321
त्र्यंशवेदप्रमाणत्वादुद्भिदादि ततोऽधिकम् ।
धर्मायानुपयुक्तं सदानर्थक्यं प्रपद्यते ॥

नह्येते विध्यादिष्वन्तर्भवन्ति । साध्यसाधनेतिकर्तव्यतानभिधायित्वात्तावच्चोदनाबाह्यत्वं, स्तुतिबुद्धयभावादर्थवादातिरेकः, कर्माङ्गभूतैवंसंज्ञकप्रकाशयितव्यार्थाभावान्मन्त्रकार्यनिवृत्तिः । न चान्यद्वेदप्रयोजनमस्तीत्यप्रमाणमेवंजातीयका इति । अत्राभिधीयते—

सर्वस्य त्रिविभागत्वाद्वेदस्योक्तेन हेतुना ।
उद्भिदाद्यप्रमाणत्वमतिरेकान्न सिध्यति ॥

यदा तदर्थत्रयान्यतमार्थमिति स्थितं तदा विचारः किमर्थमिति । न तावदर्थवादत्वं वाक्यशेषत्वाभावात् । कथं पुनरयं न वाक्यशेषो यावता ‘वायुर्वै क्षेपिष्ठा’ इत्यादिवदेकवाक्यताऽवगम्यते । नैतदस्ति । विधातव्यस्य हि यः शेषः सोऽर्थवादः । अयं तु विध्युद्देशादेव नातिरिच्यत इत्यवाक्यशेषः । तत्संभविनश्च स्तुत्युपयोगित्वं न युज्यत इत्युक्तमौदुम्बराधिकरणे । न चैकपदेन स्तुतिर्दृष्टा । न चेह तां प्रतिपद्यामहे । यदप्युद्भेदनं पशूनामनेन क्रियत इत्येवं प्राशस्त्यं कल्प्येत तदपि तृतीयान्तसमुदायाश्रयबलवत्तरकरणत्वप्रसिद्धया बाध्यते । अन्यथा हि प्रातिपदिकप्राधान्याद्वा ‘वायुर्वै क्षेपिष्ठा’ इतिवत्प्रथमैव प्रायोक्ष्यत । न चास्य मन्त्रत्वं, ताद्रूप्येणाप्रतीतेः । अध्येतृस्मरणाभावाच्च । न चैकपदत्वात्साकाङ्क्षत्वं करणप्रतीत्या वा स्मारकत्वम् । न चैतदभिधेयः कश्चित्प्रयोगसमवाय्यर्थो दृश्यते । न चासमवेतप्रकाशने कर्माङ्गत्वम् । मान्त्रवर्णिकद्रव्यकल्पनायामपि गौरवम् । न चास्य सूक्तवाकवद्विनियोजिका श्रुतिरस्ति येन मान्त्रवर्णिकद्रव्यकल्पना स्यात् । न चास्य रूपं प्रयोगार्हम् । अतश्चाविनियुक्तत्वात् ‘इषे त्वादिवदपि नाध्याहारेण निराकाङ्क्षीकृत्य प्रयोगः । स्फुटं च ब्राह्यणेनैकवाक्यत्वमित्यमन्त्रत्वम् । तस्माद्विध्युद्देशान्तर्गतस्यैवोत्तराधिकरणेन विचार्यते गुणविधिर्नामधेयमिति । तत्र तावत्—

प्रसिद्धेर्बलवत्त्वेन प्रयोजनवशेन च ।