवर्तनीयम्, तस्य तदुपभोगाभावात् । यस्य च क्षणस्योपभोगः1118
सोऽकर्तेति कृतनाशाकृताभ्यागमदोषस्त्वतिरिक्तो भवतु, न तु1119 कस्यचित् कर्मसिद्धिर्यतः1120
प्रकृतदोषपरिहारः स्यात् । न च सन्तानोऽपि गीयमानो भिन्नः कश्चिदस्ति । न च
कर्मापि भिन्नं भवतामस्तीत्यभित्ति चित्रकर्म ॥

अत्रोच्यते । कर्तृक्षणस्य तावत् तत्कर्म तत्फलोपभोगाभावेऽपि नापह्नवसहम् ।
नहि 1121दाहादिकमकुर्वतो29a त्पादितेन वह्निना तद्वान् न भवति नरः । अन्तिम
क्षणस्यापि तत्कर्मोपकारकतया संबध्यते परम्परया, तत1122 एवोपभोगभागित्वात् ।
एककालता तु कार्यकारणयोरपि न संभवति, संभवति च मेरुमन्दरयोः । तस्मादुप
कारद्वारकमेव1123 भेदे तस्येदमिति घटनम्, स चोपकारोऽन्तिमस्य1124 तत्कृतो महानस्ति,
तन्मध्यवर्तिनां च तत्सन्तानवर्तिनां क्षणानां तादृगन्तिमक्षणप्रसूतिसामर्थ्यं साक्षात्परं
परया वा, 1125तत एव कर्मण इत्युपकारद्वारक एव तेषामपि तत्सम्बन्धः । एवं च
सर्वेषां कर्मसम्बन्धव्यवस्थितौ स्थितायां तत्कर्माधिपत्येनोपनीयमान1126 एव शरीरे
तत्कर्माभिसंभूतानां1127 बुद्धिदेहक्षणानामुदयः, नान्यत्र तादृक् प्रत्यासत्तेरभावात् । कर्म
च कामं न भिन्नमस्ति व्यतिरेकीव?च निर्देशोऽपि व्यवहारानुरोधेन1128 । यस्तु प्राक्तनः
कर्मसंबद्ध इत्युच्यते क्षणः, स तादृग् विशेषभूतो1129 जातः, यतः पर्यन्ते तत्फलोप
भोक्तृक्षणप्रसवसमर्थसन्तानसंभवः, तदनुरूपशरीरसन्ततिसंभवश्च1130 । तत्राद्याद्
विशिष्टाद् यौ बुद्धिदेहक्षणौ 1131अल्पतमविशेषयोगिनावुपजातौ1132 संभूयोत्तरावल्पतर
विशेषौ1133 जनयतः, तौ 1134चाल्पविशेषावुत्तरौ जनयत इत्यनया दिशा तावच्छक्तिलक्षण
विशेषप्रकर्षस्तरतमादिभावेनोपचीयते यावदन्तिमजननसमर्थोदयस्ततोऽन्तिम इति ।
एकसामग्र्यधीनतया परस्परानुबद्धयोर्बुद्धिदेहयोरन्यपरम्परां प्रति विशिष्टयोर्नैकव्यति
रेकेण द्वैतीयिकशङ्कावकाशः । जन्मान्तरपरिग्रहेऽपि तदायुःसंस्कारक्षीणे1135 क्षीयमाण
मूर्तिक्षणान्तरसहकारिणा मनःक्षणेन 1136जनितं तस्यानुरूपं वपुरन्यत् पूर्ववन्मनसः
साहायकमातनोतीति न देहान्तरे स्मृतिभोक्तृत्वचिन्तावकाशः । न चात्र सन्ताननाम्ना
भिन्नेन किञ्चित्, क्षणानां कर्मसंबन्धसिद्धिद्वारेणैव सन्तानेऽपि 1137सिद्धेरप्रतिबन्धात्,
72
तेभ्यस्तस्य व्यतिरेकात् । न च मुख्यतः सन्तानद्वारेण सिद्धान्तोपक्रमः, किं तु
क्षणद्वारेणेति सर्वमवदातं मूलपरिशोधनादिति ॥

1138यदुक्तम्,

यस्मिन्नेव हि सन्ताने आहिता कर्मवासना ।
फलं तत्रैव बध्नाति कर्पासे रक्तता यथा ॥
1139

इति, तत् स्वाभिमतसन्तानलक्षणप्रसिद्धौ ॥

यत्तु न्यायभूषणकार एतद् दूषयान्नाह—न, साधनदूषणासंभवात्, अन्वयाद्य
भावान्न साधनम् । न हि कार्यकारणभावात् स्मृतिः कर्पासे रक्ततादिवदित्यन्वयः
संभवति । नापि यत्र न स्मृतिः तत्र न कार्यकारणभाव इति व्यतिरेकोऽस्ति । असिद्ध
त्वाद्यनुद्भावनान्न दूषणम् । न हि पूर्वबुद्ध्यनुभूतेऽर्थे उत्तरबुद्धीनां स्मृतिः संभवति,
ततोऽन्यत्वात् सन्तानान्तरबुद्धिवदित्यस्य हेतोः कर्पासे रक्ततावदित्यनेन 1140न कश्चिद्दोषः
प्रतिपाद्यत 29b इति । 1141तदसमीक्ष्याभिधानम्, साधनार्थापरिज्ञानात् । न हीह
श्लोके कार्यकारणभावः स्मृतौ हेतुत्वेनोपन्यस्तः प्रतीयते । किं तर्हि ? कर्मवासना ।
वासना हि कर्मणाभिसंस्कारः । वसितं ह्यभिसंस्कृतमुच्यते । कर्मकृतो विशेषो यत्र
सन्ताने उत्पादितस्तत्रैव भोगादिफलबन्धो, नान्यत्र । यत्र नासौ विशेष इति प्रतिज्ञाय
कर्पासे रक्तता यथा इति वदतः1142 संस्कारसन्तानभेदो वा हेतुरभिप्रेतः, साध्यं
चान्यत्र1143 भोगादिफलनिषेधः, तत्सन्ताने तत्फलयोग्यता च प्रतीयते । तदयं प्रयोगः,
यो यः संस्कारः क्वचित्सन्ताने आहितः स तत्रैव फलदानयोग्यो नान्यत्र । यथा
कर्पाससन्ताने बीजावस्थायां रागद्रव्ययोगजनितः पुष्पावस्थायां फलावस्थायां वा 1144रागं
फलमुन्मीलयितुं योग्यो नान्यसन्ताने ।

संस्कारश्चायं दानादिकर्मजनितश्चित्तसन्तान इति । स्वभावहेतुरेव समुदाय
साध्यापेक्षया1145 । संस्कारमात्रानुबन्धिनी हि तत्सन्ताने फलदानयोग्यता अन्यसन्ताने
सर्वथा तदयोग्यता चेति1146 निमित्तान्तरानपेक्षणात् । एकैकसाध्यत्वे तु प्रथमे स्वभाव
हेतुः । द्वितीये तु विरुद्धव्याप्तोपलब्धिः, स्वाधारादन्यसन्ताने फलदानविरुद्धेन स्वाधार

73
सन्तान एव फलदानेन व्याप्तस्य संस्कारत्वस्योपलब्धेः । तत्र यदि संस्कारेऽपि सति
तत्र1147 सन्ताने फलदानयोग्यता निमित्तान्तरमपेक्षेत1148, प्रयत्नेन संस्कारघटनमनर्थकं
स्यात् । अन्यसन्तानेऽपि फलदानसामर्थ्ये च1149 द्वितीयप्रयत्नवैयर्थ्यम् । 1150न चैकाम
लक्यां क्षीरावसेके सर्वामलकी मधुरफला । तस्मात्स्वसन्तान एव फलदानेन व्याप्तिः
संस्कारस्येति नानेकान्तः । संस्कारश्च कर्मकृतो विशेषश्चेतस इत्यागमसिद्धमभ्युपगम्यैव
चोद्यवत् समाधानमपीति नासिद्धिः । सपक्षे भावान्न विरोधो व्याप्त्यसिद्धेर्वा । अथवा,
यो यः सन्तानः स स्वाधिकरण एव संस्कारे फलदानयोग्यो यथा कर्पाससन्तानः,
सन्तानश्चायं चित्तसन्तान इति पूर्ववत् ॥

स्मृत्थादिफलापेक्षयाऽप्ययमेव न्यायः1151 । यदि सन्तानद्वारेणेयं व्यवस्था, तदा
1152विद्यायोनिसंबन्धप्रसिद्धेऽपि सन्ताने प्रसंगः । ततो गुरुणानुभूतादौ शिष्यस्य
स्मृत्यादिः स्यात्, एवं पितुरनुभवादौ पुत्रस्य भवेत् । नैतादृशः सन्तानोऽत्र विवक्षितः
उपादानोपादेयभूतहेतुफलपरम्परारूपः । किं पुनरुपादानोपादेयलक्षणम् ? एकाधारता
नियमोऽसति विचारकारणे1153, विचारेऽपि1154 तद्योग्यतानियमः । विचित्रा हि कार्य
कारणपरम्परोपपादिता पूर्वम्, तत्रैवंलक्षणा परम्परा सन्तान उच्यत इत्यपि सूचित
मेव । न चैवं गुरुशिष्यचेतसोः पितापुत्रमनसोर्वा अस्तीति नातिप्रसङ्गदोषो न्याय
भूषणीयः । सन्तानोपादानव्यवस्थयोर्वान्योन्याश्रयदोषः1155, उपादानव्यवस्थाया
स्तदनाश्रयत्वप्रतिपादनात् ।

अथवा अभ्रान्त 30a संमतैकावसायः प्रकृतिविक्रिये उभौ1156 हेतुफलस्योपा
दानोपादेयलक्षणम् । हेतुफलसन्ततौ इदमुपादानमिदमुपादेयमिति प्रत्यभिज्ञाप्रत्ययेन
लक्षितं वेदितव्यम्1157 । विसभागोत्पत्तौ तु प्रकृतिरुपादानस्य विकृतिरुपादेयस्य लक्षणं
स्वभाव1158 एव । प्रकृतिविकृतित्वं वा लक्षणमिति भावप्रधानो निर्देशः, काष्ठयूपवत्
काष्ठाङ्गारवच्च । अनेकोत्पत्तावपि भिन्ना एव भागा उपादानम् । यथा 1159धूम उष्मा
दीनामङ्गाराणाम्, बुद्धावप्येकपुरुषप्रज्ञप्तिरेकावसायः । अस्ति च विषयोपरागं विवेच्य1160
चैतन्यमात्रमामृशत एकपुरुषाभिमतायां सन्ततौ सैवेयं बुद्धिरित्यवसायः । 1161ते पुन
रत्राशेषस्वरूपाननुकारात्, अनुकारसंभवेऽपि स्तम्भान्तरवदेकावसायो भ्रान्त इति न
74
पितापुत्रादावुपादानादिव्यवस्था । 1162तदेवमुपादानादिलक्षणमनपेक्ष्य1163 तादृक्सन्ततौ
उपादानादिव्यवस्थायां कृतायां कीदृशे1164 सन्ताने आहिता कर्मवासनेति जिज्ञासायां
यत्रोपादानादिव्यवस्थेति भणितौ न दोषः ।

यत् पुनरयमेवाह—न, सम्बन्धविशेषाभावे कारणमात्रविशेषादुपादानेतर
विभागानुपपत्तेः, यथास्माकं जनकत्वाविशेषेऽपि 1165समवाय्यसमवायिनिमित्तकारण
विभागः संबन्धविशेषात्, न तथा तव कारणानामुपादानेतरविभागं पश्याम इति ।
एतदपि दूषितमेव, कारणत्वसामान्येऽपि कार्यापेक्षया विभागस्य दर्शितत्वात् । कार्य
कारणयोरन्योन्यविशेषानपेक्षणे1166 हि संबन्धद्वारेणापि व्यवस्थादौस्थ्यमापादितम् ।
न च समवायः क्षम इत्यपि लेशेन सूचितमेव । तस्मान्न संस्कारसन्तानयोर्दूषणं
किञ्चित् ।

यद्यपि चात्र श्लोके कर्मवासनाशब्दः प्रयुक्तो न चास्यार्थः कर्पासमन्वेति1167,
तथापि वासनार्थोऽभिसंस्कारस्तावदन्वेतीति स एव हेतुः सूचितो ग्राह्यः । अथवा
कर्मशब्देनापि क्रिया । यत्र सन्ताने यया कयाचित् क्रियया कृतोऽभिसंस्कार इत्यर्थः ।
एतेन व्याप्तिप्रदर्शनम्, पक्षधर्मस्तु प्रस्तावाद् बोद्धव्यः । ततः कार्यकारणभावं साक्षात्
स्मृतौ प्रतिपादकमादाय यदुक्तं तत्सर्वं विप्लुतम्, कार्यकारणभावाश्रयविशेषान्वयिनी1168
तु स्मृतिरित्यनवद्यम् ।

यत्पुनरस्य साधनं न पूर्वबुद्ध्यानुभूतेऽर्थे1169 उत्तरबुद्धीनां स्मृतिर्भवत्यन्यत्वात्,
सन्तानान्तरबुद्धिवदिति, तत्रोत्ररबुद्धीनां धर्मिणीनां भिन्नस्मृतिरूपबुद्धिसम्बन्धो
निषिध्यत उत 1170स्मृतिरूपत्वमेव तासां वार्यते, अथ स्मृत्या फलवत्यस्ता न भवन्तीति
प्रतिपाद्यते ? प्रथमपक्षस्तावदयुक्तः1171 । न ह्यन्या स्मृतिरन्या च स्मृतिमती मतिरिष्यते
अस्माभिर्यन्निषेधः1172 स्यात्, अपि तु स्मृतिरूपैव सा मतिरिति । अथाश्वस्य स्मरतो
गवेक्षणकाले तद्दर्शनं1173 स्मृतिमद् भवतीति चेत् ? तत् किं तदवस्थाया एव स्मृते
र्निषेधो 30b विवक्षितः ? केवला तु यदि स्मृतिर्भवति तदा भवतु । नैवं चेत् ?
किमनेन तर्हि उत्तरबुद्धीनामिति सहचारनिर्देशेन ? अथानुमानार्थं धर्मिनिर्देश एव
इति चेत्—न, प्रकृताभिमतसाकल्यसिद्धेः1174 सर्वथोत्तरकालं स्मृतिनिषेधस्येष्टत्वात्
75
पक्षैकदेशासिद्धिः साधनस्य । 1175अथाशक्तिदशायां केवलस्मृतिकाले निषेधो नेष्ट 1176एव ।
तर्हि विनात्मानमुत्तरकालं 1177स्मृतिसंभवे बुद्ध्यन्तरसहचारकालेन किमपराद्धं यत्
तत्रैव निषेधः ? नापि व्याप्तिविषये किञ्चिदस्ति बाधकम् ।

द्वितीयपक्षे तु उत्तरबुद्धीनां स्मृतित्वनिषेधे किमनुभवस्यैव स्मृतित्वमथ 1178पूर्व
बुद्धीनाम् ? सर्वथा निषेधे तु किं विशेषनिर्देशेनेति पूर्ववत् ।

तृतीये तु विकल्पे एवमेव विशेषनिर्देशवैयर्थ्यं समर्थनीयम् । अथ विशेष
निर्देशस्योपलक्षणत्वात् सर्वैवानुभवादन्या बुद्धिर्न स्मृतिरूपा, नापि स्मृतिमुत्पादयति
इत्यभिमतम् । अनुभवस्य न हि तथात्वं1179 निषिद्धम्, तत्तोऽनुभवः स्मृतिरूपः स्मृतिं
चोत्पादयतीत्युभयमप्यनिष्टमासक्तम्1180 । अन्यथाऽनुभवादन्यतया विशेषणमनर्थकम् ।
अनर्थकमेवास्तु, सर्वेषामेव ज्ञानानां धर्मित्वमस्तु । तदाप्यनुभवादन्यत्वं हेतुः पक्षैक
देशासिद्धः1181, अनुभवस्यैव तदन्यथाभावात् । अथोत्तरग्रहणं विवादपदत्वेन न त्वन्य
व्यवच्छेदेन, अन्यासां तु बुद्धीनां बौद्धेनापि स्मृतिभावानिष्टेः । तथापि तृतीयपक्षे
नेदमुत्तरम्, अनुभवस्यापि विवादपदत्वात् । नैरात्म्यपक्षे ह्यनुभवोऽपि साक्षात्
स्मृतिमुत्पादयतीत्यनिष्टमेव भवतः । बौद्धस्य पुनरिष्टम् । तदयमनुभवस्य स्मृतिजनकत्वं
न स्वीकर्तुं शक्तोऽप्रियत्वात्, न परिहर्तुम्, हेतोः पक्षैकदेशासिद्धेरिति1182

1183अस्तु चैवमुभयपक्षेऽपि तु व्याप्तिर्न शक्या । तथा हि यस्या उत्तरबुद्धेः
स्मृतित्वं स्मृतिजनकत्वं वेष्यते, तस्या यदि तदुभयप्राप्तावनुभवादन्यत्वहानिरुपपादयितुं
पार्यते न पर्यवस्यतु1184 व्याप्तिस्तदन्यत्वस्य तदुभयनिषेधेन । न चैवं शक्यम् । अनुभवा
दन्यत्वहानावनुभवत्वमेव, तच्च कथं स्मृतित्वे वक्तुं शक्यम् ? स्मृतिजनकत्वे च तदुच्य
मानमनुभवस्य स्मरणहेतुत्वमनपनीय न विश्राम्यति । प्रतिबन्धसिद्धौ हि प्रसङ्ग
सङ्गतिः । एवमुत्तरकालभावित्वादयोऽपि नाशङ्क्याः, शक्यप्रतीकारत्वात् तद्वदेव ।
अनेकान्तस्तु हेतुदोषो व्याप्तेरभावात् । तस्माद् यदि चोद्यचुञ्चुतायां 1185भरस्तदैवं ब्रूयाः ।
अनुभवमात्रात् कर्ममात्राद् वा स्मरणभोगादि जन्यं1186 चेत्—1187भिन्नसन्तानेऽपि
जन्मप्रसङ्गः, न चाभिमतेऽपि । यद् येनाविशिष्टसामर्थ्यासामर्थ्यं तत् तेनाविशिष्ट
फलाफलत्वम्, यथा बीजोर्वीजलज्वलनपवनादिसामग्रीद्वयम् । अविशिष्टसामर्थ्या

76
सामर्थ्यं च सन्तानद्वयमनुभवादपीति स्वभावहेतुः । अत्र च1188 सिद्धिः यस्मिन्नेव हि
इत्यादिना दर्शितैव, कर्मवासना 31a इत्यादिना कर्पासवत् संस्कारविशेषस्य
व्यक्तमुक्तत्वात्1189 । यथा प्रथमं प्रथितमस्माभिः । एवमनुभवात् स्मृतिरिति समान
न्यायम् ।

