वाङ्मनसयोर्विद्यमानमविद्यमानं वा स्तेयानृतवदनमुच्यमानं धर्मे स्वार्थेऽपि वा न प्रामाण्यं प्रतिपद्यते । अथ त्वध्याहारादिभिरेवं कल्प्येत वाङ्मनसयोः सर्वशरीरेषु चेष्टाः प्रति प्राधान्यादितरभूतेन्द्रियैरपि तच्चरितमनुवर्तितव्यमिति । ततः शास्त्रविरोधः । तत्रैतत्स्यात् । विहितप्रतिषिद्धत्वात्षोडश्यादिवद्विकल्प इति । इतरस्तु कल्पनीयकॢप्तत्वेन वैषम्यमाह । ननु चात्यन्तदुर्बलोऽपि विधिस्तदधीनात्मलाभेन प्रतिषेधेन तुल्यबलो भवतीति “प्रतिषेधः प्रदेशेऽनारभ्य विधाने च1” इत्यत्र वक्ष्यते । सत्यम् । यस्य शास्त्रमन्तरेणाप्राप्तिरस्ति तत्रैतदेवम् । यत्पुनरर्थप्राप्तं निषिध्यते तत्र विध्यनभ्यनुज्ञयैव लब्धात्मानः प्रतिषेधा बलीयांसो भवन्तीति तत्रैव वक्ष्यतेऽर्थप्राप्तवदिति चेदिति । स्तेयानृतवादयोश्च विनैव शास्त्रेण प्रवृत्तयोर्विधिनिरपेक्षोऽवस्थितः प्रतिषेध इति कल्प्यं विधिं बाधते । 108 तस्मादानर्थक्यम् । अतः परं स्वार्थे नैवाऽऽनर्थक्यं प्रतिपादयति । रात्रिंदिवं धूमार्चिषोरपि दर्शनात् “धूम एवार्चिरेवेति” चैतदद्वयमपि प्रत्यक्षविरोधादवधारणं न संभवति । अथ वा यदनेन प्रतिपाद्यते दिवाऽग्निरादित्यमनुप्रविशति रात्रावादित्यमिति तदवधारणं नोपपद्यते । पूर्वोक्तस्य हेतोरसिद्धत्वात् । ततश्चाग्निसूर्ययोर्नक्तंदिवं व्यवस्थितज्योतिष्टवप्रतिपादनाय स्तुतिरप्यसत्यत्वान्नावकल्पत इत्येषा वाऽनवधारणा । अथ वा सूर्यो ज्योतिरिति प्रातरयं मन्त्रोऽग्निर्ज्योतिरित्येष सायमित्येषा मन्त्रयोरवधारणा न सिध्यति । अथ वा समस्तो वेदः प्रमाणमित्येषाऽवधारणा न सिध्यतीत्यभिप्रायः । शास्त्रविरोधो दृष्टविरोधद्वयं पुनः शास्त्रदृष्टविरोध इति यत्, सदृशन्यायानि सन्ति क्रमभेदेन चोद्यते तत्परिहारसूत्रक्रमभेदानुरोधेन । न चैतद्विद्म इत्यार्षेयवरणशेषोऽभिमतः । स चायं क्रियातत्संबन्ध्यनभिधानात्तद्विषयत्वेनाप्रमाणम् । न हि ब्राह्मणत्वाज्ञानसंदेहविपर्ययाः केनचिदंशेन कर्मण्युपयुज्यन्ते । न च प्रत्यक्षविरुद्धा स्तुतिः संभवति । न च स्वतन्त्रब्राह्मणत्वाज्ञानप्रतिपादनेन प्रामाण्यम् । कथं पुनरयं दृष्टविरोधो यदा समानाकारेषु पिण्डेषु ब्राह्मणत्वादिविभागः शास्त्रेणैव निश्चीयते । नायं शास्त्रविषयो लोकप्रसिद्धत्वादवृक्षत्वादिवत् । कथं पुनरिदं लोकस्य प्रसिद्धम् । प्रत्यक्षेणेति ब्रूमः । कस्मात्पुनर्मातापितृसंबन्धानभिज्ञाश्चक्षुःसंनिकृष्टेषु मनुष्येष्वनाख्यातं न प्रतिपद्यन्ते । शक्त्यभावात् । यथा वृक्षत्वं प्रागभिधानव्युत्पत्तेः । नैतत्तुल्यं वृक्षत्वं प्रागभिधायकव्यापाराज्जात्यन्तरव्यवच्छिन्नं स्वव्यक्तिष्वनुगतं शाखादिमद्रूपेण दृश्यते । न तु ब्राह्मणत्वम् । अपि च व्युत्पन्नशब्दोऽपि निमित्तान्तरादृते नैव प्रतिपद्यते । न चोपवीताध्ययनादि निमित्तम् । वर्णत्रयसाधारणत्वात् । अध्यापनाद्यपि भिन्नाचारक्षत्रियवैश्यप्रतियोगित्वात्संदिग्धम् । सर्वं च दुष्टशूद्रेषु सभाव्यमान109 त्वादनिश्चितम् । यस्त्वविचारितसिद्धमेव प्रतिपद्येत स शुक्तिकामपि रजतं मन्यमानः क्रीणीयात् । नैष दोषः । क्वचिद्धि काचिज्जातिग्रहण इतिकर्तव्यता भवतीति वर्णितमेतत् । तेन