यदुत्पत्तौ प्रथमज्ञानेऽर्थान्तरपूर्वकत्वेनैकान्ततो न प्रसिद्धमुद्भिदादि तद्वैदिकव्यवहारे प्रथमोपनिपातात्सामानाधिकरण्येन नामधेयं स्यात् । अथ वैवमपूर्वं कर्म विदधदर्थवद्भविष्यति । अथ वा कस्य नामधेयमिति संदेहेऽभिधीयते । यस्योत्पत्तावपूर्वं निष्पद्यते यागस्येत्यर्थः । किं कारणम्—

गुणो विधीयमानो हि फले कर्मणि वा भवेत् ।
विशिष्टविधिबुद्धया वा सर्वथा च न युज्यते ॥

फलं प्रति तावद्विधीयमाने परपदसंबन्धविधानं व्यवहितकल्पना धातोः पारार्थ्यमौत्पत्तिकसोमबाधोऽनदनीयेन च खनित्रादिनाऽत्यन्ताप्रसिद्धेन याग इति दोषास्तथा यागं प्रति गुणविधौ फलपदानर्थक्यम् । सार्वकाम्यप्राप्तज्योतिष्टोमविशेषणत्वे वाक्यभेदः । प्रत्ययव्यापारविप्रकृष्टता धातुपारार्थ्यानदनीययागसोमबाधविकल्पाश्चात्यन्तायुक्ताः । तथा विशिष्टविधौ 132सर्वपारार्थ्यमनेकविधिशक्तिकल्पना मत्वर्थलक्षणा, गम्यमानसामानाधिकरण्यत्यागोऽनदनीययागश्चेति दोषाः । तस्मान्न गुणविधिः । तद्दर्शयति—इतरथा श्रुतिरुद्भिदादीन् वक्ष्यति तद्वतो लक्षयेत् । वक्ष्यन्ती लक्षयेत् इति वा ग्रन्थः । प्रातिपदिकसामर्थ्यमुक्त्वा विभक्तिसंबन्धादप्येतदेवावगम्यत इति दर्शयति—यागेन कुर्यादित्यादिना । किं च—

324
विधाने चानुवादे च यागः करणमिष्यते ।
तत्समीपे तृतीयान्तस्तद्वाचित्वं नु मुञ्चति ॥

यत्करणाभिधायिन्या तृतीयया इत्येवमादिषु कारकाणां विभक्त्यर्थत्वाभ्युपगमात्कथं133 करणवाचिनो हि प्रातिपदिकादित्युच्यते । नैष दोषः । करणाश्रयवाचिनो हीत्यभिप्रायः । अथ वा करणशब्दो यादृशमर्थं ब्रवीति तादृशस्य प्रातिपदिकं वाचकमेव । कृदन्तेन हि कारकविशिष्टं द्रव्यमेवोच्यते न विभक्तिवन्निष्कृष्टा शक्तिः । तथा च करणं करणेन करणायेति च कारकान्तरयोगो दृश्यते । अन्यथा हि विभक्त्यभिहितेनैवैकेन कारकेण वशीकारान्न द्रव्यं कारकान्तरयोगं प्रतिपद्येत । शक्तेस्तु शक्त्यन्तरं नास्त्येव । तस्माच्छक्त्युपसर्जनद्रव्यवचनत्वात्कृदन्तानामुपपन्नं करणशब्दार्थवाचित्वं प्रातिपदिकस्य । तेनैतदुक्तं भवति । यदस्मिन् वाक्ये करणं तद्वाचिनः प्रातिपदिकात्तृतीययोत्पत्तव्यं यागश्चात्र फलभावनायाः करणं न द्रव्यमिति वक्ष्यति134 । ततश्च यद्युद्भित्पदं यागवचनमेवं तृतीयान्तं सदेकवाक्यतां यास्यत्यर्थान्तरवचनत्वे त्वसंबद्धं स्यात् । ननु च—

प्रत्यक्षं द्रव्यवाचित्वमुपन्यस्तं कथं पुनः ।
करणत्वानुमानेन बाध्यते व्रीहिसोमवत् ॥