अथवा पूर्वोक्तहेतावयं पर्यनुयोगः, किमनुभवस्मरणादेरेव1190 परम्परया हेतुफल
संमतस्यायं न्यायोऽन्यत्वान्न जननमिति, अथान्यस्यापि ? यदि तावत् प्रकृतस्यैवायं
1191यौतुकलब्धो1192 न्यायः तदा युक्तिः काचिदभिधीयताम्, यतः सामान्यसिद्धं क्रममति
क्रम्यायमत्र विशेषो गम्येत । सन्तानान्तरेऽदर्शनादिति चेत् ? यद्विशेषपरम्परया
जननमन्यत्वे 1193तदभावे तददर्शनं भवेत्, यथारक्तबीजकर्पासे रागादर्शनम् । न च तावता
सर्वत्राजननमिति शक्यम् ॥

द्वितीयपक्षे त्वसिद्धेरुद्भावनमेतत् । रक्ते बीजेऽन्यस्यापि तत्सन्तानभुवः पुष्पस्य
फलस्य वा तत्फलरागदर्शनात् । यत् पुनः कार्यकारणभावेन स्मृतिमाशङ्क्य नानात्व
स्यावञ्चनादित्युक्तम्, अत्रापि1194 त्रपा तपस्विनो एकतः क्षिप्ता तद्वचनेन, यदि संस्कृत
कर्पासे कार्य वार्येत सर्वं शोभते । तदयं1195 सामान्यसिद्धो न्यायः । पृथक्त्वेऽपि
विशेषान्तरापेक्षं फलमेकत्र सन्ताने भवति नान्यत्रेति प्रकृतेऽपि वारयितुमशक्यः ।
श्लोकेन चानेन साधनं दूषणं वा संपादितमित्यास्तां तावत् । तत् सिद्धमवस्थितैका
भावेऽप्यनुभवभावितसन्तानसंस्कारेण स्मरणम् । न च प्रत्यक्षेणानुभवस्मरणयोः
क्वचिदेकाधारत्वं दृष्टम् ।

यदप्यत्रोक्तम्, न, दृष्टत्वात् । तथा हि पूर्वं यमर्थमेवानुभूतवानहं तमेतर्हि स्मरामि,
योऽहमनुभविता सोऽहं1196 स्मर्तेति अनुभवस्मरणयोरभिन्नाधारत्वं लिङ्गसम्बन्धस्मृत्थन
पेक्षमाप्तोपदेशानपेक्षं च निश्चिनोति । न चेयं भ्रान्तिर्विसंवादाभावात् । सुखादेरपि
प्रत्यक्षत्वमपह्नवानो नाक्षजेन1197 प्रतिबोधयितव्यः । तथा चानुसन्धानेच्छाद्वेषादीना
मप्येककारणत्वं प्रत्यक्षतो गृह्यते, यमहमद्राक्षं1198 तमहं पश्यामीति । तं दृष्ट्वाहमिच्छामि
द्वेष्मि वा । तमिच्छन् द्विषन् वा प्रयते । यतमानोऽहं तमर्थं प्राप्य सुखी दुःखी वा
संवृत्तोऽस्मीति । तदेवमहमित्येतस्मिन् ज्ञाने योऽर्थश्चकास्ति तदधिकरणः स्मृत्यनु

77
सन्धानेच्छादयः प्रत्यक्षतः प्रतिभान्तीत्यतः प्रत्यक्षेणात्मा गृह्यते । न ह्यहमिति1199 ज्ञानं
सन्दिग्धं भ्रान्तं वा । नापि लैङ्गिकं शाब्दं वेति । तदपि मिथ्यापरितोषमात्रम् । तथा
हि विकल्पस्तावदयमस्त्यहमेव द्रष्टा स्मर्ता चेति1200 । न च सर्वो विकल्प आश्वासविषयः ।
तथा चायं चतुर्धा दर्शितः त्रिलोचनेनापि ।

तत्र प्रत्यक्षपृष्ठभावी तावन्न भवति, प्रत्यक्षान्तरस्य तद्ग्राहकस्य स्वयमप्यनङ्गी
कारात्1201, यस्यायं पृष्टभावी वर्ण्येत । लैङ्गिकत्वमपि स्वयमेव निरस्तम् । तद् यदि
अवस्तुकः सन्दिग्धवस्तुको वा भवन् भवता प्रमाणीक्रियते, कस्य कियती क्षतिः ?

अथैभ्यो भिन्नः पञ्चमोऽयं प्रत्यक्ष इष्यते । सर्वस्य तर्हि स्वाभिमते प्रमाण
विरहिणि1202 विषये सुलभ एव न्यायः 31b इति न क्वचित् सिद्धिप्रतिबन्धः ।
संवादेन1203 विशेष इति चेत् ? स पुनः संवादोऽर्थक्रियाप्राप्तिः1204 प्रमाणान्तरवृत्तिर्वा
स्यादिति निरूपितप्रायम् । प्रमाणान्तरभावे च1205 तदेवास्तु किमनेन ? अर्थक्रिया च
नावस्थितसाध्या काचिन्निश्चिता, सर्वस्या बुद्धिशरीराभ्यां सिद्धेः । नापि तदतिरिक्त
गोचरोऽहंप्रत्ययः । यथा हि1206 सोऽयं चैत्र इत्यत्र1208 चैत्रशरीरे एव1209 उपाध्यवस्थाकृतं
भेदमविगणय्य पूर्वापरकालयोरेकत्वेन प्रत्यभिज्ञायेते, तथा अहमेव द्रष्टा स्मर्ता
चेत्यनेनापि प्रत्ययेन । केवलमयं बुद्धिद्वारकः समुदायव्यपदेशः, यथा योऽहं मूर्ख आसं
स पण्डितोऽस्मीति । कश्चित् पुनर्देहद्वारेण व्यपदेशो यथा गौरः पीनो वाऽहमिति,
एकदेशेन समुदायव्यपदेशस्य प्रसिद्धत्वात् । कश्चित् पुनरुभयद्वारको यथा मया राज्यं
कृतं मम दुर्गतिरित्यादि यथायथमूह्यम् । सुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मद्वारका अपि
बुद्धिकारका 1210एव व्यपदेशाः, अहं सुखी यावदहं धार्मिक इति बुद्धिव्यतिरेकाभावात्
तेषाम् । मुखं शरीरं वाऽस्यास्तीति भेदनिर्देशोऽपि समुदायैकदेशभेदविवक्षया, यथा
वृक्षस्य शाखा । अत एव मुखमहमिति न भवति ।

कथं तर्हि मम मतिमूर्ती इति ? यथा शिलापुत्रकस्य शरीरम् । तर्हि बुद्धिशरीरे
इत्यपि स्यात्, शिलापुत्रकः शरीरं1211 राहोः शिर इत्यपि किं दृष्टम् ? यथा च1212 तत्रैव
द्वितीयात्माभावेऽपि ममात्मेति व्यवहारस्तथा समानं1213 प्रथमात्माभावेऽपि 1214मम बुद्धि

78
देहाविति । यथा च नाहमात्मेति तथा नाहं बुद्धिशरीरे इति । अहमात्मेत्युक्तार्थत्वान्न
प्रयोगार्हमिति1215 चेत् ? एवमेवाहं बुद्धिशरीरे इत्युक्तार्थम् । न 1216चेष्टामात्रपराधीनेषु
ध्वनिषु निर्बन्धो बुधानामित्यास्तां तावत् ।

तदयमस्मच्छब्दो वक्तुः परनिषेधपरः, नतु मतिविग्रहौ विहाय वस्त्वन्तरपरः ।
तयोश्च बुद्धिविग्रहयोर्भूतभविष्यतोरपि वर्तमानेन एकाध्यवसायान्मयैव दृष्टं1217 मयैव
स्पृष्टं स्मृतं1218 चेति प्रयुज्यते । तस्मात् सोऽयं चैत्र इतिवदुभयपुञ्जस्य पूर्वापरकालयोरेकता
रोपमात्रमेतत्, नार्थान्तरोल्लेखः । चैत्रेप्यात्मैव प्रत्यभिज्ञायत इति चेत्—न, अदृष्टे
प्रत्यभिज्ञानाभावात्, बुद्धिविग्रहावेव हि दृष्टौ । यद्यपि च1219 परबुद्धिरनुमेया तथापि
अत्यन्ताभ्यासादस्यामध्यक्षवद्1220 व्यवहारदर्शनान्न दोषः । मित्रामित्रयोर्दर्शनमात्रादेव
हि तदनुरूपानुष्ठानमुपलब्धम् । न च तत्र लिङ्गरूपानुसरणादिपरिलम्भोऽस्ति । नापि
कलेवरमात्रप्रतिपत्तौ तादृगनुष्ठानम्, मृतमूर्तावपि प्रसङ्गात् । सर्वशरीरव्यापार
प्रयोजकतया च जन्मनः प्रभृति बुद्धेरात्मनि दर्शनमेव परत्रापि तत्सहचराभ्यासबीजं
सततं सन्निहितमस्ति । न चैवमात्मनो दर्शनमभ्यासबीजमस्ति, 32a सर्व
व्यापारस्य 1221शरीरचैतन्याभ्यामेव पर्यवसानात् । तस्माच्चैत्रशब्दगोचरौ चित्तकायावेव
सोऽयमिति प्रत्यभिज्ञायेते । तथास्मच्छब्दविषययोस्तयोरेव प्रत्यभिज्ञानमात्रमेतन्मया
दृष्टं मया स्मृतमिति । मया कृतं मया मोक्ष्यत इत्यपि एकत्वाध्यवसायमात्रं1222 तयोरेव ।
तदत्र पक्षे प्रत्यक्षपृष्ठभावी विकल्पोऽयमाश्वासविषयः, सत्तामात्रे एकत्वे पूर्वपरक्षणाना
मवस्तुकः, अतिरिक्तविषयत्वे तु स्फुरत्यप्यर्थे1223 अलीकानलीकशङ्कासंकरात् सन्दिग्ध
वस्तुकः कथं प्रत्यक्षसिद्धतामात्मनः प्रयोजयेत् ?

यच्चानेनाप्युद्घुष्यते1224, अभिन्नसंबन्धिन इच्छादिभेदा ममेत्यकप्रतिसन्धान
विषयत्वादेकनर्तकीप्रतिसन्धानविषया इव प्रेक्षका इत्यनुमानम् । तदप्यतितरलहृदयता
मेव द्योतयति । नहि नर्तकी तत्त्वत एकरूपा काचित्, चैतन्याधिष्ठितपरमाणु
समूहमात्रत्वात्1225 । व्यवहारसिद्धमेकत्वमुपादाय दृष्टान्तसिद्धौ दार्ष्टान्तिकेऽपि व्यवहार
सिद्धमेकत्वं केन बार्यत इति1226 । न च1227 सर्वात्मना दृष्टान्त इति चेत् ? सत्यमेतत् ।
तात्त्विकं पुनरेकत्वं कस्य सामर्थ्येन समर्थ्यताम्, दृष्टान्ते तदन्वयदर्शनात्तेन व्याप्त्य

79
सिद्धेः1228 । दृष्टान्तदृष्टेनापि हि प्रमाणबलावलम्बिनी व्याप्तिः सिद्ध्यति । अदृष्टेन तु
तत्सिद्धिशङ्कापि नास्ति । तस्मान्न सर्वात्मना साधारणो दृष्टान्त इति वार्तायामपि1229
साध्यसाधनाभ्यां साधारणस्तावदवश्यकर्तव्यः । न हि 1230व्याप्तिप्रदर्शनादन्यो दृष्टान्तस्य
अर्थः, न चानुपदर्शितेन दृष्टान्ते साध्येन व्याप्तिसाधनमादर्शितं भवति । न चैकावयवि
सिद्ध्या साध्यशून्यतापरिहारो हारी । शरीरबुद्ध्यादिराशितया नर्तक्याऽवयवित्वा
भावात् । शरीरापेक्षया त्ववयविदूषणमेव जागर्ति । आत्मापेक्षायां तु सोऽद्यापि न
सिध्यति, विपर्ययबाधकाभावाच्च नानेकान्तशान्तिः1231 । ममेति प्रतिसन्धानं हि विकल्पतया
अनाद्यविद्यावशादपि प्रत्यभिज्ञानवत् 1232संभवत्कथमेकसंबन्धाधीनतां1233 स्वीकुर्यादिति ?

तदेवं यथास्मृति कर्मफलसंबन्धादिकमशेषमवस्थातारमन्तरेणापि न विपत्ति
मासादयति1234 क्षणिकवादिनः, तथा कार्यकारणभावबुद्धिरपीति न साधारणानेकान्त
शङ्काकलङ्कः ।

शङ्करस्तु वाचाटतया किमपि नाटयति1235 । तथा हि, कदाचिदुपलम्भपूर्विका1236
धूमबुद्धिः तेजःकार्यमिदं कपोतकण्ठधूसरं वस्त्विति निश्चयमुत्पादयति, कदाचित्
तदुभयोपलम्भपूर्वकस्तदनुपलम्भः । अनुपलम्भोऽपि प्रतियोगिवस्तूपलम्भस्वभावतया
अध्यक्षरूप एव अन्वयः पुनरनुपलब्धिनिष्ठायां विहित इति तत्रैवावधार्यः । अन्वय
व्यतिरेकग्राहकप्रत्यक्षानुपलम्भनीतिरपि1237 त्रिकपञ्चकचिन्तायां दर्शितेत्यास्तां तावत् ।

प्रकृतं तू ब्रूमः । उभयथापि क्रमभाविनीषु बुद्धिषु 32b 1238पूर्वपूर्वया संस्कार
विशेषाधानादन्तिमा1239 बुद्धिरेतस्येदं कार्यमिति मतिमुत्पादयितुं पूर्ववन्निर्वहतीति
नावस्थितस्यानुरोधः प्रतिसन्धातुः ।

यत्पुनरुक्तम्, व्यतिरेको मनोरथस्याप्यविषय इति, तदतिसाहसम् । नहि यदेव1240
प्रत्यक्षं वस्तुग्राहिं वस्तुद्वयनिवृत्तौ1241 तदेव तयोर्व्यतिरेकमपि गृह्णातीत्युच्यते, किं तु
तद्विविक्तप्रतियोगिवस्तूपलम्भस्वभावं प्रत्यक्षान्तरमेव । ततो यदुक्तं तच्च नास्ति तेन च
प्रतिपत्तिरिति न न्याय्यमिति क्वोपयुज्यते ? न चैवं स्वसंवित्तिवादोपलम्भसंगतिः ।
यदप्युक्तं1242 पूर्वोत्तरयोः1243 क्षणयोः संवित्ती, ताभ्यां वासना, तया हेतुफलाध्यवसायी
80
विकल्प इति चेत् ? तत् किमिदानीं यत्किञ्चिदाशङ्कितेन वक्तव्यमित्येवं 1244विधिरनुष्ठीयते
भवता ? विकल्पो हि गृहीतानुसन्धानमतद्रूपसमारोपो वा स्यात् ? न तावत् पूर्वः
पक्षः, अदृष्टान्वयव्यतिरेकस्य पुरुषस्य हेतुफलभावाग्रहेऽनुसन्धानप्रत्ययहेतोर्वासना
विशेषस्यैवानुपपत्तेः । अगृहीतस्य चानुसन्धानेऽतिप्रसङ्गादिति ।

तदेतन्न समीचीनमालोचितम् । यतो हेतुफलभूतपूर्वोत्तरक्षणयोरनुभवेन
क्रमिणापि स्वरूपसाक्षात्करणात् हेतुफलत्वे गृहीते एव, केवलं हेतुकाले फलाभावात्
तद्विषयसामर्थ्यग्रहणेऽपि फलादर्शनात् तदवसाय1245 एवाप्रवृत्तः कार्यदर्शने प्रवर्तते1246
तथा फलावलोकनेऽपि तत्कार्यता गृहीतैव विकल्पेनानुसन्धीयत इति गृहीतानुसन्धान
रूप एवायं विकल्पः अन्वयव्यतिरेकग्रहणं च प्रत्यक्षानुपलम्भाभ्यां प्रतिपादितमिति
यत्किञ्चिदेतत् ।

एतेन तदपि प्रत्युक्तम्, यदुक्तं न चादृष्टान्वयव्यतिरेकस्य हेतुफलभावो
वासनायां वासनाहेतौ च1247 सिध्यति । तत्रापि पर्यनुयोगस्याविशेषादनवस्थेति ।

अन्वयव्यतिरेकदर्शनं हि प्रस्तुतविषयं तावदुपपादितमेव । वासनाविकल्प
योरन्वयव्यतिरेकसिद्धिरध्यक्षानुपलम्भेष्वन्तिमादेवानुसन्धानविकल्पप्रवृत्तेः1248, एकाकिनः
प्रत्यक्षादनुपलम्भाद् वा प्रवृत्त्यभावात्, शक्तिस्वभावत्वाद् वासनायाः कार्यमन्तरेण
व्यवस्थानुपपत्तेः । तथा व्यवस्थितायाश्च तस्याः स्वहेतुनानुभवेनापि सहान्वयव्यतिरेक
सिद्धिः कार्यान्वयव्यतिरेकद्वारेणैव । न चाद्यं चोद्यम्,—यावन्नानुसन्धानविकल्पः
तावन्न वासनायां वासनाहेतौ वान्वयव्यतिरेकसिद्धिः, यावच्च न वासनायां वासनाहेतौ
वान्वयव्यतिरेकसिद्धिस्तावन्नानुसन्धानविकल्प इति । न ह्यनुसन्धानविकल्पो वासनायां
वासनाहेतौ 1249वान्वयव्यतिरेकनिश्चयमपेक्षते, अपि त्वनुभयवासनयोरन्वयव्यतिरेक
वत्योः स्वसन्ताने सत्तामात्रम्, तदन्वयव्यतिरेकनिश्चयस्त्वनुसन्धानविकल्पमपेक्षत
एव । तत्र यथा दहनेन्धन33a विकारान्वयव्यतिरेकनिश्चयानपेक्षस्तदपेक्षणीयो धूम
इति नेतरेतराश्रयस्तथा प्रस्तुतेऽपीत्यलं बहुभाषितया ।

अतद्रूपसमारोपपक्षे तु1250 दूषणप्रसङ्गागतमप्रस्तुततया तदनङ्गीकारेणाव
धीरितं तावत् । तस्मादव्याकुला1251 कार्यकारणभावप्रतीतिरस्थिरत्व1252 इति स्थितम् ॥

81

तत्स्थितौ च क्रमप्रतीतिरनिवारिता, अस्मिन् सतीदमस्मादुपजातमिति प्रतीतेः
क्रमावसायनान्तरीयकत्वात्1253 । अन्यथा सिद्धसाध्यविभक्तिप्रयोगस्य विषयनियमा
नुपपत्तेः । यस्माद्धेतुफलयोर्वा क्रमप्रतीतिः फलयोर्वेति न कश्चिद्विशेषः क्रमापेक्षया । यौग
पद्ये शङ्कापि1254 नास्ति, ऐककालिकानेकावलोकनानन्तरमेव1255 सकृदिमानि जातानीति1256
विकल्पस्य बौजादिवाङ्कुरस्योत्पत्तेः । न हि तदनेककार्योदयग्रहणकृतः1257 कश्चिदपराधो
विरोधो1258 क्षणिकतायाः । क्रमिकदर्शने हि स्थिरापेक्षा स्यादप्यनुसन्धानायापाततः,
सकृद्दर्शने तु किं स्थिरेण ? एवं तु स्यात्—सकृद्दर्शनेऽनन्तरमपि स्मर्तान्यः प्राप्नोतीति,
तच्च परिहृतं1259 प्राक् । तदेव वा वाच्यमस्तु, किमव्रणकण्डूयास्थानीयेन साकारवेदनदूषणो
द्गीरणेन1261 अप्रस्तुतत्वात् ? ग्रहणं चेदस्ति सकृदनेकस्य साकारेण1262 निराकारेण वा
ज्ञानेन भविष्यति, किमिदानीमेव सकलतत्त्वनिष्ठाया अनुष्ठानम् ? यदि तु सकृज्जायमाना
नेकग्रहणमेव1263 नास्तीत्यभिमतम्, तदा यथा साकारनिराकरणं तथा निराकारस्याप्यस्तु ।
अन्यथा तेनैव ग्रहणमाशङ्क्येत1264

किं चानेकग्रहणाभावोऽपि सकृत् कथमभिमतः ? किं सकृदनेकसंभवाभावात् ?
ग्रहणप्रकारासंभवाद् वा ?

