अपि चाद्रव्यशब्दत्वाद्वयक्तेरेवाभिधेयता ।
सामानाधिकरण्यं हि नाऽऽकृत्यर्थगुणार्थयोः ॥

गोशब्दादीनामाकृतिवचनत्वे गौः शुक्लः, ‘अरुणया पिङ्गाक्ष्यैकहायन्या गवा क्रीणाति’ इति ‘षड्गावो देयाः’ ‘एकां गां दक्षिणां दद्यात्’ इत्येवमादिषु प्रयोगेषु सर्वेषां जातिगुणमात्रवचनत्वात्सामानाधिकरण्यं न प्राप्नोति ।

गोत्वस्य न हि संबन्धः शुक्लत्वारुणिमादिभिः ।
येन षष्ठ्यपि तावत्स्यात्कुतस्त्वेकार्थवृत्तिता ॥
न हि गोत्वात्कृतिः शुक्ला नारुणा नापि षड्गुणा ।
302
व्यक्तिस्त्वेवंगुणा तस्माद्वयक्तेरेवाभिधेयता ॥
मम हि व्यक्तिशब्दत्वात्सिध्यत्येकार्थवृत्तिता ।
तव त्वद्रव्यशब्दत्वाद्भवेद्भेदो गवाश्ववत् ॥

जातिगुणविशिष्टव्यक्तिवचनत्वेन शुद्धव्यक्तिवचनत्वेन वा प्रत्यक्षे भवति सामानाधिकरण्यं, तच्च तत्र द्रव्यम् । एवंविधमपि समानद्रव्यशब्दत्वं त्वत्पक्षे न स्यादिति नञा तदभावप्रसङ्गं दर्शयति । यत्तु भाष्यकारो विपरीतार्थेन द्रव्यशब्देनैव तदाश्रयगुणलक्षणया नञश्चासमर्थसमासमङ्गीकृत्य न द्रव्याश्रयवचनः शब्दो भवेत् । आकृतिवादिन इत्याह । तदतिक्लिष्टं व्यधिकरणनिर्दिष्टगुणप्रयोगार्हं चेत्युपेक्षितव्यम् । तत्रापि चैवमक्षरार्थमात्रसंभवयोजना । द्रव्याश्रयस्य गुणस्य यः शब्दोऽद्रव्यशब्दः स आकृतेर्निर्गुणत्वादेकवाक्यसंबन्धं गोत्वं शुक्लमित्यादिवन्न प्रतिपद्यते । सामानाधिकरण्यचोद्यं तु स्वपक्षेऽप्यविशेषात्तदानीमप्यनुपपन्नमेवेति पूर्वैव व्याख्या कर्तव्या ॥ ३१ ॥ ३२ ॥