368 क्षिप्येत यदि कश्चिदपि श्रुतिलेशो न स्यात् । घृतार्थवाददर्शनात्त्ववश्यकर्तव्यायामश्रुतद्रव्यविधिकल्पनायां नान्यत्र प्रमाणमस्तीत्यङ्गीकृत्य घृताञ्जनविधिर्गम्यते । तत्र भ्रान्त्युत्पन्नतैलाद्याकाङ्क्षा निर्मूलत्वाद्बाध्यमाना न दुष्येतेत्यविरोधः, तैलादिग्रहणे च लक्षणात्रयं स्यात् । क्रियया द्रवद्रव्येण च विशेषो घृतशब्देन च सामान्यं लक्षयितव्यम् । तस्माद्घृतग्रहणं प्रमाणमिति सिद्धम् । 168वृत्त्यन्तरे त्वत्रैव मन्त्रवर्णोऽप्युदात्दृतः । तत्र तु घृतेन किं करिष्यत इति वक्तव्यम् ॥ २४ ॥

इत्यक्ताधिकरणम् ॥ १३ ॥

सामर्थ्याधिकरणम्

अथ यत्रेति संदिग्धे वाक्यशेषो न विद्यते ।
तत्र सामर्थ्यसिद्धेन विध्यंशेनैव निर्णयः ॥

देवताप्रसादाभयप्रार्थनादौ संहतहस्तसंयोगमात्रमञ्जलिः, ‘नाञ्जलिना वारि पिबेत्’ इत्यादौ व्याकोशः । सक्तुहोमचोदनायां शब्दात्संदेहे सत्यसति चाऽऽकोशस्य वाक्यशेषेऽन्यथानुपपत्तेरेवाऽऽकोशाश्रयणम् । नन्वनेनैव न्यायेन यथा शक्नुयादिति वाक्यशेषादन्धादीनामाज्यावेक्षणादिरहितः कर्माधिकारः स्यात् । न । असंदेहात्, संदिग्धनिर्णयार्थात्त्वेवं कल्पना भवति । न चाधिकारे संदेहः समस्तधर्मोपेतं यथा शक्नुयात्तथा कुर्यादिति वाक्यशेषात् । सन्ति च तादृशस्य कर्तारश्चक्षुष्मदादय इति न प्रयोगचोदनान्यथानुपपत्तिः । यत्र तु यावज्जीवचोदनादावेवं भविष्यति तत्र शक्तिकृताङ्गत्यागेऽपि

  1. अस्मिन्नधिकरणे वृत्त्यन्तरोदाहृतमन्त्रवर्णोपेक्षणे भाष्यकृतोऽभिप्रायमाह—वृत्यन्तरे त्विति । भिन्नवाक्यतयाऽवगतप्रमाणभावानां मन्त्राणामप्यत्रैव संदिग्धार्थनिर्णायकत्वे व्यवस्थापिते षष्ठान्त्ये पशुच्छागाधिकरणे निर्णेयार्थाभावेन तदधिकरणमनर्थकमापद्येतेति भावः ।