प्रथमकल्पे तावत् कथं प्रदीपस्य वर्तिविकारान्धकारक्षयादयः तदा क्रियन्ते
स्वयमपि ? अस्माकं पुनरेवं सति प्रयासलाघवमेव न क्षतिः, नित्ये क्रमदूषणेनैव
साध्यसिद्धेः ।

द्वितीये तु अनेकसंभवव्यवहारः किंकृतोऽस्तु ? अनुमानकृतोऽस्तु । किं तदनु
मानमिति पृष्टो यदि व्याकरोषि तदानुमानसिद्धमेव यौगपद्यं क्रमसहायमर्थक्रिया
व्यापकमस्तु, कथं प्रकृतिविरहदोषः1265 ? अथ न व्याकरोषि, तावतैव हतोऽसि । युग
पदनेकग्रहनिग्रहे च वरमन्तःकरणस्य मनसो युगपदनेकत्र1266 प्रवृत्त्यसंभव एव प्रतिपद्यताम्,
किमनेन ?

अथानेकाकारानेकसंवेदनसंकलयिता एक एषितव्य इति मतिः ? ततः किम् ?
स्थिरस्वीकारो हि क्रमवान् नः संप्रति पीडयति, अन्यथा तु वादान्तरावतार एषः । तद्वत्
क्रमेऽपि संकलयिता सिध्यतीति चेत् ? तदपि यदि साकारनान्तरीयकं ग्रहणमिति
82
प्रमाणसिद्धं स्यात् तदा सिध्येत्, अन्यथोपगममात्रस्य 1267सुकरत्यागत्वादनाकारस्वी
कारेण निर्वहेत् परः1268 । न 33b चाकारसाधनयत्नोऽस्ति, विषयस्यैव तदाकारत्वं1269
समर्थितं स्यादिति तन्निरपेक्षमक्षरं वा कथमावक्षीत ? न चात्र 1270प्रतिसन्धातुर
स्थिरत्वाविरोधिनः स्वीकारेऽपि क्रमेऽवश्यं स्वीकारः, यथा भिन्नदेशमभिन्नस्वभावस्य
1271कार्यकरणमिच्छन्नपि न भिन्नकालमिच्छति । तस्मात् क्रमे प्रतिसन्धातृस्वीकारार्थ
मन्य एव प्रकार आश्रयणीयः । ततः1272 किमनेन ? तस्मात् कथञ्चित् गण्डोल्लासः1273
कर्तव्य इत्येवंविधिमनुष्ठितोऽनेन1274 । न चेदानीमाकारदूषणप्रतिविधेरवसर इति नेदं
प्रतिषिध्यत1275 इति ॥

ननु तथापि,

मतिः 1276साकारा चेन्न च भिदि मिथो वेदनमतः
स्फुरत्येकैवासौ तदिह न विरोधः प्रभवति ।
अतः शक्ताशक्तोऽप्यभिदिति निरस्ता क्षणिकता
न वाच्यो दोषश्चावयविनि न वा साकृतिनयः1278

नन्वत एवोक्तं नायं तत्प्रतिविधेरवसर इति । न हि 1279तदसिद्धिरवयविसिद्धिर्वा
बाधिकास्माकम् ।

नित्यत्रयानुगमनादिगुणेन कान्तः
सौत्रान्तिकस्य समयोऽपि न बाधितोंऽशे1280
नोचेन्न पुद्गलनिराकरणेन बौद्ध
सिद्धान्तबाधकृत एव कृतापराधः ॥

तस्मात्,

धियः साकारत्वं यदि मम य एवैष समयो1281
भवेद् दुष्टो मानाभ्युपनतहतिः स्यात्कथमिव ।
प्रमासिद्धं1282 तच्चेद् भवतु धिय1283 एवैष समयो
1285बहिश्चित्रेऽप्येकस्थितिरिति विलुप्तं खलु बहिः ॥
83

अर्थक्रियाभेदनान्तरीयको ह्याकारभेदः पदार्थेषु । तत्र यद्याकारभेदेऽपि नार्थ
क्रियाभेदः, हन्त प्रतिभासमात्रभेदान्नातिरिक्तं किञ्चिदिति बाह्यपदार्थापलाप एव
प्रसक्तः1286 । तदवश्यमनेन बाह्यवस्तुन आकारभेदाद्भेद एव1287 स्वीकर्तव्यो, बुद्धिर्भिद्यतां
मा वा । नहि समकक्षतापि1288 धियोऽधिगन्तुमलम् । अन्यथा स्वसंवेदनमन्यप्रकाशनं1289
च बाह्यस्यापि प्रसज्यमानं ग्राह्यग्राहकभावमेव विप्लावयेत् । तद् यदि प्रमाणसिद्धं
बुद्धेरेकत्वं 1290चित्राकारायास्तस्या एवास्तु, बाह्यं तु भिन्नाकारं भिन्नमेव । बाह्यमपि
भिन्नाकारं कथं भिन्नमिति चेत् ? भवतु त्रिभुवनमेकमेव वस्तु किमस्माकं क्षीणम् ?
पृथगर्थकर्मनियोगाद्यभावे तु न 1291गन्धर्वनगरादिवत् प्रतिभासमात्रतामतिशयीतेत्युक्तम् ।
क्वचिदेकता क्वचिद् भेद इति विभागस्यापि नैष प्रस्तावः ।

अथ बुद्धेरप्येकत्वं समयमात्रं1292 न प्रमाणसिद्धम् । तदानीं बाधविरोधी
समय इति स एव दुष्यतु1293, प्रमाणोपनीतस्तु प्रस्तुतो वस्तुभेदः1294 परस्परविरोधात् कथं
त्याज्यः ?

किं च,

हतो हेतुर्वक्तुर्यदि समयमाश्रित्य समये
तवास्त्वेष श्रेयानथ समयचिन्ता प्रवदितुः ।
न वै शास्त्रे स्थित्वा वचनमिति वक्तुश्च समयः
प्रमासिद्धै रूपैरनुमितिविधौ नागमगुणः ॥

अपि च न विरोधमात्रं भेदमस्माकं, किं तु शक्ताशक्तत्वेन । तच्चावश्यं 34a
स्वीकार्यम्1295, अन्यथा साधनदूषणसमर्थानुसरणविसरणात् पर्यवसितो वाद इति
किमपरेण ? तस्माच्छक्त्यशक्तिद्वारेण भेदो दुष्परिहरः । ततो विरोधमात्रस्य भेद
व्यभिचारेऽपि प्रकृतविशेषस्य न1296 व्यभिचारः, वस्तुमात्रस्य वह्निव्यभिचारेऽपि धूम
लक्षणवस्त्वव्यभिचारवत्1297

ननु शक्ताशक्तत्वेनापि भेदो विरोधादेव, स च व्यभिचारीति चेत् ? धूमोऽपि
वस्तुत्वादेव हेतुर्गमको, वस्तुत्वं च व्यभिचारीति समानम् । तस्माद् वस्तुत्वादेव दहनस्य
84
गमको धूम इति न1298 वस्तुत्वं परिहृत्येत्यर्थः । न तु यावद् वस्तु तावद्1299 गमकम् । एवं
शक्ताशक्तत्वं1300 विरोधादेव भेदसाधनमिति न विरोधं विधूयेत्यर्थः । न तु यावद्
विरोधस्तावद् भेदसाधकः ।

आह च,

विरोधश्चेद् भेदं व्यभिचरति भेदप्रतिपदे
विशिष्टोऽसाविष्टः प्रभवति च शक्तेतरतया ।
अशक्ते सामान्ये यदि च विशेषोऽपि1301 बलवान्
न धूमादग्न्याशा व्यभिचरति यद्वस्तु शिखिनम् ॥
विरोधादेवालं बलवदबलत्वं यदि भिदे1302
न वस्तुत्वं हित्वा हुतभुजि स धूमोऽपि बलवान् ।
अथो1303 वह्निं वस्तु व्यभिचरतु भेदोऽस्य तु बली
प्रमासिद्धापत्तिः प्रकृतविषयेऽप्येष समयः ॥

अभेदे हि शक्ताशक्तयोः सकलमाकुलम्1304 त्रैलोक्यमप्रवृत्तिनिवृत्तिकमासक्तमिति
शक्तेतरयोर्विरोधोऽवश्यं भेदसाधक एषितव्यः, 1305आकारद्वारेण भवतु मा वा ।

1306नन्वाकारभेदोऽपि शक्तिभेदनान्तरीक एवेति किंकृतो विभागः ? सत्यम्,
बाह्येषु तावदेवमेव, जलानलादिषु तथैवोपलब्धेः । अन्यथा च न बाह्यं नाम किञ्चित्
प्रतिभासमात्रावशेषात् । बुद्धेस्त्वाकारा न तावद् दाहगाहनादिष्वेवोपयोगिनो, बाह्य
कार्यत्वात्तेषाम् । 1307यत्पुनरवसायादिकार्यं तदप्याकारान्तरेण सह भेदाभेदविवादारूढ
मेवेति कथमेकत्रैकव्यापारो दर्शितः1308 ? भवतु वा किञ्चिदेकमपि कार्यम्, तत्रापि
किमपोद्धारद्वारेण एकाकारव्यापारकल्पनमथ1309 भेदादेवेति1310 चिन्त्यम् । न चास्माकं
चित्रबुद्धेरेकानेकत्वसाधने निर्बन्धः, इच्छापि साकारतामात्रे, क्षणभङ्गसाधने तु तस्यापि
न कश्चिदनुरोधः ।

अनान्तरीयके चार्थे बधितेऽन्यस्य का क्षतिः ।
प्र. वा. ४. ४७
85
इति न्यायात् । तस्मान्नाप्रतीतिकृतोऽर्थसामर्थ्यस्य1311 क्रमाक्रमस्य च व्याप्यव्यापकभाव
निश्चयः ।

यत्पुनरुच्यते, यदि क्रमेण व्याप्तम्, तदा कथमक्रमेण ? अथाक्रमेण, न तर्हि
क्रमेण । 1312क्रमाक्रमाभ्यां व्याप्तमिति ब्रुवता व्याप्तेरेवाभावः1313 प्रदर्शितो भवति । सा
हि व्याप्यस्य1314 तत्रैव भावो व्यापकस्य तत्र भाव एवेत्येवंरूपा1315, उभयोर्व्यापकत्वेन स्व
रूपं जहाति । न हि भवत्यग्निर्धूमधूमाभावाभ्यां व्याप्त इति । किमेवं वक्तरि वक्तव्यम् ?
दत्तो हि जलाञ्जलिरमुना क्रमेण1316 सकलतार्किकवर्त्मनि वर्तमानैरात्मना 34b
अनेन बहुधा1317 दत्तस्य विकल्प्य 1318दूषणराशेः । 1319अपि नामैतत्प्रकाराणां दूषणेना
सत्ताप्रतिपादनात् तत्प्रमेयमसत्स्यादिति विकल्प्य दूषणानि प्रतीयन्ते, तत्प्रकारैरव्याप्तौ
च दूष्यप्रमेयस्य तेषामभावेऽपि1320 1321नास्याभावनियम इति दूषणाभिधानेऽपि
प्रागिव1322 संशयः, तदलमुपन्यासेन । 1323तत्प्रकाराणामभावेऽभावनियमे वा स एव
व्याप्त्यर्थ इति कस्य निषेधः ? तथा च सन्तानस्य वस्तुत्वमनिच्छन् भिन्नोऽभिन्नो वेति
विकल्प्य दूषणमारभते, तदुभयाभावविभावने1324 च निर्वृण्वीतेति न भेदाभेदाभ्यां1325
वस्तुव्याप्तिमनङ्गीकुर्वन्निर्वहति । एवं त्रयादिविकल्पेष्वपीति स्थितम् । तस्मादेकैकेना
व्याप्तिः, समुदायेन तु व्याप्तिरेवेति न्यायः । यथा युधिष्ठिरादिष्वन्यतमोऽभवन्
पाण्डव एव न भवति । एकनिवृत्तौ हि तदन्यप्रकारमाश्रित्यासीत् तत्त्वम् । सर्व
प्रकाराभावे तु क्वास्ताम् ? अतो नियमवती1326 निवृत्तिर्व्याप्तिरेव ।

यदप्युक्तम्, न हि भवत्यग्निर्धूमधूमाभावाभ्यां व्याप्त इति, तदपि पापीयः ।
क्रमाक्रमाभ्यां हि कार्योदयव्याप्तिवादिनो राश्यन्तरविरहवता तद्धर्मद्वयेन व्याप्तिः
प्रस्तुता, तत् क्वेदमुपयुज्यते ? न हि क्रमाक्रमाविव कार्याणां वह्नेरपि धूमधूमाभावो
धर्मः1327 । स्वभाव एव हि धर्मिणो धर्मशब्दवाच्यः प्रकृतः । तद् यदि धूमधूमाभावाभ्या
मिति धूमवत्त्वाधूमवत्त्वाभ्यामिति1329 विवक्षितम्, तदा कः प्रतिबन्धः प्रतिबन्ध
बोधस्य1330 ? न हि दहनस्तदवस्थाद्वयविरहितः क्वचिदुपपन्नः ।

अथ यथा यथोक्तधर्मो नान्तरीयकत्वमग्नेस्तथापरभूते धूमे1331 धूमाभावशब्द

86
वाच्ये1332 च निश्चितमिति ताभ्यामपि कथं न व्याप्तिरस्य1333, सामान्यलक्षणस्याक्षीण
त्वात् ? अस्ति हि 1334धूमधूमाभावयोर्यत्राभावस्तत्र वह्नेरपि, यत्र च वह्निस्तत्र तयोरन्य
तरस्य संभवः धूमे सति 1335हुताशनप्रकाराणामिवान्यतमस्येति चेत् ? यद्येष निर्बन्धः
कस्तावदेवं दोषः, अनिष्टिमात्रस्यानङ्गत्वात्1336 ? व्याप्तिर्हि व्याप्यसंभवे 1337व्यापकप्रभेदा
न्यतमसंभवाय व्यापकाभावेन1338 नियमेन व्याप्यनिवृत्त्यर्थमर्थ्यमाना तदुभयव्यापार
व्यभिचारशङ्कायामेव दुष्यति । तच्च नास्तीति किमनिष्टिमात्रेण भवतः ? केवलं
1339विशेषलक्षणायोगान्न साक्षाद्1340 धूमतदभावाभ्यामनलस्य व्याप्तिरभिधीयते । तथा
हि दहनधूमर्योर्भेदान्न तादात्म्यम्, धूमादिभावाभावाभ्यामस्यानुत्पत्तिश्च न कार्य
कारणभाव इति धूमवत्त्वेतराभ्यामेव स्वगतधर्माभ्यामाश्रयभुजोऽञ्जसा1341 व्याप्तिः ।
तदर्थस्वीकारद्वारा तु धूमतदभावाभ्यामप्यभिधीयमाना न दोषमावहति । तद् यदि
भवत ईदृशी व्याप्तिरनभिमता विपर्ययो वाऽभिमतः, अस्तु । अस्माकं तावदयमेव
व्याप्तिक्रमो विवक्षितः, स एव च प्रकृतोपयोगी, विपक्षादत्यन्तं हेतोर्व्यावर्तनसमीहया
35a क्रमाक्रमाभ्यामर्थशक्तेः व्याप्तिवादप्रक्रमात्1342, तच्चैवमेव सिद्धमित्यलमेतावति1343
स्खलिते निर्बन्धेन । तदेवं क्रमाक्रमाभ्यामर्थक्रियाव्याप्तिसिद्धावेवार्थक्रियाभावेन क्रमा
क्रमाभावस्यापि व्याप्तिसिद्धिः, न हि व्याप्यव्यापकयास्तद्भावसिद्धिमुद्धूय व्याप्याभावेन
व्यापकाभावस्य व्याप्तावुपायान्तरमस्तीति1344 नानेकान्तः । प्रकृतव्यापकानुपलम्भस्य
व्याप्तिसिद्धौ च न विरोधगन्धः, सपक्षे भावाच्च ॥

नाप्यसिद्धिः, नित्यस्य साध्यधर्मिणः क्रमयौगपद्याभ्यां विरोधसिद्धेः । अत्र
न्यायभूषणः, यदि तावदक्षणिकानामसत्त्वं प्रसाधयितुमभिप्रेतं, तदा कस्यात्र धर्मित्वम् ?
तस्यैव1345 धर्मित्वे तस्यैवाभावसाधनमयुक्तम् । न ह्यसति धर्मिणि हेतोः पक्षधर्मत्वम्1346
न चासति पक्षधर्मत्वे गमकत्वम्1347 । तस्मादसन्तोऽक्षणिका इत्ययुक्ता प्रतिज्ञा । अथ
सन्तोऽक्षणिका न भवन्तीति प्रतिज्ञार्थः, तथापि तस्यां क्रमाक्रमविरोधादित्यस्य कथं
पक्षधर्मत्वमिति1348 ? किं चार्थक्रियाशक्तेर्नित्येन सह विरोधो व्यापकानुपलम्भादेव
मतः, व्यापकस्य तु क्रमाक्रमस्य कथम् ? अपि चैवं सत्त्वमेव1349 नित्यस्य प्रसज्यते ।
तथा च सर्वः प्रयासो विफलः ।

87

यदाह शङ्करः, विरोधसिद्धिमनुसरता विरोध्यपि प्रतिपत्तव्यः, तत्प्रतिपत्ति
नान्तरीयकत्वाद्विरोधसिद्धेः1350 । यथा दहनतुहिनयोः, सापेक्षध्रुवभावयोश्च । प्रतियोगी
चाक्षणिकः प्रतीयमानः कथं बाधकोपरोधेनार्थक्रियाकारित्वं जहाति, प्रतिपत्तिरूपार्थ
क्रियाकारित्वात् ? अतत्कारित्वे कथं प्रतीयेत, अजनकस्याप्रमेयत्वादिति बाह्येषु13511352 यथा
सारमेतल्लिखितम् ।

