43a असाधारणी च प्रत्यासत्तिर्धर्मिणो विकल्पाकारेण
सहैकीकरणात् । निराकारपक्षेऽपि हि विकल्पायत्तप्रकाशत्वादलीकनित्याकारस्य
धर्मिणः । तस्माद् धर्मिणो वस्त्वधिष्ठानपर्येषणं प्रत्यासत्तिविशेषाश्रयतया विकल्प
बपुषापि कृतार्थीभवेदिति न दोषः कश्चित् । अयमेव न्यायो न वक्ता बन्ध्यासुतश्चैतन्या
भावात्, न खरं1611 खरशृङ्गं द्रव्यतावियोगादित्यादौ योज्यः, नावस्तुनि विरोधः
प्रतीत्यविषयत्वादित्यादौ1612 च शरणम् ।
यदि प्रतीतिमात्रापेक्षया प्रतीत्यविषयत्वं तदा असिद्धिः अनुभवापेक्षयानेकान्तः ।
इत्येवंप्रकारदूषणपरिहारशक्तिः, न पुनराश्रयासिद्ध्यादिदूषणगणगणना1613 काचित् ।
एतेन व्यापकानुपलब्धौ हि व्याप्याभावोऽन्यः प्रतिपत्तव्य इति हेलयापहस्तितम्,
धर्मिरूपस्य भिन्नस्य प्रतिपत्तिविषयस्य प्रतिपादात्, गण्डशैले वृक्षत्वाभावेन शिंशपा
त्वाभाववत् । तदेवं न प्रकृतव्यापकानुपलम्भस्य स्वरूपासिद्धिः, नित्यक्रमयौगपद्ययोः
विरोधप्रतिपादनात् । यदाह, क्रमाक्रमविरोध1614 इति, तद् व्यापकद्वारेण पुनरर्थ
क्रियाविरोधादित्याह । नाप्याश्रयासिद्धिरवस्तुनोऽपि धर्मित्वप्रतिपादनात्, विकल्पेन
प्रतिपत्तिप्रतिपादनाच्च । अतएव शास्त्रे,
इत्युत्सर्गस्य परैरनुत्पाद्यापूर्वरूपं1615 नखादिकं सकृत् शब्दाद्यहेतुत्वादिकमवस्तुनि साध्य
साधनप्रतिज्ञानमपवादो वेदितव्य इति व्यक्तमेतत् ।