367 विधीयमानं हि स्तोतव्यं न तु स्तुत्यं विधेयमप्राप्तार्थश्च विधिरिति न श्रौतार्थात् प्रच्यवते । यद्यपि तावदर्थवादोपक्रमत्वं भवेत्ततः प्रथमज्ञानानुरोधेन कदाचिद्विधिर्वशीक्रियेत विध्युपक्रमं त्विदं ‘अक्ताः शर्कराः’ इति । तस्मान्निर्दिष्टसामान्ये यद्यर्थवादो न तादर्थ्यं प्रतिपद्यते ततोऽनर्थको भवतीत्यशक्तः स्वतन्त्रीभवितुं, विनाऽपि चार्थवादेन विध्युद्देशः समर्थत्वान्न युक्तस्तद्वश्यः कर्तुम्, अर्थवादस्त्वगतित्वाद्विधिवशेन वर्तते विशेषश्च सामान्यमव्यभिचाराच्छक्नोति लक्षयितुं, न सामान्यं व्यभिचाराद्विशेषं तस्माद्घृतशब्दः स्नेहमात्रलक्षणार्थः ।

कामं वा सोऽर्थवादोऽस्तु सामान्यस्थो घृते विधिः ।
विना स्तुत्या विधानं तु स्नेहद्रव्यान्तरे भवेत् ॥

यथा ऐन्द्रेणापि मन्त्रेण सोमो गृह्यमाणो न केवलं तदर्थो भविष्यत्यन्यदेवत्यस्यामन्त्रग्रहणोपपत्तेरेवमनर्थवादकं तैलवसयोर्विधानं, यत्रैव चांशे स्तुतिर्दृश्यते तत्र विध्युद्देशस्य प्ररोचनाशक्तिरपगच्छति, अन्यत्र त्वविहतशक्तिना विधानमिति सर्वस्नेहग्रहणम् । उच्यते—

समाप्यते विधिः कश्चित्कदाचिन्नाप्ररोचितः ।
घृते प्ररोचनां दृष्टवा विधिस्तत्रानुमीयते ॥

यद्यपि तावद्विधिप्रक्रमे तैलवसयोरप्युपादानं, तथाऽपि प्ररोचनातो विधिर्घृते दृश्यते नेतरयोरित्यनुपादातव्ये कल्पयितव्या च तद्विषया विधेः प्ररोचनाशक्तिः कॢप्ता च घृते । तस्यां च सत्यां काल्पनिकी वाक्यं भिनत्ति घृते च कॢप्तां गृह्णन्नितरत्र च कल्पयन् वैरूप्येणापि विधिर्भिद्येत । तस्माद्विध्युद्देशोऽपि तैलादिभ्योऽपनीयते । यद्यपि च सामान्यशब्दः स्यात्तथाऽपि न कश्चिद्विशेषः । तत्र सामान्यान्यथानुपपत्त्या यत्र क्वचनानुश्रुते विशेषेऽपेक्षिते वाक्यशेषाद् घृत एव प्रत्ययो भवति, घृते च शब्दार्थे यदि श्रुत्यनुरोधेनात्यन्ताश्रुततैलादित्यागः क्रियते किं विरुध्यते संदेहमात्रं हि तत्र बाधितं न तु प्रमाणं किंचित् । क्रियामात्रमेव चेह चोदितं द्रव्यं तत्र न यावत्किंचित् द्रव्यमा