तथा च न्यायभूषणः, विरोध्यप्रतीतौ विरोधस्य प्रत्येतुमशक्यत्वात्, न हि दहन
तुहिनयोरन्यतराप्रतीतौ विरोधप्रतीतिरस्ति । क्रमाक्रमविरोधादक्षणिकं यदि प्रतीयते
ततः1354 कथमसत्, प्रतीतिरूपार्थक्रियाकारित्वात् ? अतत्कारित्वे कथं प्रतीयते ? न हि
त्वयार्थान्तरमजनकं प्रतीतिविषयत्वेनेष्टम् । अथाक्षणिकं नैव प्रतीयते, कथं तस्य
क्रमाक्रमाभ्यां विरोधोऽवगम्यत इति ? तदेवं नित्यस्य सर्वथाऽभावात् प्रतीत्यविषय
त्वात् आश्रयासिद्धिर्व्यापकानुपलम्भस्य । तथा स्वरूपासिद्धिश्च ॥

यदाह शङ्करः, अथ क्रमयौगपद्यायोगादक्षणिकाभावः सिध्यति, सत्तातः क्षणि
कत्वम्, एवं तर्हि तस्य प्रतिपत्तिजनकत्वात् तदवस्थमनैकान्तिकत्वमर्थक्रियाकारित्वस्य,
तस्याभावेऽपि भावात् । व्यापकाभावसिद्धौ हि व्याप्याभावोऽन्यः प्रतिपत्तव्यो 1355यथा
अग्न्यभावे धूमाभावस्तोयादिः, वृक्षाभावे शिंशपाभावस्तद्रहितो देशादिः । एवं क्रम
यौगपद्याभावे सामर्थ्याभावश्चान्यः1356 प्रतिपत्तव्यः, 35b तदसिद्धावनिश्चितव्यतिरेकेण
हेतुना साध्यसिद्धेरयोगात् । प्रतिपत्तौ तु व्याप्यव्यापकभावस्य प्रतीतिरूपार्थक्रिया
कारित्वमिति दुर्निवारः प्रसङ्ग इति ।

अतएव सपक्षे 1357सत्त्वमप्यस्य वक्तुमशक्यम् । आकाशकुशेशयस्य क्रमाक्रमा
भावस्यार्थक्रियाशक्त्यभावस्य च1358 प्रतीत्यभावात् । प्रतीतौ सर्वेषां वस्तुत्वेन मूलहेतोः
पक्षसपक्षयोरन्तर्भावप्रसङ्गात् ।

यन्न्यायभूषणः, व्यतिरेकबलेनैवास्य गमकत्वमिति चेत्—न, वैधर्म्यदृष्टान्तस्या
प्यभावात् । शशविषाणादिर्दृष्टान्त इति चेत्—न, तस्य प्रतिपत्त्यविषयत्वात् । न हि स्व
रूपेणापि यन्न प्रतीयते तत् साध्यसाधनधर्मरहितं प्रतिपत्तुं शक्यते, न चाप्रतिपन्नस्य
दृष्टान्तत्वं युक्तमिति । किं च1359 नित्यस्यार्थसामर्थ्याभावसाधनमसत्तासाधनमेतत्, तच्च
सत्तासाधनवन्न त्रयीं दोषजातिमतिपतति ।

88

तथा ह्यक्तेन क्रमेण

नासिद्धे भावधर्मोऽस्ति व्यभिचार्युभयाश्रयः ।
धर्मो विरुद्धोऽभावस्य सा सत्ता साध्यते कथम् ॥
1360

इति शङ्करन्यायभूषणौ दर्शयतः । त्रिलोचनोऽपि तदेव प्रमेयजातमुपस्कुर्वन्नाह,
क्रमयौगपद्यरहितत्वं बाधकं किमक्षणिकानामसत्तां साधयति, आहोस्विद् व्यतिरेकम्
अर्थप्रतिबन्धम् ? न तावत् पूर्वो विकल्पः, आकाशकालदिगात्ममनसां परमाणूनां
च रूपासिद्धौ हेतोराश्रयासिद्धेरसिद्धत्वात् । सोऽपि1361 व्यापकानुपलम्भो न त्रयीं
दोषजातिमतिपतति । तत्र1362 क्रमयौगपद्यरहितत्वमभावधर्मो न सिध्यत्याश्रयासिद्धे
रित्युक्तम् । न हि क्रमयौगपद्यरहितत्वस्य शशविषाणधर्मत्वं प्रेक्षावन्तः प्रतिपद्यन्ते ।
किं च यावत्तेषामसत्त्वं प्रमाणान्तरान्नावगम्यते1363 तावदभावधर्मत्वं न सिध्यति, अन्यथा
पक्षधर्मत्वसिद्धौ तेषामसत्त्वसिद्धिः, असत्वसिद्धौ च सत्यामभावधर्मत्वसिद्धिरिति
इतरेतराश्रयत्वं दुर्निवारम् । भावधर्मत्वे चास्य विरुद्धत्वं स्यात्, उभयधर्मत्वे चानै
कान्तिकत्वम्, सत्तायामिव सोऽयमसत्तायामपि तुल्यः प्रसङ्गः ।

नापि द्वितीयः कल्पः तत्रापि हि व्यापकनिवृत्तिसहिता व्याप्यनिवृत्तिः1364 व्यति
रेकशब्दस्यार्थः । 1365सा च निवृत्तिर्गमकाङ्गत्वादवश्यं प्रतिपत्तव्या भवतीति यद्यनुभवाद्
गम्यते1366 तस्य हेतुः स्यादहेतोरग्राह्यत्वादिति हेतुरनैकान्तिकः स्यात्, व्यतिरेकस्यानु
भवकारितया भावरूपत्वे साध्यकोटिनिक्षिप्तत्वात् । अन्वयव्यतिरेकयोरभावादसाधा
रणो हेतुरगमकः । तस्माद् 1367व्यतिरेकोऽवश्याङ्गीकर्तव्योऽवश्यज्ञातव्यश्च1368 ज्ञातव्यत्वे1369
तज्ज्ञानप्रसङ्गो दर्शितः ।

स्यादेतत् । व्यतिरेको न साक्षात्कारिविज्ञानग्राह्य इष्टो यतः साक्षात्कारिणो
विज्ञानस्य जनकः स्यादपि तु विकल्पयितव्यः, न च विकल्प्यमानोऽर्थः 1371स्वकीयसम
नन्तरप्रत्ययाधीनोत्पादस्य 36a 1372 विकल्पस्य हेतुरुपपद्यते, तत् किमुच्यते
हेतुरनैकान्तिक इति ?

89

तदप्यसङ्गतम्, यतः सर्व एव विकल्पो न चतुष्टयीं गतिमतिक्रामति । तथा हि
कश्चिदनुभवपृष्ठभावी नीलादिविकल्पः, अपरः सन्दिग्धविषयः पिशाचादिविकल्पः,
अन्यः पुनरसदर्थः शशविषाणादिविकल्पः, विकल्पः पुनरिह कश्चिल्लिङ्गजः । तत्र
लिङ्गजादारभ्य सर्वो विकल्पः अवस्तुनिर्भासाद् इति ब्रुवता प्रत्यक्षाभ उक्तः, यतो
वस्तुप्रतिभासं प्रत्यक्षं, स्वलक्षणाभावे तत्प्रतिभासप्रच्युतेः । न चैवं विकल्पः, तत्प्रति
भासस्य वस्तुन्यननुरोधात्1373 । तस्मात् प्रत्यक्षाभो विकल्पः । लिङ्गजस्तु यथाध्यवसेयमर्थं
प्रापयतीति प्रमाणम् । न च व्यतिरेको विकल्प्यमानो लिङ्गाभावाल्लिङ्गजेन विकल्पेन
विकल्प्यते अनुभवपूर्वकस्य च1374 विकल्पस्य पारम्पर्येण वस्तुजन्मनोऽपि न1375 वस्तुनि
प्रामाण्यम्, अनुभवस्यैव प्रमाणत्वात् । अनुभवश्च व्यतिरेकाश्रयः संप्रत्येव निरस्त इति
पारिशेष्यादसदर्थः सन्दिग्धवस्तुको वा विकल्पो निश्चाययतीति सत्त्वमविद्यमान
व्यतिरेकं सन्दिग्धव्यतिरेकं वा न क्षणिकत्वसाधनाय पर्याप्तम् ।

नापि तृतीयो विकल्पः । यतः क्रमयौगपद्यमक्षणिकात् सत्त्वमुपादाय व्यावर्त
मानं स्वेन व्याप्येन सह क्षणिकत्वे व्यवतिष्ठत इति प्रतिबन्धसिद्धिर्व्यतिरेकसिद्धिपूर्विका
गम्यते, व्यतिरेकश्च पूर्वोक्तेन क्रमेण निराकृत इति ।

तदेवम्,

नित्यं नास्ति न वा प्रतीतिविषयं तेनाश्रयासिद्धता
हेतोः स्वानुभवस्य चाक्षतिरतः क्षिप्तः स्वपक्षोऽपि च ।
शून्यं च द्वितयेन सिध्यति न वा सत्तापि सत्ता यथा
नो नित्येन विरोधसिद्धिरसता शक्या क्रमादेरपि1376

इति दूषणसंग्रहः ।

तत्रामी एवं पर्यनुयुज्यन्ते,

धर्मस्य कस्यचिदवस्तुनि मानसिद्धा
बाधाविधिव्यवहृतिः किमिहास्ति नो वा ।
क्वाप्यस्ति चेत् कथमियन्ति न दूषणानि
नास्त्येव चेत् स्ववचनप्रतिरोधसिद्धिः1377
90

न हि कस्यचिद् धर्मस्य विधिनिषेधव्यवहारो नाम संवादवान् वस्त्वेकनियतः,
किं त्ववस्तुन्यपि1378 । अथावस्तुनि नास्त्येवेति भक्तिः, तत्र कथमेतदिति पर्यनुयुक्तो न
राजशासनमाश्रित्यैव स्थेयमिति यदि किञ्चिद्धेतुमुपाददीत कथमाश्रयासिद्धिपरिहारः ?
1379मूकीभूयावस्थानं सति वचनसामर्थ्ये नोचित इति यत् किञ्चिल्लपतो न प्रतिमल्लः ।
नापि पररतेन प्रतिपादितो भवति ।

किं चावस्तुनि 1380नास्त्येव विधिप्रतिषेधव्यवहार इत्येवं वदतैव अवस्तुनि निषेध
व्यवहारः स्वीकृतः, हेतौ परं परो वञ्चितः, न हि निषेधमवधूय नञोऽन्यदर्थसंभावना,
स च निषेधो यदि न प्रमाणसिद्धः, कथमाद्रियते ? किं वास्य वचनेन ? प्रमाणसिद्धि
स्वीकारे च न तावदध्यक्षमेवावस्तुनिषेधयोः साधनम्, अध्यक्षस्य तद्विषयविरोधादर्थ
सामर्थ्यापेक्षणात् । अनुमानाश्रये तु1381 36b 1382 आश्रयासिद्धिरशक्यपरिहारेति ।
अतोऽवस्तुप्रस्तावे मूकतैव प्राप्ता । न च प्रतिज्ञामात्रस्याप्यवकाशः । न चैवं शक्यं
यावन्न राजदण्डेनावस्तुप्रस्ताववारणम् । प्रस्तावे त्ववश्यं सता संभविनो वचनमनुषङ्गि
पर्यनुयोगसंभवात्1383 । वचनस्य च1384 विधिनिषेधाभ्यां नापरो व्यापारः1385 । ततो न
वचनं नावचनमिति महति कष्टसङ्कटे प्रवेशः ।

तथा च संप्रत्येव नित्येऽन्तरालकमलवत् क्रमाक्रमाभावात् नार्थसामर्थ्यमिति1386
प्रस्तावेनावस्तुनि1387 कस्यचिद्धर्मस्य 1388विधिनिषेधाविति विदुषापि भवता न मूकीभूय
स्थातुं शक्यम्, किं तु कृत एव निषेधो बौद्धाभिमताया असति क्रमाक्रमाभावेन
सामर्थ्यनिवृत्तेः1389

निवृत्त्यभावस्तु विधिर्वस्तुभावोऽसतोऽपि सन् ।
तदभावस्तु1390 नास्तीति पश्य 1391धार्ष्ट्यविजृम्भितम् ॥
प्र. वा. ४. ५५३

इत्यन्तरश्लोकः ।

अथ नित्यस्य 1392कोष्ठशुद्ध्या वस्तुत्वान्न प्रमाणान्निषेधविरोधः कस्यचिद्धर्मस्य,
तत् किमिदानीं गगननलिनस्यापि कोष्ठशुद्ध्या वस्तुत्वमेव ? वस्तुत्वे वा नावस्तुको
91
विकल्पः सङ्कल्पयितुं शक्यः । तदवस्तुनि नभस्तामरसे 1393क्रमादिविरहादर्थक्रियासामर्थ्य
विरहोऽस्तु न वा ? उभयथापि नावस्तुनि विधिः1394 प्रतिषेधो वेत्यस्याः प्रतिज्ञाया
निर्वाहः1395 । कथमेतदिति प्रमाणगवेषणे च प्रत्यक्षाभावेऽनुमानमाश्रीयमाणमाश्रयासिद्धि
ग्रस्तं समस्तम्, अप्रमाणवचनमात्रस्य चानपेक्षितत्वात् प्रश्नकृता प्रेक्षेण1396 । न चोभया
भावोऽभिधातुं शक्यः, विधिनिषेधयोर्भावाभावस्वभावादेकनिषेधेनापरविधानात् ।
विधिनिषेधो हि निषेधः 1397प्रतिषेधश्च विधिस्तत् कीदृशोऽपरः ? 1398अस्तु चोभय
निषेधप्रतिज्ञाहेतोरुपादीयमानस्य नाश्रयासिद्धिपरिहारः ।

यच्चेदमुक्तम्, कोष्ठशुद्ध्या वस्त्वेव नित्यमिति, ततः किम् ? न हि तद्वस्तु
त्वेनैव1399 धर्मि, आश्रयासिद्धिदूषणस्यानवकाशप्रसङ्गात् । परोपगमापेक्षयेदमुच्यत इति
चेत् ? प्रसङ्गहेतुस्तर्हि अवस्तुत्वान्नित्याश्रयासिद्धः1400 क्रमादिविरहो न हेतुरित्यर्थः ।
एवं च सत्यवस्तुनि हेतुराश्रयासिद्धत्वेन व्याप्तो वक्तव्यः, न हि प्रतिबन्धमन्तरेण
कश्चिद्धेतुः । पक्षधर्मतामात्रे परोपगमापेक्षया तु प्रसङ्ग उच्यते, न तु व्याप्तावपि तदुप
गम एव । कदाचिदेवमपि स्यादिति चेत् ? तथापि न परेणावस्तुनि हेतुराश्रयासिद्धत्वेन
व्याप्तोऽभ्युपगतः, नित्य एवावस्तुनि हेतुप्रणयनात्1401 । ततश्च यत्रवावस्तुनि वस्तुत्वात्
हेतोराश्रयासिद्धिरुपनीयते, तत्रेव प्रतिज्ञायाः परिभवो नावस्तुनि विधिनिषेधावित्यस्याः ।
यदि च परोपगमादेव1402 व्याप्तिरपि विवक्षिता, अवस्तुन्यवस्तुत्वान्नपक्षधर्मताप्रयुक्तो 37a
हेतुरिति, तर्हि तव नेदमनुमतमिति, तथापि नावस्तुनि विधिप्रतिषेधाविति व्याहतम्,
प्रतिषेधस्य स्वयं स्वीक्रियमाणत्वात्, नञोऽन्यार्थाभावात् ।

किं च सर्वः प्रसङ्गो विपर्ययपर्यवसितव्यापार इति न्यायात् यद्यवस्तु नित्यं
तदाश्रयासिद्धिः1403 । न चाश्रयासिद्धिः, तन्नावस्तु नित्यमिति किं विवक्षितम् ? तदापि
यथाश्रयासिद्धिर्दोषः1404 प्रस्तुतो नास्ति सिद्धमवस्तुत्वं नित्यस्य धर्मिण इति नावस्तु
नित्यमिति कथं न विप्लवते1405 ? तस्मात् स्वतन्त्र एवायमवस्तुत्वादाश्रयासिद्धिरवस्तुनि
हेतोरिति हेतुदूषणप्रवृत्तस्य प्रकृतः । तथा च नावस्तुनि विधिनिषेधाविति दूरीकृतमेतत् ।
व्यापकानुपलम्भश्चायं स्वभाषया प्रयुज्यते, आश्रयत्वस्य वस्तुत्वेन व्याप्त्यभिमानात् ।
स चाभिमानः स्ववचनविरोधानवबोधात्1406 । न हि नावस्तुनि विधिनिषेधाधारत्वमिति
स्ववचनविरोधं मन्यमानस्य वस्तुत्वेन धर्मित्वस्य व्याप्त्यभिमानो मानसं स्पृशति,
92
किं स्वपरिभावकतयेति सामान्यन्यायः । किं चामी स्वयमवस्तुनि विधिनिषेधव्यवहार
मातन्वन्तो व्यापकानुपलम्भं चाप्रमाणयन्तः परं प्रतिक्षिपन्तीति क एष क्रमः ?

न्यायभूषणकारो हि न ह्यसति धर्मिणि हेतोः पक्षधर्मत्वमिति ब्रुवाणोऽवस्तुनि
हेतोः पक्षधर्मतानिषेधं व्यक्तमाह1407 । कथमेतदिति युक्तिगवेषणे च धर्मिणोऽसत्त्वादिति
हेतुमभिप्रैति । अन्यथा च वचनमात्रे क आदरः ? अथाक्षणिकं नैव प्रतीयते कथं तस्य
क्रमाक्रमाभ्यां विरोधोऽवगम्यत इति ब्रुवाणश्च व्यक्तं प्रतीत्यविषयत्वेन विरोधावगमा
भावमाह1408 । स चावस्त्वन्तरसाधारणो धर्मो 1409नित्येऽप्यवस्तुसंमते आसज्यते1410, अन्यथा
अन्यत्रावस्तुनि यद्ययं न1411 न्यायो नित्येऽपि कथमभिधातुं शक्यः ?

शङ्करोप्येतदेव स्फुटयति, अवस्तुनि प्रतीत्यविषयत्वेन न विरोधासिद्धिरिति ।
अन्यथा प्रबन्धवैयर्थ्यात् ।

नन्वस्य षष्ठीसप्तमीनिर्देशाभावादसता सह सतो न विरोध इत्यभिप्रायात् न दोष
इति चेत् ? 1412अद्याप्यसतोऽप्रतीयमानत्वादिति स्वयमभिव्यक्तो हेतुरपेक्षणीय एवेति
कथमसतो 1413धर्मिभावव्यापकानुपलम्भयोः1414 परिभवः ? तेन सह विरोधासिद्धौ हि1415
तस्य प्रतीतिविषयत्वाभावो हेतुः । यदि च 1416तृतीयानिर्देशेनाश्रयासिद्धिपरिहारमनुमन्यते
भवान्, क्रमाक्रमयोरपि नित्येन सह योगाभावादर्थक्रियाशक्तेरपि नित्येन सह योगाभाव
इति न क्षतिः । एवं पक्षेण योग एव 1417सपक्षेणैव योगो विपक्षेणायोग एवेति हेतोस्त्रैरूप्यं
वक्ष्यामः । शान्तिरस्त्वाश्रयासिद्धिप्रहारस्य । तस्मात् विवक्षामात्रभेद एव1418 न वस्तुभेद
इति किमनेन कायव्रतेन1419 ?

