यदि तावद्गर्गत्रिरात्रब्राह्मणवेदानुमन्त्रणज्ञानकाले विद्यमानयोरेव मुखशोभावाजिजन्मनोः संकीर्तनं न धर्मं प्रति प्रमाणम् । अथ त्वविद्यमानयोस्ततः स्वार्थेऽपि । वर्तमानापदेशाच्च प्रत्यक्षानुपलब्धिविरोधः, कर्मानुष्ठानयोग्यपुरुषकरणाद्विद्यासंस्कारस्य दीक्षिततीर्थस्नानादिवन्निराकाङ्क्षत्वात्फलविधित्वं निराकरिष्यते । पौनरुक्त्यात्तर्ह्यत्र न विचारयितव्यमत आह तेन फलविधित्वान्निराकृतस्येहाऽऽनर्थक्यार्थवादत्वविचार इति । स्तुत्यर्थताऽपि चासत्यस्य नास्तीति व्यवस्थितमेव ॥ ३ ॥