अनन्तरेणैव पूर्णाहुत्यादिफलवचनानि व्याख्यातानि विधित्वाभ्युपेत्यवादेन तु दोषा111 न्तरमभिधीयते । पूर्णाहुतेरग्निसंस्कारत्वात्पशुबन्धस्य च ज्योतिष्टोमोपकारकत्वादश्वमेधज्ञानस्य च संस्कारत्वान्न तावत्फलविधित्वावसरः । यदि पुनरिष्यते ततोऽन्यानर्थक्यम् । समानफलान्यपि कर्माणि यानि परस्परानपेक्षाणि क्रियन्ते तेषां यथारुच्यनुष्ठानान्नान्यानर्थक्यकरत्वम् । पूर्णाहुतिपशुबन्धयोस्त्वकृतयोरितरकर्मानधिकारात् । प्रथमं वा नियम्येतेत्यनेन न्यायेनावाप्तं फले नोत्तरकर्मानुष्ठानप्रयोजनमस्तीति तद्विध्यानर्थक्यम् । तथा च दृष्टान्तोऽपि तेनैव पथा मध्वर्थिन इति यत्रान्यः पन्थाः पर्वतस्य तत्र गच्छेयुरपि न तु तेनैव गच्छन्ति । तस्माद्भूयसां कॢप्तानां विधीनामनुग्रहाय वरं कल्प्यानामेवानर्थकत्वम् । न च फलविशेषार्थिनः पराणि कर्माण्यविशेषश्रवणात् । न हि समानायां श्रुतावप्रत्यक्षः सन् फलविशेषः कर्मविशेषेभ्यः शक्यः कल्पयितुम् । न च स्तुति रसत्यत्वादिति स्थितमेव ॥ ४ ॥