1420किं च 37b असता सह तावद् विरोधबाधनमेवमस्तु1421, यदा पुनः सत एव1422
सता सह विरोधः किमस्तु न वेति प्रश्नेऽस्त्वितिस्वीकारः, स्थितं बौद्धसिद्धान्तेनेति विफल
उपन्यासः । अथ नेति स्वीकारः, तदा स एवाप्रतीयमानत्वादिति हेतुरपेक्षितव्य
इत्यवस्तुनि निषेधनं विरोधस्य व्यापकानुपलम्भेनेति पुनर्बौद्धसिद्धान्तसिद्धिः । तथा,

नासिद्धे भावधर्मोऽस्ति
प्र. वा ४. १९०

इत्यत्रापि एष एव न्यायः शरणम् ।

93

तथा च त्रिलोचनः स्वाक्षरेण स्फुटयति, क्रमयौगपद्यरहितत्वमभावधर्मो न
सिध्यति, आश्रयानुपलब्धेरिति । अत्र हि व्यक्तमभावो धर्मी, क्रमादिरहितत्वमस्य धर्मो
निषिध्यते, आश्रयानुपलब्धेरिति हेतोरिति । एवमसतो धर्मित्वं प्रतिजानान 1423एवानन्तरं
न हि 1424क्रमयौगपद्यरहितशशविषाणधर्मत्वं प्रेक्षावन्तः प्रतिपद्यन्त इति एवं ब्रुवन् महान्
साहसिको यदयमात्मानमात्मनैव नोपहसति । अभावादेव हि शशविषाणस्य1425 धर्मित्वं
निषेद्धव्यम्, स्वीकृतं चाभावस्यापि धर्मित्वमिति कः प्रतिरोधस्तुरङ्गशृङ्गादेः ?
अथाभावस्य धर्मिता क्रमादिरहितत्वनिषेधेन1426 स्वीकृता, कथं क्रमादिरहितत्वेनैवास्तु ?
अहो बुद्धिवैभवम् ! अभावस्य शशविषाणस्य क्रमादिरहितत्वनिषेधेन धर्मित्वं मन्यते,
न क्रमादिरहितत्वेन । उभयथाप्यवस्तुनि विधिनिषेधव्यवहारस्वीकाराद् दुर्निवारः
सौगतकृतान्त इति वरं क्रमादिरहित्वेनैव धर्मित्वमुभयत्रास्तु, किमुत्तरापथं प्रविश्य
तावतैव मूल्येन तुरगत्यागिनो गर्दभक्रयणवृत्तान्त आश्रियते ?

अथवातिसूक्ष्मा बुद्धिः स्थवीयांसमसमञ्जसविशेषमियन्तं न पश्यतीति किमत्र
क्रियताम् ? तथाप्यक्षिणो निमील्य चिन्तय तावत् किं शशविषाणं क्रमादियोगि
भवति न वा ? यदि भवतीति भणसि, किमत्र वक्तव्यमस्माभिः ? सभ्यादयः प्रमाणम् ।
अथ नेति पक्षः, तदा क्रमादिरहितं तत्तत्कथं क्रमादिरहितत्वनिषेधेन धर्मीकरोषि ?
उभयथा च हेतुं पर्यनुयुज्यावश्यमवस्तुत्वादिति वक्ष्यामीत्यलं1427 विस्तरेण ।

एवं बन्ध्यासुतो वक्ता न वेत्येवंविधेऽपि प्रस्तावे निषेधमप्रतिज्ञाय न स्थातुं
शक्यमचेतनत्वादवस्तुत्वादित्यादिसाधनमनुपन्यस्य वा न कश्चिदेवमाशङ्कते । यदीदृश
मुत्तरयितव्यमिति चेत् ? कुतः ? तदवस्तु तायाः प्रसिद्धत्वादिति चेत् ? पुनस्तदेवायातम्
बन्धासुतस्य धर्मिणो वक्तृत्वेनाशङ्कनोयतानिषेधः, सुप्रसिद्धावस्तुत्वादिति हेतुरिति । न
च सुप्रसिद्धत्वेऽपि सर्वथा शङ्काविरहः । निःसीमो हि मोहमहिमा । दृष्टो हि1428 शास्त्र
काराणामपि1429 38a क्रमादिरहितत्वनिषेधः शशविषाणे इत्येवंप्रकारो भ्रमः1430 । ततो
यथा शब्दे चाक्षुषत्वादनित्यत्वं संभावयन्नसिद्धत्वेन निषिध्यते तथेहापि स्यातां शङ्का
निषेधौ, न विरोधः । तस्माद् वस्तुनीवावस्तुन्यपि1431 कस्यचिद्धर्मस्य विधिनिषेधव्यवहारो
दुर्वारः, आहत्य1432 विप्रतिपन्नानामपि शास्त्रकाराणां निषेधवाक्येनैव स्वीकारात् ।
94
तत्रेदानीमवस्तुषु बन्ध्यासुतपर्यन्तेषु कथं धर्मित्वम् ? प्रतीत्यभावे कथं व्यवहारः ? प्रतीति
जनकत्वे कथं न वस्तुत्वम् ? न च वचनमात्रप्रमाणमुपादेयमिति यः कश्चिद्धेतुरुपा
दीयते, स सर्वः कथं नाश्रयासिद्धः ? तदेतदायातम्,

यश्चोभयोः समो दोष इत्यादि ।
1433

यदि च 1434निश्चितावस्तुभावेष्वपि नैते दोषाः, तत् किं 1435साधनात्प्रागसन्दिग्धसत्ताके1436
नित्ये भविष्यति1437 ? कः पुनरत्र परमार्थः ? न ह्यवस्तुनि कस्यचिद्धर्मस्य विधिनिषेध
व्यवहारः शक्यपरिहारः प्रामाणिकस्य । न चैते दोषाः 1438सानुषङ्गिण इति चेदुच्यते,
न तावदवस्तुनो धर्मित्वाभावः । यत्रैव हि इदमेवमिति परामर्शः तदेवेदमित्यनेना
कारेण1439 धर्मि । एवमिति धर्मविशेषयागः । यथा घटो नील एवं बन्ध्यासुतो न वक्तेति
घटस्य नीलत्वमिव बन्ध्यासुतस्य वक्तृत्वं धर्मः प्रतोयत इति न धर्मित्वाभावोऽभावे1440
केवलं कश्चिद्धर्मो वस्तुनियता नीलत्वादिः, कश्चिदवस्तुनियतः सर्वोपाख्याविरहादिः1441,
कश्चिदुभयसाधारणोऽनुपलम्भमात्रम्1442 । तत्र 1443वस्तुधर्मिणावस्तुधर्मित्वनिषेध इति
युक्तम् । न तु धर्ममात्राणाम्, स्ववचनविरोधस्य बाधकत्वात् । प्रतीत्यभावेन व्यवहार
इत्यप्ययुक्तम्1444 । न पुनरुभयारेकप्रकारैव 1445प्रतीतिरङ्गं व्यवहारस्य । वस्तुनो हि स्व
सामर्थ्यभाविनी प्रतीतिः । विकल्पश्चाध्यक्षलिङ्गाभ्यां पारम्पर्यकार्यः1446 । अवस्तुनस्तु
सन्दिग्धवस्तुभावस्य वा विकल्पमात्रम् । सामर्थ्याभावे हि तयोरभावे विकल्पमात्रमपि
यदि न 1447तत्प्रतीतिरवस्थाप्यते सर्वथाव्यवहार्य एव स्यात् । इष्टश्च व्यवहारः, अतो
1448विकल्पनमात्रं तत्र प्रतातिः, तदुपस्थापितमेव च तयोः स्वरूपं नान्यत्1449 । यथा वस्तुनः
प्रत्यक्षानुमानोपनीतमेव स्वरूपम्, एवमवस्तुनः सन्दिग्धवस्तुभावस्य वा विकल्पापस्थापित
एवात्मा नान्य इति । नातः समयादङ्गमाकषन्तः सन्ता भवितुमर्हन्ति ।

यत्तु,

ग्राह्यतां विदुः
हेतुत्वमेव युक्तिज्ञाः
प्र. वा. २. २४७
95
इत्युक्तम्, तन्मानसप्रत्यक्षप्रस्तावे ग्राहकाद् भिन्नमेव ग्राह्यमपेक्ष्य । न हि स्वसंवेदनेऽप्येष
एव न्याय इति स्थितमेतत् ।

तथा च न्यायभूषण एवाह, न हि त्वयार्थान्तरमजनकं प्रतीतिविषयत्वे
नेष्टमिति । न चावस्त्वर्थान्तरम्1450 । अर्थ एव ह्यन्यमर्थमपेक्ष्यार्थान्तरमुच्यते, न
त्ववस्तु । 38b तद्भावनिषेधमात्रं तत्1451 । तस्मादर्थान्तरत्वाभावान्न स्वजन्यज्ञाना
पेक्षानर्थस्य । ततो विकल्पमात्रमत्र शरणम्1452 । तदाकारोल्लिखितश्चास्य स्वभावो नापर
इत्यप्यवश्यं 1453स्वीकर्तव्यम् । अन्यथा शशविषाणादिशब्दानामनुच्चारणमेव प्रसज्ये
तेति1454 कथं व्यवहारः ? तथा हि खरशृङ्गादिशब्देन शब्दितमर्थमनूद्यावश्यं किञ्चि
द्विधेयम्, यथा न क्रमादिरहितत्वं शशविषाणधर्मस्तत्सहितं वा, यथा वा नासता
कस्यचिद्विरोधबोधः1455, नावस्तुधर्मीति वा । तत्र शशविषाणासदवस्तुशब्दैर्यदि
नाभिमतोऽर्थः प्रत्याय्यते, अभिमतादन्य एवार्थो ध्वनिजनितविकल्पस्य, तदा1456 विधीय
मानः क्रमाक्रमनिषेधादिः कस्य प्रतीयताम् ? तत्प्रतीत्यभावे च शब्दोच्चारणमनर्थक
मायातम् । अस्ति च कूर्मरोमादिशब्दव्यवहारः, तस्मात् स1457 एव तस्यार्थः,
अर्थस्यापि स एव निश्चयः । दृष्टेऽपि विकल्प एव निश्चयः । एवं तर्हि विकल्प एवास्तु
सर्वत्राश्रयणीयः, किं दर्शनेन ? नैवं दर्शननिराकृते विकल्पचेतस्याकारमात्रस्फुरणाद्
वस्तुत्वसाधनार्थं1458 बाधनार्थं वा प्रमाणान्तरापेक्षणम् । दर्शनेन तु विषयीकृते वस्तुनि
यावति रूपे विकल्पः, तावति स एव निश्चयः, असति सादृश्याद् विप्रलम्भे । तस्मान्न
वस्तुन्यपि विकल्पमात्रं शरणम्, अवस्तुनि तु तदेव शरणम् । तदाकारबाह्याध्यवसानमेव
हि प्रमाणान्तरसापेक्षं तत्र प्रार्थ्यते । तच्च विकल्पेनैव सिद्धम् । प्रमाणवृत्तौ तु न प्रमाणा
न्तरापेक्षा । ततस्तेन विकल्पेन यत् स्वरूपमुल्लिखितं तत्परामर्शेन यथा क्रमाक्रम
रहितत्वनिषेधादिकमुपस्थापयन्ति सन्तस्तदर्हतया, तथा1459 तद्रूपप्रत्यनीकाकारेण सह
विरोधव्यवस्थायां कीदृशो दोषः ? यथा वा बन्ध्यासुतस्य 1460सौन्दर्यादिनिषेधोऽनुरूपः,
तथा च1461 वस्तुताविरोधस्य को विरोधः यदि चानुभवाभावाद्विरोधप्रतिरोधोऽनुभवा
भावादेव सौन्दर्यनिषेधोऽपि माभूत्, ततो विधेयस्य कस्यचिद्धर्मस्याभावेऽभावाभि
धायिनामनुच्चारणप्रसङ्गस्तदवस्थः, न च तच्छक्यमित्यपि निवेदितम् ।

96

अथ बन्ध्यासुतादीनां विकल्पनीयाद् रूपाद् रूपान्तरविरहात् तन्मात्रस्य च
विकल्पेन विषयीकरणे तदनुरूपव्यवहारस्य न क्षतिः ? एवं सति विरोधव्यवहारस्यापि
तदनुरूपस्य का क्षतिः ? यथा च वस्तुतया बन्ध्यासुतस्य विरोधः, एवं नित्यस्यापि यो धर्मः
प्रत्यनीक उपपादयितुं शक्यस्तेन कथं न विरोधः ? 1462तत् कथमनुभवाभावमात्रं विरोध
बाधने1463 1464साधनमनभिधीयमानं साधु स्यात् ? यदि तु 1465विकल्पोऽपि तद्विषयो न
स्यात्, तत्प्रत्यनीकाकारपरामर्शो वा न स्यात्, 39a 1466 सहानवस्थानाभिधानो वा
विरोधः साधयितुमिष्टो भवेत्, भवेद् विरोधसिद्धिः । एकस्य हि भवतोऽन्यभावे अभा
वात् सहानवस्थानव्यवस्था । भावश्च प्रत्यक्षगोचर इति कथमेकस्यान्यवस्तुत्वे1467 घटेत ?
परस्परपरिहारस्थितिलक्षणत्वं1468 तु प्रत्यनीकाकारपरामर्शमात्रसाध्यम्1469 विकल्पमात्रेण
विषयीकरणेऽपि सन्निधीयमानव्यवस्थानिमित्तं नावश्यं वस्त्वनुरोधि, कथमन्यथा भावा
भावयोरेव1470 विरोधः परस्परपरिहारलक्षणः ? तत्र च1471 विरोधे प्रधानमुदाहरणं तावेव ।
अभावस्य1472 वस्तुत्वस्वीकारेऽपि न भावस्य भावोऽभावाभिधाने वस्तुनि, नाप्यभावस्य
भावोऽभाव इति नाभाववस्तुपरम्परामुपगन्तुं शक्यमिति स्वप्रच्युतिमात्रमवस्तुव्यव
हर्तव्यैकस्वभावमिष्यमाणं कथं तद्विरोधि व्यवस्थाप्यताम्1473 ? विरोधाव्यवस्थाने च तत्र
स्वात्मा च स्वप्रच्युतिश्चेत्येकमेव वस्तु स्वात्मनैवास्ति च नास्ति चेति स्यात्, न चैवं
नियमेनेत्ययमेव विरोधार्थः । क्षणिकाक्षणिकवद् वा । यथा ह्येकस्य1474 नाक्षणिकं
तथा नान्यस्य क्षणिकमिति । तस्माद् वस्त्ववस्तुनोर्न परस्परपरिहारलक्षणविरोधबाधेति1475
स्थितम् ॥

नन्वेवं विरोधस्यापारमार्थिकत्वे तद्द्वारेण क्षणभङ्गसिद्धिरप्यवास्तवी स्यात्,
न ह्यपारमार्थिकाधारः पारमार्थिको भवितुमर्हति विरोधः । यदाह शङ्करः, एवं तर्हि
विरोधकल्पनया बाधकमपि कल्पितविरोधत्वान्न वास्तवव्यतिरेकसाधनमित्यवास्तव
व्यतिरेकत्वात् सत्तायाः, तदायत्तं क्षणिकत्वमप्यवास्तवमेवेति ।

न्यायभूषणोऽपि तदेवमुपस्कुर्वन्नाह, संवृतिसिद्धेनाक्षणिकेन विरोधासिद्धिरिति
चेत् ? संवृतिसिद्धमपि वास्तवं काल्पनिकं वा स्यात् । यदि वास्तवम्, ततः कथं तस्या
सत्त्वम्1476 ? कथं 1477वार्थक्रियाविरोधः ? अर्थक्रियां कुर्वद्धि वास्तवमुच्यते । अथ
97
काल्पनिकम्, तद्विरोधः किं वास्तवः काल्पनिको वा ? न तावद् वास्तवः, कल्पितविरोधि
विरोधत्वाद् बन्ध्यापुत्रविरोधवत् । अथ1478 विरोधोऽपि काल्पनिक एव, न तर्हि परमार्थ
तोऽक्षणिकस्यार्थक्रियायां क्रमाक्रमाभ्यां विरोध इत्यतोऽक्षणिकात् सत्त्वस्य व्यतिरेक
सिद्धिरप्यपारमार्थिकीत्यवास्तवव्यतिरेकत्वात् सत्तायाः, तदायत्तं1479 क्षणिकत्वमप्य
वास्तवमेवेति ।

अबद्धप्रलपितमेतत् । न हि विरोधो नाम वस्त्वन्तरं किञ्चिदुभयकोटिदत्तपादं
सम्बन्धाभिधानमिष्यतेऽस्माभिः, उपपद्यते वा, येनैकसंबन्धिनो1480 वस्तुत्वाभावे1481
अपारमार्थिकः स्यात् । यथा त्विष्यते तथा पारमार्थिक एव । विरुद्धाभिमतयोरन्योन्य
स्वरूपपरिहारमात्रं विरोधार्थः । तच्च भावभावयोः 39b 1482पारमार्थिकमेव । न हि
भावोऽभावरूपमाविशति, नाप्यभावो1483 भावरूपमिति योऽयमनयोरसङ्करनियमः स एव
विरोधः । स च नियमः स्वात्मानं विरोधमपि पारमार्थिकपदे निवेशयति । एवं न नित्यं
क्रमयौगपद्यरूपमाविशति, नापि क्रमयौगपद्यं नित्यरूपमाविशतीति योऽयं नियमः स
एव विरोधस्तयोः । न च कदाचिदन्यथेति प्रमाणसिद्धिरेव पारमार्थिकतेति कथमुच्यते,
विरोधस्यापारमार्थिकतया सत्त्वहेतोर्व्यतिरेकोऽप्यतात्त्विक इति ? नित्यस्य पुनरपार
मार्थिकत्वमङ्गीकृ यैव सर्वमवस्थापितमिति न कश्चिद्दोषः । यच्च कल्पितविरोधिविरोधस्य1484
वास्तवत्वनिषेधाय1485 कल्पितविरोधिविरोधत्वाद् बन्ध्यासुतविरोधवदित्युक्तम्, तत्रैव
अनेन तपस्विना कथमाश्रयासिद्धित्वादिदूषणं स्थवीयोऽपि नोपलब्धमित्यास्तां तावदस्य
मर्मोद्घाटनम् ।

एतच्च1486 चिन्त्यते । कल्पितविरोधिविरोधत्वमेव वास्तवत्वेन विरुद्धं न वा ?
यदि तावन्न विरुद्धं, तदा कल्पिताविरोधिविरुद्धत्वमपि1487 भवति, वास्तवत्वमपि स्यादिति
कथं तदुपन्यासस्तन्निराकरणैकान्तिकः स्यात् ? नाविरुद्धविधेः कस्यचित् प्रतिषेधसिद्धिः ।
अथ विरुद्धम्1488, स विरोधो वास्तवोऽवास्तवो वा ? तत्रावास्तवो विरोधः 1489परपरा
भवेऽतिप्रसङ्गात् असमर्थ1490 इति, वास्तवपक्षे कल्पितविरोधिविरोधोऽपि स्वयं वास्तव
इष्टः, न चास्माकमिव स्वविरुद्धनिषेधामिधायीति पश्य 1491धार्ष्ट्यविजृम्भितम् । यथा हि
नित्यक्रमयौगपद्ययोर्विरोधः कल्पितविरोधिविरोधो नित्यस्य कल्पितत्वात्तथा वास्तवत्व