यथैव ‘व्रीहिभिर्यजेत’ ‘सोमेन यजेत’ इत्यादीनां करणभूतयागैकवाक्यत्वे सति तृतीयान्तत्वं वैयधिकरण्येऽप्यविरुद्धमेवमिहापीति । हठ इति—चिरंतनतडागोदका325 च्छादितहरितद्रव्यमुच्यते । यथा तदुत्सार्यमाणमपि स्वच्छन्दतः पुनःपुनरुदकं छादयत्येवं योऽन्योऽपि स्वच्छन्दव्यवहारः स हठ इति प्रसिद्धः । तदुच्यते—

पदमज्ञातसंदिग्धं प्रसिद्धैरपृथक्श्रुति135 ।
निर्णीयते निरूढं तु न स्वार्थादपनीयते ॥

व्रीह्यादयो ह्यत्यन्तरूढास्ते स्वार्थमपरित्यजन्तः सामानाधिकरण्यमप्रतिपद्यमाना गत्यन्तराभावाद्गुणविधयो विज्ञायन्ते । ये पुनरुद्भिदादयो यौगिकास्तेषां येनैव प्रकारेण यत्नेन द्रव्यवचनत्वं तेनैव कर्मवचनत्वमप्युपपद्यत इति प्रत्यक्षप्रसिद्धावनुदासीनायामनुमानेनाप्यज्ञानसंशयव्युदासकरणं न दुष्यति । सर्वशब्दार्थावधारणे ह्ययमभ्युपायो, यत्प्रसिद्धसामानाधिकरण्यं नाम । प्रधानं च करणत्वं यागे लब्धात्मकं शक्नोति प्रातिपदिकमात्मविषयमापादयितुम् । किं च—

विभक्त्यर्थानुवादाच्च विधेः स्यान्नाम्नि लाघवम् ।
गुणपक्षे विधेयत्वं संख्याकारकयोरपि ॥

त्वत्पक्षे ह्यवश्यं काचिद्विभक्त्यर्थेऽपि प्रत्ययस्य विधिशक्तिः कल्प्या स्यात् । तस्मादवयद्वारेणास्ति कर्मण्यपि प्रसिद्धिः । ज्योतिष्टोमादेरपि स्वफलोद्भेदनकारित्वादेतन्नामप्रसङ्ग इति चेत् । न । सामानाधिकरण्यावधारितविषयविशेषस्यावयवान्वाख्यानात् । न चास्य ज्योतिष्टोमादिभिः समभिव्याहारोऽस्ति । अथवाऽर्थापत्तिवशेनैतद्विशेषविषयमेवोद्भेदनं निमित्तं, न चान्यत्र तदस्तीति व्यवस्था । यथा सास्नादिमद्गतगमनविशेषनिमित्तत्वं गोशब्दस्य । अविधायकत्वादित्यस्य व्याख्या न नामधेयं विधायिष्यत इति । संज्ञासंज्ञिसंबन्धरूपेण ‘वृद्धिरादैच्’136 इत्यादिवदविधानं सामानाधिकरण्यावयवप्रसिद्धिभ्यां तत्सिद्धेः । न तु नामधेयार्थो न विधीयते तदधीनत्वाद्यामविशेषसिद्धेः । इह हि यद्यपि संज्ञासंज्ञिसामानाधिकरण्यं नास्ति तथाऽप्यात्मरूपव्यवच्छिन्नमेवार्थं संज्ञा गमयतीति 326 विशेषणविशष्यभावान्न भिद्यते । नन्वेवं शब्दस्वरूपाभिधानं प्रसज्येत ।प्रत्यक्षावगतस्वरूपविशिष्टार्थाभिधानादप्रसङ्गः । सर्वत्र ह्यगृहीतविशेषणा विशिष्टबुद्धिर्न दृष्टा, न त्वन भिहितविशेषणा । न चैतावता शब्दस्वरूपारोपप्रसङ्गः । तदनुरोधेन विद्यमानार्थांशविशेषोद्धरणादित्युक्तं प्राक् । नाम्नैव चैवमादीनां प्रकृतितो भेदोऽन्यथा हि तदनवच्छिन्नो यजिर्गुणफलाद्यर्थं पुनः श्रुतिः प्रकृतिगामित्वान्नैव कर्म भिन्द्यात् । अथ वा सर्वनामधेयेषु किंचिदर्थगतमपि विशेषणमस्तीत्यरुणैकहायन्यादिवदेव विशेषणविशेष्यता । न च यज्युच्चारणमन्तरेणास्य यागविशेषनामत्वमिति न सामान्यस्यार्थकत्वम् । परस्परसंनिधानेन हि नामापि यागविषयं यागोऽप्येतदवच्छिन्नो न सामान्यमात्रं प्रकृतो वेति लभ्यते । तस्मादुभयोरर्थवत्ता विशिष्टभावनाविधानाच्चोभयोरपि विधानमिति नानुवादत्वम् । एवं च सति न नामत्वं विधित्वमात्रप्रतियोगीति, ये पूर्वपक्षे विध्यन्तर्भावं सिद्धान्ते तु विध्यर्थवादमन्त्रातिरेकं नाम्नां वर्णयन्ति तेषामयुक्तमेव । अशेषव्यवहाराङ्गभावाच्च नाप्रवृत्तिविशेषकरता । नह्यृत्विग्वरणादिध्वनेनाहं यक्ष्य इति लघुराख्यानोपायः स्यात् । ‘दर्शपूर्णमासावारप्स्यमानः समे दर्शपूर्णमासाभ्याम्’137 इति गुणोपबन्धो दर्शपूर्णमासाभ्यां स्वर्गकाम इति च फलोपबन्धोऽन्यथा न स्यात् । तस्मान्नामधेयान्येवंजातीयकानीति सिद्धम् ॥ २ ॥

