323 अथ वा ‘अथैष ज्योतिः’ इत्येवमादीनां करणविभक्त्याख्यातसंस्पर्शाभावाद्गुणविधित्वानुपपत्तेरेकान्तेन भेदकतया कर्मनामत्वं तदपेक्षया च ज्योतिष्टोमः प्रकृतिः । ननूत्पत्तिवाक्यशिष्टेन सोमेन ज्योतिष्टोमेन वाऽवरोधाज्ज्योतिष्टोमे गुणान्तरविधानमयुक्तम् । काम्यत्वादुद्भिदादयो बाधका भविष्यन्ति । नित्ये प्रयोगे च पूर्वगुणस्यार्थवत्ता । अथ वा विशिष्टविहितमपि कर्म स्वरूपमात्रं निष्कृष्य गुणान्तरे विहितं नौत्पत्तिकाद्विशिष्यते । अन्यथा गत्यसंभवाद्विकल्प इति मन्यते ॥ १ ॥

यदुत्पत्तौ प्रथमज्ञानेऽर्थान्तरपूर्वकत्वेनैकान्ततो न प्रसिद्धमुद्भिदादि तद्वैदिकव्यवहारे प्रथमोपनिपातात्सामानाधिकरण्येन नामधेयं स्यात् । अथ वैवमपूर्वं कर्म विदधदर्थवद्भविष्यति । अथ वा कस्य नामधेयमिति संदेहेऽभिधीयते । यस्योत्पत्तावपूर्वं निष्पद्यते यागस्येत्यर्थः । किं कारणम्—

गुणो विधीयमानो हि फले कर्मणि वा भवेत् ।
विशिष्टविधिबुद्धया वा सर्वथा च न युज्यते ॥

फलं प्रति तावद्विधीयमाने परपदसंबन्धविधानं व्यवहितकल्पना धातोः पारार्थ्यमौत्पत्तिकसोमबाधोऽनदनीयेन च खनित्रादिनाऽत्यन्ताप्रसिद्धेन याग इति दोषास्तथा यागं प्रति गुणविधौ फलपदानर्थक्यम् । सार्वकाम्यप्राप्तज्योतिष्टोमविशेषणत्वे वाक्यभेदः । प्रत्ययव्यापारविप्रकृष्टता धातुपारार्थ्यानदनीययागसोमबाधविकल्पाश्चात्यन्तायुक्ताः । तथा विशिष्टविधौ 132सर्वपारार्थ्यमनेकविधिशक्तिकल्पना मत्वर्थलक्षणा, गम्यमानसामानाधिकरण्यत्यागोऽनदनीययागश्चेति दोषाः । तस्मान्न गुणविधिः । तद्दर्शयति—इतरथा श्रुतिरुद्भिदादीन् वक्ष्यति तद्वतो लक्षयेत् । वक्ष्यन्ती लक्षयेत् इति वा ग्रन्थः । प्रातिपदिकसामर्थ्यमुक्त्वा विभक्तिसंबन्धादप्येतदेवावगम्यत इति दर्शयति—यागेन कुर्यादित्यादिना । किं च—

  1. सर्वपारार्थ्येति—विशिष्टविधानेऽपि विशिष्टस्यापदार्थत्त्वेन सर्वेषां नामधात्वाख्यातानां विशिष्टसमर्पणात्पारार्थ्यमित्यर्थः ।