98
कल्पितविरोधे1492 विरोधयोर्विरोधः कल्पितविरोधविरोधो1493 वर्तते कल्पितस्य विरोधिनो
विरोध इति कृत्वा कल्पितो विरोधी1494 तस्येति वा1495, कल्पितस्य हि1496 विरोधिनो
विरोधोऽपि कल्पित एव न वास्तव इत्येव भवत्पौरुषेण साध्यमानमीक्षामहे । तस्मात्तस्य
कल्पितस्य विरोधस्य विरोधिनो वास्तवत्वेन सह यो विरोधः सोऽपि कल्पितविरोधि
विरोधः1497 सिद्धः । तस्य वास्तवत्वे स्ववचनविरोधः । अवास्तवत्वे दूषणमुक्तमेव ।

अपि च । विरोधो नामैकत्र द्वयोः 1498संवासनिषेधार्थमर्थ्यते । न तु द्वयोर्वस्तुत्व
सिद्धिर्नाम1499 विरोधफलम् । यत्र तु द्वयोर्वस्तुत्वसिद्धिस्तत्र सामर्थ्यादेकेन वस्तुना
वस्त्वन्तरतिरस्कारात् क्वचिद् देशे, यथा सहानवस्थाने यथोक्तं प्राक् । प्रकृतस्तु विरोधो
धर्मयोरेकत्र धर्मिणि सद्भावनिषेधफलः ।

तत्र1500 यथा द्वावपि धर्मौ सन्तौ निषिध्येते, यत्र नीलत्वं न1501 तत्रानीलत्वम् ।
अतो न नीलानीलमेकमिति । तथा 1502सदसत्त्वरूपावपि विप्रतिषिद्धौ धर्मावेकत्र धर्मिणि
समारोपितौ प्रतिषिद्धावेव । न हि जनन्याः 40a तनये बन्ध्यातनयत्वमारोपितं
तत्त्वतोऽसदिति न निषेध्यम् । बन्ध्यातनये वा1503 विकल्पैकगोचरे जननीतनयत्वमारोपितं
न निषेध्यम् । न हि जननीतनयो बन्ध्यातनयो वैकात्मा, तावतैव 1504विरोधकार्य
पर्यवसनात्, किमपरेण विरोधनाम्ना यो वस्तुधर्मावनपेक्ष्य1505 नात्मलाभमासादयति ?
एवं यत्र नित्यत्वं न तत्र क्रमयौगपद्यवत्त्वम्, यत्र क्रमयौगपद्यवत्त्वं तत्र न1506 नित्यत्व
मतो न नित्यं क्रमयौगपद्ययोगि परमार्थतः । ततश्च सत्तायुक्तमपि नैव नियमेन पर
मार्थतः । ततः क्षणिक एव विश्राम्यत्1507 तदायत्तसत्ताकमेव सत्त्वमिति सत्त्वात्1508 क्षणभङ्ग
सिद्धेरविरोधः । यदि चैवमपि 1509विरोधव्यतिरेकप्रतिसन्धानेन 1510मातृमोदकक्रमेण गृहीत्वा
गिरिकुहरकोणमाविश्य घोषयितुमिच्छसि चेद्, घोषय1511 । न पुनरस्मदारब्धसिद्धि
प्रतिबन्धे किञ्चिदुपयुज्यसे । तदलमभिनिवेशपरवशीभूय वास्तवा एवैते विरोधादय
इत्येव साधु । ननु15121513 नित्यत्वं क्रमयौगपद्यवत्त्वं च विरुद्धौ धर्मौ विधूय नापरो विरोधो
नाम, कस्य वास्तवत्वमिति चेत् ? तदपि यत्किञ्चित् । न हि धर्मान्तरसंभवेन विरोधस्य
पारमार्थिकत्वं ब्रूमः । किं तु यतो विरुद्धौ धर्मौ1514 धर्मान्तरसंभवेऽपि1515 हि यदि न विरुद्धौ
99
न पारमार्थिकोऽपि1517 विरोधः । विरुद्धौ चेत् ? तावतैव तात्त्विको विरोध इति व्यवहारः,
किमपरेण धर्मेण ? यदपि बन्ध्यापुत्रविरोधवदित्युक्तम्, तत्र किमेकाधार एवायं
विरोधो दृष्टान्तीकृतः, अथ द्वितीयापेक्षः ? द्वितीयोऽपि प्रतियोगिरूपोऽन्यमात्रं वा ?
प्रथमपक्षस्तावदयुक्तः1518, न हि कश्चिदेकाधारं विरोधं प्रतिजानीते । ततो यदि बन्ध्या
पुत्रविरोधस्याभिन्नधर्मिणोऽपारमार्थिकत्वं तदोभयधर्मिणोऽपि 1519पारमार्थिकेन विरोधेन
1520 भाव्यमिति कोऽयं न्यायः ? एवमन्यमात्रेणापि न विरोधः, कृतकानित्यत्ववत् ।
प्रतियोगिना तु तत्रापीष्यत एव । बन्ध्यापुत्रस्य हि अबन्ध्यापुत्रत्वेन विरोधोऽस्त्येव ।
एकात्मनिषेधश्चाभिमत एव ।

ननु धर्मयोर्विरोधे धर्मिणोरैकात्म्यनिषेध इति युक्तं1521, बन्यापुत्रस्याबन्ध्या
पुत्रत्वेन विरोधो 1522धर्मिधर्मयोर्वर्तते । नैष दोषः । धर्मिणोऽपि1523 धर्मद्वारेणैव
व्यवह्रियन्ते1524 एवं धर्मिणोरपि कदाचिद्भावप्रधानो वा1525 निर्देश इति । यश्च वैधर्म्येण
दहनतुहिनयोरुपन्यासः, सोऽप्ययुक्तः, परस्परपरिहारस्य विवक्षितत्वात् । यौ च
तद्विषयतया1526 सापेक्षध्रुवभावाबुक्तौ1527, तत्रापि सापेक्षतया कादाचित्कत्वमनित्यत्व
मुक्तम्1528 । ध्रुवभावोऽप्यवश्यम्भाव इति यदि भावनियमत्वम्, तदा नित्यत्वमेव । ततो
नित्यानित्ययोरियं1529 विरोधस्थितिः कथमनुभवपूर्वकतयोपदर्शयन्तं नोपहासयति ?
नित्येन कथं विरोधप्रतीतिरित्येव हि प्रकृतम् । अथावश्यं भविष्यत्ता ध्रुवभावः, 40b
सापि न1530 कस्यचिदनुभवविषय इति नित्यवदेव दोषः ।

स्यादेतत् । यच्च कदाचिदवश्यम्भूतमुपलब्धं तदपेक्षयेदमुच्यत इति । तदपेक्षया
तर्हि विरोध एव नास्ति, तद्धि सापेक्षं च ध्रुवभूतं च । अथ तदा सापेक्षत्वं नास्ति
सिद्धत्वात्, अन्यदा तदा1531 सुतरां नास्ति, असिद्धत्वादेव । असिद्धधर्मं एवापेक्षेति1532
चेत् ? अननुभूते तर्हि न विरोधव्यवस्थेति1533 स एव दोषः । असिद्धस्यैव
1534सिद्धिकालापेक्षया अनुभूतेनैव विरोध इति चेत् ? सिद्धिकालापेक्षास्वीकारे तर्हि
विरोध एव नास्तीत्येव साधु ।

एतेनानुभवाभावाद् विरोधव्यवस्थाभावे साध्ये वैधर्म्यदृष्टान्ताभिमतः साध्या
व्यतिरेकी, असता विरोधप्रसञ्जने तु साधनाव्यतिरेकी । ध्रुवभावस्य नित्यतार्थपक्षे तु
100
साध्यकोटिनिक्षेप एवेति । भेदाभेदादिकं तु1535 भवतु वैधर्म्यदृष्टान्तः । न च तावतापि
वस्तुनोरेव नाक्षणिको1536 विरोध इति नियमः, अन्यथापि समर्थितत्वादिति । यदपि

नासिद्धे भावधर्मोऽस्तीति
प्र० वा० ३. १९०

वाच्यम्, तदप्याश्रयासिद्धिचोद्यस्य दूरीकृतत्वान्निराकृतम् । असतोऽपि धर्मित्व
साधनात्, अवस्तुनि विकल्पस्य प्रतीतिव्यवस्थासिद्धेश्च व्योमादिस्वरूपाप्रतीतिरपि
परिहृता ।

स्यादेतत्, यदि विकल्परूपां प्रतीतिमाश्रित्याश्रयासिद्धिपरिहारः सत्तासाधनेऽपि
समानम्, ततः 1537कथमुच्यते नासिद्धे भावधर्मोऽस्तीत्यादि ? कथं चात्मनो विभुत्वसाधनं
सर्वत्रोपलभ्यमानगुणत्वमाश्रयासिद्धाबुदाह्रियत इति चेत् ? साधनानुरोधादुभयत्रापि
हि भावधर्म1538 एव हेतुरुपात्त आशङ्कितश्च । न च भावधर्मस्यावस्तु धर्मी भवितुमर्हति ।
न हि धूमर्शिशपात्वादयोऽवस्तुनि वसन्ति1539 । तस्माद् यत्र भावधर्मः साधनं तत्र
नियमेन वस्त्वेव धर्मी1540 । न च विकल्पमात्रविषयस्य वस्तुताश्वासः, अवस्तुन्यपि
विकल्पमात्रानपायात् । ततो वस्तु धर्मीकुर्वता1541 प्रत्यक्षानुमानरूपे च1542 सिद्धिरभिधा
तव्या । तदनभिधाने तु विकल्पमात्रगोचरितोऽर्थः1543 सन्दिग्धसत्ताको निरस्तसत्ताको
वा धर्मीक्रियमाणः कथं वस्तुतया निश्चितः कृतः स्यात् ? तथा च सति यावान् वस्तु
धर्मो1544 हेतुः सर्वोऽसौ नाश्रयासिद्धिमतिक्रामति, एकत्र सन्देहादन्यत्र विपर्ययात्1545 । ततः
प्रत्यक्षानुमानाभ्यां वस्तुविषयाभ्यामसिद्धे1546 भावधर्मो न हेतुरस्त्याश्रयासिद्धत्वादिति
युक्तमेतत् सत्तासाधने । असत्तासाधने त्ववस्तुधर्मो हेतुरवस्तुनि विकल्पमात्रसिद्ध1547
एव नाश्रयासिद्धिदोषेण दूषयितुं शक्यः । न हि तस्य वस्त्वाश्रयापेक्षा, अवस्तुधर्मादेव ।
न च तदाधारस्य प्रत्यक्षानुमानापेक्षा, अवस्तुत्वादेव । भावधर्मे1548 तु साधने
वस्त्वेवाश्रयो 41a वस्तुधर्मत्वात् । वस्तुनश्च निश्चयः प्रत्यक्षानुमानाभ्यामेव,
ततस्तयोरभावे 1549नियमेनाश्रयासिद्धिरिति सदसत्तासाधनयोः कथं समानो दोषः ?

यत्तु त्रिलोचनेन 1550प्रमाणान्तरं नित्यानामसत्तासिद्धौ क्रमादिविरहस्याभाव
धर्मता1551 न सिध्यतीत्युक्तम्, तद् बालस्यापि दुरभिधानम् । नित्या हि धर्मिणः । असत्त्वं
101
साध्यम् । क्रमादिविरहो हेतुः । अस्य चाभावधर्मत्वं नाम स्वसाध्याबिनाभावित्व
मुच्यते1552, अभावानां शशशृङ्गादीनां धर्मो न भावानामिति कृत्वा । तदनेन वचसा
यावत् प्रमाणान्तरेण पक्षे साध्यं न सिध्यति1553, न तावद्धेतोर्व्याप्तिरित्युक्तं भवति ।
तच्च कुत्र हेतावुपलब्धमनेनेति न विद्मः । यथा चान्यत्र साध्यनान्तरीयकता अन्यदा1554
प्रवृत्तप्रमाणान्तरसिद्धा दृष्टान्तेन स्मारिता पक्षीकृते साध्यसिद्ध्यर्थमुपयुज्यते, नान्यतः
साध्यसिद्धिमपेक्षते, तथा क्रमाद्यभावेऽभावधर्मता व्याप्तिस्वभावान्यदैव क्रमाक्रमेण
सिद्धत्वस्य1555 । व्याप्तिग्रहणकाले प्रवृत्तप्रमाणसिद्धाकाशकमलदृष्टान्तेन स्मारिता
साध्यसिद्धावुपयुज्यते, नान्यतः साध्यसिद्धिमपेक्षते । अन्यथा सर्वानुमानवैयर्थ्यात् ।
क्रमयौगपद्येन हि सत्त्वस्य व्याप्तिसिद्धौ सत्त्वस्य व्याप्यस्याभावेन1556 क्रमयौगपद्यस्य
व्यापकस्य विरहो व्याप्तः सिध्यतीत्यभावधर्मत्वं क्रमयौगपद्यविषयः1557 । यथा च
व्याप्तिरूपं तथा 1558पूर्वमेव निश्चितं, 1559सदभावधर्मत्वं न पक्षे प्रमाणान्तरेण साध्यसिद्ध्या
व्यवस्थाप्यते, तथा क्रमाक्रमाभावाभावेनापि1560 साध्यं प्रसाध्य व्यवस्थाप्यत इति नः
पक्षः, पूर्वमेव व्यवस्थापितत्वात् । तत् कुत इतरेतराश्रयत्वम् ?

किं च, इतरेतराश्रयत्वमप्येवं युज्यते । क्रमादिविरहस्याभावधर्मत्वसिद्धौ
तेषामसत्त्वसिद्धिः1561 असत्त्वसिद्धौ चाभावधर्मत्वसिद्धिरिति । विषमदृष्टिना पुनरभाव
धर्मसिद्धेरसत्त्वासिद्धौ न 1562प्रयाजकत्वमुक्तं, किं तु पक्षधर्मतासिद्धेः । तत् कीदृशमितरे
तराश्रयत्वम् ? न च पक्षधर्मतैवाभावधर्मता, साध्याविनाभावरूपत्वादभावधर्मतायाः ।
अथ यद्यभावधर्मत्वं क्रमाद्यभावस्य स्यात्, तदा पक्षीकृतानामसतां नित्यानां धर्मः
स्यादित्यभिप्रायात् 1563पक्षधर्मताव्यापारद्वारेण तदव्यापारो दर्शितः, तथापि चक्रकं
वक्तुमुचितम् । तदपि प्राचीनचर्चया चर्चितमेव ।

किं च, अभावधर्मत्वे व्याप्तिरूपे सति पक्षधर्मत्वमिति नायं हेत्वन्तरसाधारणो
न्यायः । न चास्यापि हेतोरेवम्, अभावधर्मत्वं हि व्याप्तिर्भवतु मा वा, क्रमादिविरहस्तु
केन नित्यानां निषिध्यते ? न चैतेऽप्यसत्तारूपेण1564 धर्मिणः, किं तु सदसत्त्वसन्देह
वत्त्वेनेति1565 यत्किञ्चिदेतत् भावधर्मत्वमु41b भयधर्मत्वं च नेष्टमस्य क्रमादिविरहस्य
हेतोरिति न प्रथमविकल्पे दोषः । नापि द्वितीये, व्यतिरेकस्याभावरूपत्वेऽपि विकल्पेन
102
प्रतीतेः 1566समर्थितत्वात् । न ह्यभावरूपाणां विकल्पादन्या प्रतीतिरप्रतीतिर्वा, 1567उभयथा
प्यभावव्यवहारहानिप्रसङ्गात्1568 । ततोऽनुभवापेक्षाविरहान्न तज्जननप्रसङ्गे1569 दोषावकाशः ।
अनाश्वासस्तु 1570शासितुमुचितः । सोऽपि क्रमयौगपद्यविरहलक्षणव्यापकानुपलम्भ
संभवाल्लिङ्गजत्वेन दूरीकृतः ।

तथा हि तथैव त्रैरूप्यपरिशोधनमेतदारब्धम्, सिद्धं च किमिति विस्मर्यते, यतो
लिङ्गाभावादित्युच्यते ? तस्मात् क्रमादिव्याप्यसत्ताव्यतिरेकविकल्पे कथमनाश्वासः ?
अव्यतिरेकशङ्का1571 ह्यनाश्वासस्यार्थः । व्याप्यव्यापकभावनिश्चये चास्थानमेतदिति
नित्यान्नियमेन व्यतिरिच्यमानं सत्त्वं क्षणिकत्वेन व्याप्तं सिद्धमिति न दोषः ।

तृतीयेऽपि विकल्पे व्यतिरेकनिश्चयस्य दृढीकृतत्वात्, सोऽयं व्यापकानुपलम्भो
नित्ये स्वाश्रये क्रमाद्यभावं1572 साधयन्नेव सत्तायास्ततो नियमेन व्यतिरेकं, क्षणिकतायां
च प्रतिबन्धमस्याः साधयतीति त्रयोऽस्य व्यापाराः1573 एकव्यापारसंगृहीताश्च1574, न च
दोषलेशेन लिप्यन्ते । त्रित्वं चार्थशक्तेः सत्तालक्षणत्वे, हेतुमात्रत्वे तु व्यतिरेकमात्र
साधनमसत्तासाधनार्थ इति व्यापारद्वैतमेवेति स्थितम् ॥

ननु व्यापकाभावस्याभावरूपत्वेन वस्तुधर्मतया आश्रयासिद्धिपरिहारेऽपि स
कथमभावः कस्यचित् प्रतिपत्तिः1575, प्रतिपत्तिहेतुर्वा तस्यापि वा कथं प्रतिपत्तिरिति किं न
दृश्यते ? तल्लिङ्गजन्मा च संप्रत्येव व्यतिरेकविकल्पो न विसंवादशङ्कामङ्के निधत्त इत्यु
क्तम् । अवश्यं च साध्यबुद्धिं साधयता1576 साधनेन भावव्यवहारः स्वीकर्तव्यो नान्यथा ।
तच्चाभावरूपत्वे सर्वं विरुध्यते । व्यापकानुपलब्धिरित्यपि यद्यप्यनुपलब्धिमात्रं1577 स एव
दोषः, न चान्योपलब्धिर्व्यापकानुपलब्धिरभिधातुं शक्या, अन्यस्यापि कस्यचिदनुप
लब्धिरिति । तदपि यत्किञ्चित्, धर्म्युपलब्धेरेवान्यत्राप्यनुपलब्धितया व्यवस्थापनात् ।
यथा हि नेह शिंशपा वृक्षाभावादित्यत्र वृक्षापेक्षया केवलप्रदेशस्य धर्मिण उपलब्धिः
वृक्षानुपलब्धिः, शिंशपापेक्षया च केवलप्रतीतिरेव शिंशपाभावप्रतीतिरिति स्वभाव
हेतुपर्यवसायिव्यापारो1578 व्यापकानुपलम्भः । तथा नित्यस्य धर्मिणो विकल्पबुद्धौ
परिस्फुरतः क्रमाद्यपेक्षया केवलस्फुरणमेव क्रमाद्यनुपलम्भः, अर्थक्रियापेक्षया च केवल
प्रतीतिरेवार्थक्रियावियोगप्रतीतिरिति विशेषः । अध्यवसायापेक्षया च यथा नेह
103
शिंशपा वृक्षभावादित्यभावस्य हेतुपञ्चम्या1579 निर्देशः, तथा भावः साधनमित्यपि
व्यवहारः, न त्वभावः साधनमेव 42a क्वचित् । स च व्यवहारः अवसितार्थावि
संवादान्न1580 परिहर्तुं शक्यः । यत् खलु 1581व्यापकेन विरहितं तदवश्यं व्याप्येनापीत्ये
तावत एवार्थस्य संवादिनः तेनापि प्रकारेण प्रतिपादनात् । अयं च न्यायो यथा
सत्ये धर्मिणि तथासत्येऽपीति को विशेषः ?