  1. सर्वपारार्थ्येति—विशिष्टविधानेऽपि विशिष्टस्यापदार्थत्त्वेन सर्वेषां नामधात्वाख्यातानां विशिष्टसमर्पणात्पारार्थ्यमित्यर्थः ।

  2. अभ्युपगमादिति—‘इह हि गुणमरुणिमानममूर्तं सन्तं क्रियायाः करणमिति शब्द उपदिशति यत्करणाभिधायिन्या तृतीयाविभक्त्या संयुज्य निर्दिशति—अरुणयेति, । इत्याद्यरुणाधिकरणस्थभाष्यविरुद्धमिदं भाष्यमित्याशयः ।

  3. जै. सू. ( २-१-१ ) भावार्थाधिकरणे इति शेषः ।
  4. अपृथक्श्रुतीति—सामानाधिकरण्यनिर्दिष्टं सदित्यर्थः ।

  5. पा॰ सू॰ ( १ । १ । १ ।)
  6. नामधेयस्य भाष्यकारोक्तं गुणफलोपबन्धेनार्थवत्त्वं प्रयोजनान्तरोपलणार्थमित्याह—अशेषेति । कानि प्रयोजनान्तराणीति चेत् ।

    संज्ञायाः कर्मभेत्तृत्वं द्वितीये यद्वदिष्यते । यच्चेष्टौ यागषट्कस्य फलवत्त्वं वदिष्यते । सोमयागस्य च ज्योतिष्टोमेऽध्याये चतुर्थके । यश्चाग्निहोत्रधर्माणां प्रवेशः कौण्डपायिने ॥ सप्तमे वक्ष्यते सर्वं तन्नाम्नां फलमिष्यते । वाक्यान्तरोत्पादिते च कर्मण्यङ्गं विधीयते ॥ फलं वा यत्र तत्रास्मान्नर्ते कर्म विशेषधीः । द्रव्यदैवतशून्यायां यागोत्पत्तौ च नामतः ॥ विना निर्धारणाभावाद्विशेषस्याविधेयता । धर्मप्रमोपयोगित्त्वमप्यस्येत्थं च सिध्यति ॥ यागेनानेन यक्ष्येऽहं तेन याजय मामिति । नाम्ना विनैवमादिश्च व्यवहारो न सिध्यति ॥ मीमांसाविधिवाक्यार्थज्ञानानुष्ठानलक्षणे । त्रिविधे व्यवहारेऽस्मिन् सर्वस्मिन्नाम कारणम् । इत्येवं प्रदर्शितान्यनुसंधेयानि ।