यथैवाऽऽलोकेन्द्रियानेकपिण्डानुस्यूतिशब्दस्मरणव्यक्तिमहत्त्वसंनिकर्षाकारविशेषादयोऽन्यजातिग्रहणे कारणं तथैवात्रोत्पादकजातिस्मरणम् । अयं चोत्पाद्योत्पादकसंबन्धो मातुरेव प्रत्यक्षोऽन्येषां त्वनुमानाप्तोपदेशाद्यवगतः कारणं भवति । न चावश्यं प्रत्यक्षावगतमेव प्रत्यक्षनिमित्तं भवति चक्षुरादरेनवगतस्यापि निमित्तत्वदर्शनात् । आन्तरालिकस्मृतिव्यवहितमपि चेन्द्रियसंबन्धानुसारि प्रत्यक्षमित्येतत्साधितम् । न च यत्सहसा सर्वस्य प्रत्यक्षं न भवति तन्निपुणतोऽपि पश्यतां न प्रत्यक्षमित्येतदप्युक्तमेव । स्त्र्यपराधात्तु दुर्ज्ञानोऽयं संबन्ध इति स्वयमेव वक्ष्यति । न च तावन्मात्रेण प्रत्यक्षता हीयते । न हि यद्गिरिशृङ्गमारुह्य गृह्यते तदप्रत्यक्षम् । न च स्त्रीणां क्वचिद्वयभिचारदर्शनात्सर्वत्रैव कल्पना युक्ता । लोकविरुद्धानुमानासंभवात् । विशिष्टेन हि प्रयत्नेन महाकुलीनाः परिरक्षन्त्यात्मानमनेनैव हेतुना राजभिर्ब्राह्मणैश्च स्वपितृपितामहादिपारम्पर्याविस्मरणार्थं समूहलेख्यानि प्रवर्तितानि । तथा च प्रतिकुलं गुणदोषस्मरणात्तदनुरूपाः प्रवृत्तिनिवृत्तयो दृश्यन्ते । न च भर्तृव्यतिरेककृतेन वर्णसंकरोऽपराधेन जायते । दृश्यते ह्यपराधिनीमामपि स्वभर्तृनिमित्तः प्रसवः । तदपराधनिमित्तस्तु तासामशुभफलोपभोगो भवेन्नत्वपत्यानां वर्णसंकरः । न च नियोगतो वर्णान्तरैरेव सह प्रमादः । सवर्णेन चोत्पादितस्य नैव वर्णान्तरत्वापत्तिः । संकरजातानामपि च पुनरुत्कर्षापकर्षाभ्यां सप्तमे पञ्चमे वाऽन्यतरवर्णापत्तिः स्मर्यते । तत्र त्वेतावन्मात्रमागमिकं प्रत्येतव्यम् । न ह्ययं पुरुषेयत्तानियमो लौकिकप्रमाणगम्यः । तस्मात्सत्यपि सारूप्ये यथा केनचिन्निमित्तेन स्त्रीपुंस्कोकिलादिविभागज्ञानं तथैव दर्शनस्मरणपारम्पर्यानुगृहीतप्रत्यक्षगम्यानि ब्राह्मणत्वादीनीति भवत्यज्ञानवचनस्य प्रत्यक्षविरोधः । येषामप्याचारनिमित्ता ब्राह्मणत्वादयस्तेषामपि दृष्टविरोधस्तावदस्त्येव न त्वाचारनिमित्तवर्णविभागे प्रमाणं किंचित् । सिद्धानां हि ब्राह्मणादीनामाचारा विधीयन्ते, तत्रेतरेतराश्रयता भवेत् । ब्राह्मणादीनामाचारस्तद्वशेन ब्राह्मणादय इति । स एव शुभाचारकाले ब्राह्मणः पुनरशुभाचारकाले शूद्र इत्यनवस्थितत्वम् । तथैकेनैव प्रयत्नेन परपीडानुग्रहादि कुर्वतां युगपद्ब्राह्मणत्वाब्राह्मणत्वविरोधः । एताभिरुपपत्तिभिस्त्वयं प्रतिपाद्यते । न तपआदीनां 110 समुदायो ब्राह्मण्यम् । न तज्जनितः संस्कारः । न तदभिवयङ्ग्या जातिः । किं तर्हि मातापितृजातिज्ञानामिव्यङ्ग्या प्रत्यक्षसमधिगम्या । तस्मात्पूर्वेणैव न्यायेन वर्णविभागे व्यवस्थिते मासेन शूद्रीभवतीत्येवमादीनि कर्मनिन्दावचनान्यथ वा वर्णत्रयकर्महानिप्रतिपादनार्थानीति वक्तव्यम् । पूर्ववच्चात्रापि कॢप्तत्वात्प्रत्यक्षस्य कल्प्येनाज्ञानविधिना सह विकल्पो न संभवति । अपि च तत्रानुष्ठानात्मकत्वाद्भवेदपि न त्वत्र वस्तुरूपाणामैकात्म्येनाविकल्प्यत्वात् । को हि तद्वेदेति पूर्ववदेवाज्ञानसंशयविपर्ययाणामनौपयिकत्वादानर्थक्यम् । निश्चितवेदप्रामाण्यैश्च त्रैविद्यवृद्धैर्विज्ञायमानत्वात्स्वार्थेऽप्यानर्थक्यम् । विकल्पाभावश्चानन्तरोक्तवत् ॥ २ ॥

  1. ( अ॰ १॰ पा॰ ८ अं॰ १ )