नन्वयमेव महान् विशेषः । सत्ये हि धर्मिणि व्यापकस्यैकज्ञानसंसर्गी
स एव धर्मीति तस्योपलब्धिरनुपलब्धिर्व्यापकस्यास्तु, असत्यस्तु धर्मी नैकज्ञानसंसर्गी
केनचिदिति चेत् ? तेनैव स्वसंबन्धिना धर्मेण व्यापकसंमतेन । तथा ह्येकज्ञानमत्र
विकल्प एव । स हि नित्यग्राही विकल्पः तदाकारान्तरमिव क्रमयौगपद्यधर्मसंबन्धे
नित्यस्य क्रमाद्याकारमप्युल्लिखेदिति संभावनया एकज्ञानसंसर्गित्वमुभयोरनिवार्यम् ।
यदि न1582 नित्यमनाधेयातिशयत्वादिना1583 धर्मान्तरेण सह प्रतीतिगोचरीभवेत्, यौगपद्या
यौगपद्यं वास्तवधर्मिणा1584 सह न प्रतीतिविषयः स्यादप्येवम् । न चैवम्, न च निषेध्यस्य
संभावनां विना क्वचिदेकज्ञानसंसर्गः तदैव1585 स्याल्लभ्यः । तत्र यथा हरिणशिरसि
तेनैकज्ञानसंसर्गि शृङ्गमुपलब्धम्, हरिवराङ्गेऽपि तत्संभावनयैव1586 तत्संसर्गान्निषिध्यते,
तथा नीलादावपरिनिष्ठितनित्यानित्यभावे तावत् क्रमाक्रमौ स्वधर्मिणा सार्धमेकज्ञान
संसर्गिणौ दृष्टौ नित्येऽपि यदि भवतो नित्यग्राहिणा ज्ञानेन स्वधर्मिणा नित्येन सहैव
गृह्येयातामिति 1587संभावनयैकज्ञानसंसर्गद्वारक एव1588 प्रतिषेधमाविशतः ।

कथं पुनरेतन्नित्यज्ञाने क्रमादेरस्फुरणमिति, यावता क्रमाक्रमक्रोडीकृतमेव
नित्यं विकल्पयाम इति चेत् ? अतएव बाधकावतारः, विपरीतरूपावतरणं विना1589
तस्य वैयर्थ्यात् । सोऽयं नित्यात्मनि क्रमाक्रमारोपौ भवतस्तद्वाधकोपन्यासं प्रयोज
येन्नाम1590, न तु नित्ये क्रमाक्रमावन्तर्भावयितुं प्रभवति, विरोधात् । कालान्तरैकरूपतया
हि नित्यत्वं, क्रमाक्रमौ च1591 क्षणद्वयेऽपि भिन्नरूपतया, ततो नित्यस्य1592 क्रमाक्रमिकार्थ
क्रियाशक्तेश्च परस्परप्रत्यनीकरूपतया दुर्निवारो विरोध इति कथं नित्येऽन्तर्भावः
क्रमादेः ? अनन्तर्भावाच्च1593 शुद्धनित्यविकल्पेन दूरीकृतसमारोपेण कथमुल्लेखः क्रमा
क्रमस्य ? सर्वस्य च विकल्पमात्रगोचरस्य विकल्पारूढरूपापेक्षया विरुद्धनियतानियत

104
धर्मव्यवस्थानं, यथा त्रेगुण्यस्यैकत्वं विरुद्धं धर्मः1594 प्रसादतापदैन्यक्रिया नियता,
नैरात्म्येतरयोगोऽनियतः, तथेहापि पूर्वापरकालयोरेकात्मतया यद्यकारकमकारकमेव,
सर्वदा कारकत्वें च कारकत्वमेव नित्यं, क्रमाक्रमौ तु कदाचित् क्रियाशक्तिस्वभावौ,
यौगपद्ये हि व्यक्तमेकदैव करणमिति कादाचित्कक्रियत्वम्, 42b क्रमेऽपि कृतायाः
करिष्यमाणायाश्च करणात्1595 कादाचित्क्येव क्रिया, सहकार्यपेक्षायाः क्षिप्तत्वात् । ततः1596
कादाचित्काकादाचित्कक्रियत्वयोः परस्परपरिहारस्थितलक्षणतया विरोधः सिद्धः1597
एवं सति प्रतियोगिनि नित्ये विकल्प्यमाने एकज्ञानसंसर्गिलक्षणप्राप्ते विरुद्धस्या
नुपलभ्यमानस्य क्रमाक्रमस्य तदुपलब्धिरेवानुपलब्धिः । सैव वार्थक्रियाशक्ते
र्व्यापकानुपलब्धिः । तस्माद् व्यापकधर्म्युपलब्धितया न व्यापकानुपलम्भान्तरादस्य
विशेषः । यदि च धर्मित्वेऽपि वस्त्ववस्तुतया विभागो भाग्यहीनस्य भवतो मतिमद्यापि
दुःस्थयति, वस्तुन्यपि धर्मिणि एकत्र प्रदेशः कठिनो धर्मी द्रवरूपमन्यत्र जलमित्यादयो
विभागा भङ्गवन्तस्तदन्विष्यन्तः1598 केन वारणीयाः ? तस्माद् वस्त्ववस्तुतयापि भेदचिन्ता
कोपयोगिनी ?

ननु महानस्या उपयोगः । तथा हि वस्तुनि धर्मिणि परम्परया तत्प्रतिबद्धं व्याप
कानुपलम्भलक्षणमनुमानं प्रमाणं प्रमाणभाजनीभवति1599, वस्त्वधिष्ठानत्वात्प्रमाण
व्यवस्थायाः । न चैवमवस्तुनि शक्यमिति चेत् ? किं तावत्परम्परयापि वस्तुनः सकाशा
दागतत्वमेव वस्त्वधिष्ठानत्वम्1600 तदा क्रमाक्रमस्यार्थक्रियायाश्च व्याप्तिग्रहणगोचरवस्तु
प्रतिबद्धत्वमस्यापि न क्षीणम्, धर्मिविकल्पवस्तुप्रतिबद्धत्वं वा ।

अथ वस्तुनि केनचिद् रूपेण व्यवहारकारणत्वं1601 वस्त्वधिष्ठानत्वम् ? तदपि
क्षणभङ्गिवस्तुसाधनोपायत्वेन प्रतिष्ठितमस्य, तस्यैव वा धर्मिविकल्पस्य वस्तुनोऽवस्तू
पादानत्वव्यवहारकारणत्वेन धर्मिवस्तुनैव तु वस्त्वधिष्ठानत्वमिति किमनेन ? यदि
चैष ग्रहण एव1602 तत् किमनुमान एव वस्त्वधिष्ठानत्वं प्रामाण्यं वा ? न प्रत्यक्षे, लिङ्गा
श्रयणमेव1603 हि धर्मिचिन्तामवकाशयति । तदनाश्रयं तु प्रत्यक्षं वस्तुन आगतं1604 वस्तु
निमित्तव्यवहारकमित्येव1605 वस्त्वधिष्ठानम्, एवमनुमानमपि तथैव 1606वस्त्वधिष्ठानमिति
105
गृह्यताम् । केवलं परम्परया प्रत्यक्षस्यापि1607 हि जन्मैव साक्षात्, व्यवहरणं तु विकल्पा
दिव्यवधानेनैव । अनुमानस्य पुनरुभयमपि परम्परया । व्यवहाराणामपि स्मृत्यभि
लाषादिना व्यवधानात् । एवं वस्त्वधिष्ठानत्वमनुमाने1608 व्यवधानेन 1609दूषणमेव ।
केवलमनुमानेऽप्यन्यत्र साध्यधर्मापेक्षया यद्व्यवधानं ततोऽतिरिक्तमिदं व्याप्तिग्रहणा
पेक्षं वर्तत इति धान्ध्यं धियः । तत्रापि 1610न सर्वोऽनुमानान्तरसाधारणोऽयं धर्मः ।
स्वसाध्ये हि साक्षात्प्रतिबन्धमवधूय विपर्ययव्याप्त्या गमकत्वं कार्यकारणव्यापकानु
पलब्धिषु । तद्वद् वस्त्वधिष्ठानत्वमपि यदि यथोक्तव्यवधानेन विषयविशेषे भवेत्
कीदृशो दोषः, कस्यचिद् बाधकस्याभावात् ? धर्मिविकल्पापेक्षया तु न तावतोऽपि
व्यवधानस्य संभवः, 43a असाधारणी च प्रत्यासत्तिर्धर्मिणो विकल्पाकारेण
सहैकीकरणात् । निराकारपक्षेऽपि हि विकल्पायत्तप्रकाशत्वादलीकनित्याकारस्य
धर्मिणः । तस्माद् धर्मिणो वस्त्वधिष्ठानपर्येषणं प्रत्यासत्तिविशेषाश्रयतया विकल्प
बपुषापि कृतार्थीभवेदिति न दोषः कश्चित् । अयमेव न्यायो न वक्ता बन्ध्यासुतश्चैतन्या
भावात्, न खरं1611 खरशृङ्गं द्रव्यतावियोगादित्यादौ योज्यः, नावस्तुनि विरोधः
प्रतीत्यविषयत्वादित्यादौ1612 च शरणम् ।

यदि प्रतीतिमात्रापेक्षया प्रतीत्यविषयत्वं तदा असिद्धिः अनुभवापेक्षयानेकान्तः ।
इत्येवंप्रकारदूषणपरिहारशक्तिः, न पुनराश्रयासिद्ध्यादिदूषणगणगणना1613 काचित् ।
एतेन व्यापकानुपलब्धौ हि व्याप्याभावोऽन्यः प्रतिपत्तव्य इति हेलयापहस्तितम्,
धर्मिरूपस्य भिन्नस्य प्रतिपत्तिविषयस्य प्रतिपादात्, गण्डशैले वृक्षत्वाभावेन शिंशपा
त्वाभाववत् । तदेवं न प्रकृतव्यापकानुपलम्भस्य स्वरूपासिद्धिः, नित्यक्रमयौगपद्ययोः
विरोधप्रतिपादनात् । यदाह, क्रमाक्रमविरोध1614 इति, तद् व्यापकद्वारेण पुनरर्थ
क्रियाविरोधादित्याह । नाप्याश्रयासिद्धिरवस्तुनोऽपि धर्मित्वप्रतिपादनात्, विकल्पेन
प्रतिपत्तिप्रतिपादनाच्च । अतएव शास्त्रे,

तस्य धर्मिणि प्रत्यक्षतोऽनुमानतो वा प्रसिद्धिनिश्चयः

इत्युत्सर्गस्य परैरनुत्पाद्यापूर्वरूपं1615 नखादिकं सकृत् शब्दाद्यहेतुत्वादिकमवस्तुनि साध्य
साधनप्रतिज्ञानमपवादो वेदितव्य इति व्यक्तमेतत् ।

106

एवं दृष्टान्तधर्मिणोऽपि असिद्धिपरिहारः । व्याप्यव्यापकाभावौ च सिद्धावेव,
नित्यवत् तत्र विमतेरभावात् । ततः सपक्षे सत्त्वनिषेधोऽपि ध्वस्तः । अथ मञ्चानेकान्त
क्रान्तिः1616 कृतेति, तदनेन सिद्धसाध्यप्रतिबन्धात् सत्त्वहेतोः सिद्धः साध्यधर्मिणां
क्षणभङ्गाङ्गीकार इति ॥

॥ व्यतिरेकाधिकारो नाम तृतीयः पादः ॥
  1. ०बाधप्र० र

  2. सिद्धस्तस्य र

  3. ०दुपरिप्लव० र

  4. अत्र च र

  5. एतयोश्च र

  6. ०तैकैक० र

  7. पाठोऽस्पष्टः अ

  8. परिगवति र

  9. संभवत्तेन निय० र

  10. ०धर्मोषण० अ

  11. ०न्वयसाधक० र

  12. ०दुभयभावे र

  13. अपीति नास्ति अ

  14. यदैव र

  15. अन्वयमप्रसाधक० र; प्रभावक० अ

  16. साध्यभितौ र

  17. ०स्यायमानर्थ्या० र

  18. ०न्वयदर्श० अ

  19. अपीति नास्ति र

    966
  20. Reference of note not clear from print.
  21. Reference of note not clear from print.
  22. साति र

  23. पाठोऽस्पष्टः अ

  24. प्रयुक्तकृती अ

  25. सतीति नास्ति र

  26. फलिनः र

  27. ०वादिनि र

  28. नर्वह्ने र

  29. संहरता र

  30. प्रतिपदेव र

  31. चपि ? वापि र

  32. ०मुभयस्वीकृत तस्या० र

  33. यदि वा ?

  34. यदर्थकानि र

  35. हि पक्षोप० र

  36. योगी ? गिता र

  37. ०स्योपन्या र

  38. प्राक् र

  39. ०वासर० अ

  40. असिद्धायामिति नास्ति र

  41. विपर्यान्नाकस्यापि अ; विपर्यवा?यबाधक० र

  42. केवल० अ

  43. ०भङ्गतया अ

  44. चकारो नास्ति अ

  45. सत्त्वातयाक्षण० र

  46. ०मनवता० अ

  47. न्यायेनेति नास्ति अ

  48. यं यमिति नास्ति र

  49. समर्थः र

  50. यदाज्ञतया अ

  51. ०मानर्थ्य अ

  52. पाठोऽस्पष्टः अ

  53. प्रवर्तित न्याय० र

  54. बधिक र

  55. पीडति अ

  56. साध्यसिद्ध० र

    1002
  57. Reference of note not clear from print.
  58. Reference of note not clear from print.
  59. बीजादिनेकान्तपर० र

  60. किन्न र

  61. कृत्वा र

  62. ०णानुपर्वे अ

  63. ०क्ष्य यौगपद्यमित्यतः क्रमस्तथाप्यपे० इति भागः पतितः र

  64. वस्तुभाव र

  65. ०रेका वा र

  66. ०तार्थाति अ

  67. ०पात्रेणा० र

  68. तस्या अप्यप० र

  69. ०न्तन्तीभा० र

  70. साध्यावृत्तिः र

  71. ०म्यत्तेन र

  72. ०रितीत्यु० र

  73. धर्मधर्मस्य र

  74. शक्येति नास्ति अ

  75. ०चनाद्यं अ

  76. तल्लक्षण...वचनादिति नास्ति र

  77. नित्यस्येति नास्ति र

  78. ०षणान्नर्थो ?शे० अ

  79. ०क्रियातो र

  80. न्स्यात् र

  81. नित्येना० र

  82. विरुप्यत० र

  83. वार्थ० र

  84. ०क्रियैव र

  85. तस्या इति नास्ति अ

  86. मिष्टस्येति र

  87. क्षणिके० अ

  88. यदा र

  89. ०मते अ

  90. ०रभावार्थ० र

  91. नानेकान्तम्भवेत् र

  92. ०त्वे च र

  93. घटादि० र

  94. ०ति विप्लवते इति
    नास्ति र

  95. ०रेयता० र

  96. ०त्रानिमित्त र

  97. द्वये र

  98. स्थास्थानं र

  99. व्यवस्थितिः र

  100. निष्ठाविपूर्वात् अ

  101. ०सयोर्धर्मोऽनु० र

  102. कथञ्च नि० र

  103. दूषित्वा र

  104. प्रकारेणेति
    नास्ति अ

  105. ०ससिद्वमिद० र

  106. ०क्रमार्थित० अ

  107. ०वादिना शक्यं र

    1052
  108. Reference of note not clear from print.
  109. Reference of note not clear from print.
  110. ०तात्मिका० र

  111. सहकारिवतः र

  112. परोक्षेण अ

  113. ०मध्यगो० र

  114. ०त्ति अन्य० अ

  115. तदपि र

  116. सर्वदा र

    1060
  117. Miscounted note: no nr. 9 in text, only a nr. 10.
  118. Miscounted note: no nr. 9 in text, only a nr. 10.
  119. सर्वत्र...अशक्यत्वादिति नास्ति र

  120. न च अ

  121. अवसीयते...वर्तमानेन सिद्धिरिति भागः पतितः र

    1064
  122. Reference of note not clear from print.
  123. Reference of note not clear from print.
  124. एतेन...हेतुव्यतिरेके इति भागः
    पतितः र

  125. स्वेति नास्ति र

  126. तच्च...भावं त० इति नास्ति र

  127. प्रती० अ

  128. मौल इति
    नास्ति र

  129. ०पन्यासः...निष्ठाविति नास्ति

  130. नास्ति र

  131. ०स्य शक्य० र

  132. ०न्तर एव र

  133. युगपद...मनेका० इति नास्ति र

    1075
  134. Reference of note not clear from print.
  135. Reference of note not clear from print.
  136. तद् भेदस्या० र

  137. अत्र...संबद्धः इति नास्ति र

  138. ०भावात्...बुद्धि० इति नास्ति र

  139. किमनेन...मण्डनेनेति नास्ति र

  140. किमपि परेण र

  141. ०नन्तरेण० र

  142. ०णैवेति र

  143. सामग्र्यो र

  144. अन्यन्या अ,
    अस्या र

  145. ०सिद्धाधि० अ

  146. परीति नास्ति र

  147. सम्बन्धे अ

  148. वपता अ

  149. त्विति नास्ति अ

  150. कार्यत्वे विशे० अ

  151. ०कारणं र

  152. देशभाव? अ

  153. प्रसज्या० र

  154. सर्वेषां सवि० र

  155. मात्राणं अ

  156. तथा र

  157. किञ्चिदिति नास्ति अ

  158. क्वचिदसमवायि
    कारणत्वेनेति नास्ति अ

  159. तत्रैकत्र र

  160. त्वानलवच्च र

  161. तथाविधफल० अ

  162. निसिद्ध० र

  163. ०कार्यं कारणा० र

  164. बीजात्मा र

  165. स्मरणन्यायो र

  166. ०दर्शनादवसी० र

  167. भवति अ

  168. बुद्धिवतः र

  169. विपक्षे र

  170. ०स्यापि दृ० अ

  171. इच्छानि० अ

  172. निवर्त्तमान० अ

  173. वा र

  174. स्यारवीणि० र

  175. ०योगिन अ

  176. कार्यक्षणि० र

  177. ०गाभावात्...स्योपभो० इति नास्ति र

  178. न त्विति नास्ति र

  179. यतः यतः र

  180. ०कर्म
    कुर्व० र

  181. परस्परपात र

  182. ०क्कारक० र

  183. चोदकारोन्तिमस्या र

  184. तदेव अ

  185. नाप
    नीयमानं र

  186. संस्कृतानां र

  187. ०नुरो० इति नास्ति र

  188. भूषिता अ

  189. सन्तान इति नास्ति र

  190. अणुतम० र

  191. योगिणा अ र

  192. वणुत्र र

  193. चाणुवि० र

  194. क्षीणे० इति नास्ति र

  195. जनितस्या० अ

  196. सिद्धे प्रति० र

  197. यत्तक्तं र

  198. नकारस्त्यक्तः र

  199. ०समीक्षिता० र

  200. वदन्तः र

  201. श्चान्यज र

  202. रागफलयितुं र

  203. पेक्षाया अ

  204. वेति र

  205. तत्० र

  206. ०मपेक्षते र

  207. अपि र

  208. न त्वेका र

  209. ०मेव स० अ

  210. ०सम्बद्ध० अ

  211. विचाल ? अ

  212. विचारेऽपि अ, विचानेऽपि र

  213. ०न्यो स्वाश्रय० र

  214. ततो र

  215. ०त विदि
    तव्य० व

  216. लक्षणस्वभाव० र

  217. धूमभस्मादि० र

  218. रागं संविवेच्य अ

  219. नेतरत्र र

  220. तदैवस्य अ, ०यादा अ

  221. ०मनपेक्ष र

  222. व्यवस्थाया कीदृशे अ

  223. स सम० अ

  224. ०विशे
    णापे० अ

  225. कार्यासम्बन्धेति र

  226. ०भावङ्गीयर्वि० र

  227. ०भृतोर्थ र

  228. उत्तमस्मृ० र

  229. ०दप्रयुक्तः अ

  230. अभियन्नि० र

  231. ०कालतद्द० र

  232. ०साकल्या० र

  233. यथा र

  234. एव हि विरामो र

  235. ०सम्भवेत्...र्द्यन्त० र

  236. पूर्वेति नास्ति अ

  237. भावात्यं अ

  238. ०त्युभयस्य निष्प्रमाणक्तं र

  239. ०सिद्धिः र

  240. ०सिद्धिः र

  241. अवस्त्व चैवं र

  242. न पर्यवस्यति र

  243. ०मवतरः र

  244. जन्म अ

  245. दिन्य० र

  246. अत्र वा र

  247. युक्तमु० र

  248. ०देव० र

  249. पौतक? अ

  250. लेध्वो र

  251. ०भावे तद०
    नास्ति अ

  252. अत्रापि इति नास्ति अ

  253. तदपि अ

  254. ०त्माहं र

  255. नाक्षेजे र

  256. ०मस्प्राक्षं अ

  257. न ह्यमिति र

  258. वेति र

  259. ०प्यङ्गी० अ

  260. ०विरहिण अ

  261. संवादेना र

  262. ०स्वक्रिया० र

  263. प्रमाणान्तरे च र

  264. तथाहि अ

    1206
  265. Reference of note not clear from print.
  266. Reference of note not clear from print.
  267. इत्यत्रेति नास्ति र

  268. एक र

  269. अपि अ

  270. तर्हि बुद्धि०...०पुत्रकः शरीरमिति पतितम् अ

  271. चकारो नास्ति र

  272. समानमिति नास्ति अ

  273. समबुद्धि० र

  274. ०र्थप्रत्यनुप्रयोगार्हिदहमिति र

  275. चेच्छामात्र० र

  276. दृष्टमिति नास्ति अ

  277. स्मृति चेति अ

  278. परापि च अ

  279. ०सात्तस्या० र

  280. शरीरेति नास्ति अ

  281. ०वसान० अ

  282. प्यध्ये र

  283. युज्यते र

  284. मात्रेति नास्ति अ

  285. इतीति नास्ति अ

  286. चकारो नास्ति अ

  287. ०नुपदर्श० र

  288. ०मसि र

  289. प्रेति नास्ति र

  290. ०चानेकान्त० र

  291. सम्भवमत्र कथं र

  292. ०भ्बन्धिताधीन० र

  293. विद्यातोतमा० र

  294. नटयति र

  295. वेत्यधिकम् र, धामधृम० अ

  296. रीति अ

  297. पूर्वया र

  298. अस्ति सा अ

  299. यावदेव र

  300. निवृत्तं अ

  301. तदप्युक्त० र

  302. ०र्वोत्तर० अ

  303. विधे अ

  304. ०दर्शनादव० अ

  305. प्रवृत्तेः र

  306. चकारस्त्यक्तः

  307. ०देषानु० र

  308. ०चान्वय० र

  309. त्विति नास्ति अ

  310. ०दध्यक्षिध्यक्षेणा० र

  311. ०रस्थिरत्वमि० र

  312. ०वसानान्त० र

  313. यौगपद्यशङ्का० र

  314. ०नेकर्वेलो० र

  315. ज्ञातानी० अ

  316. कायोदय अ

  317. रारोचिरो?धी० र

  318. परिकृतं र

    1259
  319. Reference of note not clear from print.
  320. Reference of note not clear from print.
  321. ०दीरणेन र

  322. कारणेन र

  323. मानानैकग्र० अ

  324. आशंकेत अ

  325. विरहे र

  326. ग्रहनिग्रहे...युगपदनेक० इति भागः पतितः र

  327. स्वकर० अ

  328. हियेरः र

  329. ०कारः अ

  330. प्रतिसन्धान्ततुरस्थि० अ

  331. ०कारण० र

  332. तत् र

  333. गल्पोल्लासः अ

  334. ०वं चिरमनु० र

  335. प्रतिबध्यत० अ

  336. साकाच्चे र

    1276
  337. Reference of note not clear from print.
  338. Reference of note not clear from print.
  339. कृतिर्नयः अ

  340. तदा० र

  341. ०ऽङ्गो अ

  342. समय र

  343. प्रणे?सिद्धं र

  344. भवे?य र; भतु
    धिय अ

    1283
  345. Notes misnumbered: eight according to marks in text, but only seven are in the notes. I think this one was mistakenly merged with note 6.
  346. Notes misnumbered: eight according to marks in text, but only seven are in the notes. I think this one was mistakenly merged with note 6.
  347. ०श्चितेत्तेप्ये० र

  348. प्रयुक्तः र

  349. आकारभेद एव र

  350. ०ताभिदं अ

  351. ०दनन्या?प्रका० र

  352. ०चित्राक्षरो
    यास्त० र

  353. यथगन्धकर्म र

  354. समग्रमात्रं अ

  355. दुष्यते र

  356. वर्णभेदः र

  357. ०वश्यस्वीकार्यः अ

  358. नेति त्यक्तः र

  359. लक्षणम्बव्यभिचारवत् र; व्यभिचारत्वत् अ

  360. नकारो नास्ति र

  361. न विरोध यावद् र

  362. शक्ताशक्तं र

  363. ०धिषो?पि र

  364. भेभिदे र

  365. अथ अ

  366. ०निवृत्ति० इति नास्ति अ

  367. साकार० र

  368. ननु कारणभेदो० र

  369. यन्नेतर० र

  370. ०रोपदर्शितं र

  371. ०कार कल्पन० अ

  372. भेदाभेदावति र

  373. सामर्थ्येति नास्ति र

  374. क्रमा० इति नास्ति र

  375. ०रेक्रा० र

  376. सातिशयस्य र

  377. भावे
    वे ?चेत्येव र

  378. धर्मेनि र

  379. बहुवा र

  380. विकल्प च दूष० अ

  381. अपि नात्मं अ

  382. अपीति
    नास्ति अ

  383. न? तस्या० र

  384. प्रागेव र

  385. ०त्प्रमाणाभा० र

  386. विधाने च र

  387. न भेदाभ्यां र

  388. मातानिसमवति?र

  389. धमतौ वौ?धर्मः र

    1327
  390. Reference of note not clear from print.
  391. Reference of note not clear from print.
  392. धूमत्वाभ्यां० र

  393. बाधस्य र

  394. धर्मे र

  395. वाच्येव र

  396. व्याप्तारस्य र

  397. धूमाद्यमावयो० अ

  398. प्रकाराणमिव अ

  399. अनष्टि...नङ्कुर
    त्वात् अ

  400. स्वभावे र

  401. व्यापकाभावेनेति नास्ति र

  402. विशेषक्षण० र

  403. योगात् साक्षात् र

  404. आश्रीयन्तञ्जसा र

  405. ०वादक्रमात् र

  406. तथैव सिद्धमित्यसमेभाता० र

  407. ०प्तातुषापाया० र

  408. धर्मित्वस्यैव साधनत्वम० अ

  409. धर्मित्वं र

  410. न? गमकत्वं अ

  411. धर्मित्व० र

  412. सत्यमेव अ

  413. ०रीयत्वाद् अ

  414. वाक्येषु अ

  415. सापेत्य?र, सापेक्षव अ

    1352
  416. Reference of note not clear from print.
  417. Reference of note not clear from print.
  418. तत् अ

  419. यथेति नास्ति र

  420. ०श्चान्त्यः अ

  421. पक्षे र

  422. चेति नास्ति अ

  423. किञ्चित् र

  424. प्र० वा० ३. १९०
  425. सोऽयं र

  426. ०मपतति । तत् र

  427. ०न्नानु० र

  428. ०निवृत्ति...व्याप्येति नास्ति र

  429. सनिवृ०...भवन्ती यद्य० र

  430. भवाज् जन्यते अ

  431. ०रेकोऽस्याङ्गी० र

  432. ज्ञातव्यश्चेति
    नास्ति र

  433. ज्ञातव्ये र

    1369
  434. Reference of note not clear from print.
  435. Reference of note not clear from print.
  436. ०समन्तर० अ

  437. अत्र पत्रक्रर्मो भ्रष्टः अ

  438. वस्तुष्वन० अ

  439. वा र

  440. नकारो नास्ति र

  441. रत्न० निब० ८., ८८

  442. तुल० आ. त.
    वि० ४२३, रत्न० निब० ८., ८८, परिशुद्धि ७१३

  443. किन्त्ववस्त्वन्वयि अ

  444. तुल० आ. त. वि. पृ. ४२५

  445. किञ्च वस्तुनि र

  446. वा अ, र

  447. पत्रक्रमे व्यतिक्रमः अ

  448. सम्भवाञ्च अ

  449. चकारो नास्ति र

  450. नापरो वचनव्यापारः र

  451. क्रमभावा० आ

  452. प्रस्तावेन । वस्तुनि र

  453. विधि० इति नास्ति अ

  454. समर्थानिवृ० र

  455. वस्त्वभावस्तु प्र. वा.

  456. बान्ध्य० प्र. वा. बाल्य र

  457. कौष्ठ० र

  458. विरहार्थ० र

  459. विधेः र

  460. प्रतिज्ञाया इति नास्ति र

  461. प्रक्षेपण अ

  462. प्रतिषेधश्च वि० र

  463. अवस्तुको र

  464. तद्वस्तुनैव र

  465. ०सिद्धिः र

  466. प्रणयणात् अ, प्रणयनति र

  467. ०देव च र

  468. आश्रयसि० र

  469. ०सिद्धिदोषः र

  470. विप्लवेति अ

  471. विरोधात् र

  472. वक्तुमाह र

  473. ०धवचाचसाभा० र

  474. नित्यप्य० र

  475. आसज्येते अ

  476. नकारस्त्यक्तः र

  477. अन्याप्य० र

  478. धर्मभाव० र

  479. ०लम्भोः र

  480. हीति नास्ति र

  481. निर्देना० अ

  482. सह
    पक्षे० र

  483. एष र

  484. पत्रकेन र

  485. किं च सता र

  486. साधनमस्तु र

  487. पुनरसत एव र

  488. प्रतिजानन एव र

  489. ०रहितस्य० अ

  490. ०स्येव र

  491. क्रमविरहितत्वनित्यत्वेन र

  492. ०वक्ष्यसीत्य० र

  493. दृष्टेऽहं र

  494. ०वारणामपि अ

  495. क्रमः अ

  496. ०बाधस्तुन्य० र

  497. अहृत्य र

  498. यदि विनिश्चि० र

  499. प्राक् सन्दि० र

  500. सत्ताको अ

  501. भविष्यन्ति र

  502. नानुषङ्गिण अ

  503. तदेवमित्याका० र

  504. ०ऽभावो र

  505. ०विरहः र

  506. मानं र

  507. ०धर्मेण...स्ववचन० इति
    पतितम् र

  508. ०त्यपि अ

  509. ०प्रतिपत्तिरङ्ग० र

  510. ०ल्पश्च...कार्यः इति पतितम् र

  511. तत्र र

  512. ततो र

  513. नान्यतः र

  514. ०वस्थान्तरं र

  515. तदभावनिषेधनं तु र

  516. मात्रं शरणं अ

  517. इत्यस्य स्वी० र

  518. ०रणं
    प्रसज्यते इति र

  519. बोध० इति नास्ति र

  520. प्रत्याय्यते...तदेति पतितम् र

  521. ०कमायातम्...
    तस्मात्स इति पतितम् र

  522. चेतसि...साधनार्थमिति पतितम् र

  523. यथा र

  524. सौन्दर्यनिषेधो र

  525. चकारो नास्ति र

  526. ततः र

  527. बोधने अ

  528. साधनमभि० अ

  529. ०त्वविकल्पा० र

  530. अत्र पत्रविन्यासव्यति
    क्रमः शोधितः अ

  531. ०स्यावस्तुत्वे र

  532. स्थिरलक्षण० अ

  533. मात्रं साध्यम् र

  534. ०मन्य
    भावा अ

  535. चकारो नास्ति र

  536. भावेन । अभावेन । अभावस्य र

  537. ०स्थाप्यता र

  538. यथा
    प्येकस्य अ

  539. विरोधाविति र

  540. तस्य सत्त्वं र

  541. ०चार्थ० र

  542. अथवा र

  543. तदायातं र

  544. येनैकसम्बिनो र

  545. वस्तुभावे र

  546. अत्र पत्रक्रमः शोधितः अ

  547. नान्यभावो र

  548. विरोधे र

  549. निषेधोप० र

  550. एवन्तु अ

  551. ०विरोधविरोधित्व० र

  552. अथ विरुद्धमिति नास्ति र

  553. परंपरा र

  554. अयमर्थ अ

  555. वान्ध्य० र

  556. विरोधि० अ

  557. विरोधे र

  558. कल्पितवि० र

  559. वेति नास्ति र

  560. हीति नास्ति अ

  561. विरोधे विरोधयोर्विरोधः र

  562. सन्धास न ? अ

  563. ०न्त्राश? र

  564. तत् अ

  565. नीलत्वं तत्रा० र

  566. सदसत्ताव० र, सदसन्ता? अ

  567. च र

  568. विरोध० इति नास्ति अ

  569. पेक्षाना०

  570. यत्र...तत्र नेति नास्ति र

  571. श्राम्यतु र

  572. सत्त्वादिति नास्ति र

  573. ०रेकं र

  574. प्रतिबन्धानवास्तसान्

  575. पोषय र

  576. साधननु? र

  577. ०मानपरो र

  578. विरुद्धो धर्मो र

  579. न धर्मान्तरेऽपि र

    1515
  580. Reference of note not clear from print.
  581. Reference of note not clear from print.
  582. अपीति नास्ति र

  583. युक्तंः र

  584. धर्मिणापि र

  585. नकारो नास्ति र

  586. इत्युक्तं र

  587. धर्मि० इति नास्ति र

  588. दोषो धर्मिणो० अ

  589. व्याह्नियते अ, व्यवह्रियते र

  590. वेति नास्ति

  591. तयेति नास्ति अ

  592. ०बुभौ अ

  593. ०मनित्यमुक्तं र

  594. निनित्ययो० र

  595. नकारो
    नास्ति अ

  596. तर्हि र

  597. पेक्षि?क्ष्यते र

  598. व्यवस्थितिः र

  599. ०सिद्धकाला० र

  600. किं तु र

  601. लाक्षणिको अ,

  602. तत् र

  603. धर्मा र

  604. सन्ति र

  605. धर्मा र

  606. कुर्वतु र

  607. कुर्वतैव र

  608. अर्थ र

  609. यावानवस्तु० र

  610. ०दन्यविप० र

  611. ०भ्यां सि० र

  612. मात्रासिद्ध र

  613. देवाभाव० र

  614. नियमो ना र

  615. प्रमाणान्तरान्नि० र

  616. इत्रयादि० र

  617. साध्यसिद्धत्वमुपयुज्यते इति योजितं केनचित् अ

  618. सिध्यतीति अ

  619. कैऽन्यत्रा र

  620. सत्त्वस्य र

  621. ०पद्येन व्याप्तित्यस्याव्याप्यस्या० र

  622. विषदः र

  623. रूपतया? अ

  624. सदा
    भाव० र

  625. क्रमाक्रमाभावेना० अ

  626. सिद्धौ तेषामसत्त्वमिति नास्ति र

  627. प्रयोजकमुक्तम् अ

  628. ०पेक्ष० र

  629. ०प्यसता० अ

  630. वत्त्वेति र

  631. समन्वित० र

  632. ०पि व्यवहार० अ

  633. ०हारि० र

  634. प्रसङ्ग० र

  635. शमितु० र

  636. अव्यति
    रिक्तशङ्का अ

  637. नित्यस्याश्रयाश इवाभावं अ

  638. व्यापारः र

  639. समिति नास्ति र

  640. प्रति
    पत्तिरिति नास्ति र

  641. साधयत् र

  642. ०त्यपि अनु० र

  643. ०हेतुरवसायि० र

  644. ०पञ्चस्या अ

  645. ०दान० अ

  646. यत् खल्वव्या० र

  647. ०मनाथेया० अ

  648. त्वादिति नाम र

  649. वास्वधर्मिण र

  650. तदेव र

  651. ०वनैव र

  652. ०वनैक० र

  653. त्वा?रकमेव र

  654. रूपा
    रोपणमन्तरेण र

  655. प्रयोजकं नासः र

  656. न र

  657. नित्यव?त्वस्य र

  658. अन्तर्भावाच्च र

  659. धर्ममिति नास्ति र

  660. ०याश्चाकरणात् र

  661. ततः इति नास्ति र

  662. सिद्धिः र

  663. भङ्ग
    मन्तस्तनिष्यन्तः अ

  664. लक्षणप्रामाण्यता?जननी भवति अ

  665. ०धिष्ठानं अ

  666. करणत्वं आ. र

  667. ग्रह एव अ

  668. लिङ्गाश्रयमेव आ, र

  669. वस्तुन आगतमिति नास्ति आ

  670. वस्तुनि च अ

  671. तथैवं अ

  672. प्रत्यया इत्यधिकम् र

  673. ०ष्ठानमनु० र

  674. भूषण० र

  675. नार्थो र

  676. न खरः खरशृङ्गं?

  677. ०दित्या० इति नास्ति र

  678. ०गण० इति नास्ति र

  679. यदा क्रमा० र

  680. परैरनुयोग०? र

  681. क्लान्तिः र, अनेन चानेकान्त० ?