किं च119 नैवेष्टकाभिराकृतिसंपादनमभ्युपगतं यतः स्वभावात्स्नाय्वाद्यारब्धद्रव्यसमवायित्वेनोपालम्भः स्यात्पिष्टपिण्डसिंहवत्सादृश्यसंपत्तिः पक्षद्वयेऽपि चोदनार्थः । सा त्वाकृत्यन्तरविलक्षणश्येनाकृत्या स्यान्न तु व्यक्त्यन्तरविलक्षणश्येनविशेषेणासाधारणेन वा । निर्विकल्पत्वात्सामान्यविशेषानपेक्षं व्यक्तिमात्रसादृश्यमविधेयं, सर्वद्रव्येषु तुल्यत्वात् । एकव्यक्तिपरिग्रहाच्च व्यक्त्यन्तरेण सादृश्यं न कार्यं स्यात् । तस्माच्छयेनचित्क्रिया 303 व्यक्तौ शब्दार्थे न संभवति । न साधकतम इति । न ह्येवं स्मृतिः श्येनैश्चीयत इति श्येनचित्, ‘कर्मण्यग्न्याख्यायाम्’120 इति हि सा । श्येनं चयनेन साधयेदितीप्सिततमत्वम् । तत्रापि ‘मुख्यासभवात्सादृश्यपरिग्रहः । असाधारणे शब्दप्रवृत्त्यसंभवात्’121 अव्यपदेश्यत्वेन 304 च सर्वत्राविशेषात्, सामान्याकारेण च निरूपणे विकल्पात्, व्यापकापेक्षया, व्याप्यसामान्यस्य नैव विशेषव्याप्यापेक्षयेतरत्राऽऽकृतिः । तत्र विशेषपक्षे संबन्धानन्वाख्यानव्यभिचारसामान्यबुद्धयभावप्रत्यर्थशक्तिकल्पनादयो दोषाः । न च यत्र संशयस्तत्प्रत्याय्यं भवतीति निर्विषयता शब्दस्य । एतेन स्वतन्त्रोभयाभिधानमार्गः प्रत्युक्तः । व्यक्तिविशिष्टाकृतिमार्गोऽपि ‘नागृहीतविशेषणा’ इति न्यायाद्व्यक्तेः प्रथमग्रहणप्रसङ्गात् संबन्धसमुदाययोरपि स्वरूपप्रत्ययाभावात्सर्वत्र चाविशेषादवश्यं संबन्धिसमुदायिविशेषणताऽभ्युपगन्तव्या भवति । तत्रापि शक्तित्रयकल्पना । व्यक्त्यंशे चोक्तदोषप्रसङ्गः । न च व्यक्त्याकृत्योर्भिन्नकार्ययोर्गुणप्रधाननानावस्थयोः समुदायोपगमनं युक्तम् । अनत्यन्तभेदाच्च भिन्नधर्मौ संबन्धसमुदायौ न युक्तौ । आकृतिविशिष्टोऽपि व्यक्तिविशेषो नैव प्रतीयते । व्यक्तिविशेषबुद्धयभावाद् व्यक्तिमात्रमिति चेन्न । तदानीं तस्याऽऽकृतितोऽन्यत्वेनानिरूपणात् । मात्रशब्दो हि सामान्यवाचीत्याकृतिरेवोच्यते । नानाकारेषु च वस्तुषु तद्भेदानुसारित्वाच्छक्तीनामन्वयव्यतिरेकाभ्यां गोत्वाकारनिबन्धनैव गोशब्दवाच्यत्वशक्तिर्गम्यते तदेकाधारसामान्यान्तरावगतिर्विशेषाकाङ्क्षा वेत्यर्थव्याप्यव्याप्तिम्याम् । अनत्यन्तव्यतिरेकाच्चाऽऽकृतेरमूर्तत्वाद्याश्रयदोषाप्रसङ्गः । सा हि प्रतीयते निष्कृष्टरूपा, क्रियायोगिनी तु व्यक्त्युपेता भवत्येवेति प्रोक्षणावेक्षणादि तु न कथंचिन्न संभवति । विश305 सनाद्यपि तु व्यक्त्यव्यतिरेकापेक्षया संभवत्येव । तथा हि—पश्वादिष्वपनीताङ्गेषु विशेषबुद्धयभावात्सामान्यरूपैव विशसनादिविशिष्टा बुद्धिर्दृष्टा । नन्वेवमनित्याऽऽकृतिः स्यात् । तेनांशेनेष्टैव । आश्रयान्तराविनाशात्तु सर्वैरप्यविनाशोऽवश्यमेवैष्टव्यः । तेन यत्तावन्मात्रमेव तस्य विनाशोऽनेकदेशस्य तु न कथंचिद्विनाशः स्यादित्युभयथा व्यवहारः । अत्यन्तव्यतिरेके तु नैव धर्मविधिविषयो व्यवतिष्ठेत । न च पशुत्वममूर्तत्वात् । तदुपलक्षितं तु यद्द्रव्यं तद्द्रव्यत्वादृते न ताद्रूप्येण गम्यत इत्येकार्थसमवायाद्व्यापकत्वाच्च द्रव्यं गमयितव्यं, तत्राप्यमूर्तत्वं दोषः । आश्रयोपलक्षणाच्च द्रव्यमात्रप्रसङ्गः । विशेषस्तु पशुत्वस्य वा द्रव्यत्वस्य वाऽव्यापकत्वादगम्यः । न वाऽप्रतीतं विधिना संबध्यते । न च यत्र संशयस्तत्प्रतीतम् । न चान्यत्रोक्तो धर्मस्तत्रासंभवादन्यत्र कार्यः । तस्मान्न सामान्ये कृतो विशेषेषु युक्तः, विशेषा अपि व्यपदेशात्सामान्यमेवेत्यमूर्तता । असाधारणेन तु नैव व्यवहारस्तस्मादनिरूप्यो धर्मविधिविषयः । सामानाधिकरण्यादि च प्रसिद्धिविपरीतं लक्षणया कल्प्यम् । भाष्यकारेण तु व्यतिरेकाभ्युपगमेनाऽऽश्रयमात्रगतिरुक्ता विशेषरूपा न कदाचिद् व्यक्तिः प्रतीयते । योऽप्याश्रयाश्रयिभावः सोऽप्यौपचारिकः । सामान्याच्च विशेषलक्षणं तत्र नाऽऽश्रयितव्यम् । आक्षेपमात्रभावादथ वैतद्विषय एवायं प्रपञ्चः किं शब्देनाऽऽकृत्या वेति । अन्वयव्यतिरेकाभ्यां चाऽऽकृत्येति निर्णयः । यो हि धूमादग्निमत्त्वं प्रतिपद्यते तस्य तैक्ष्ण्येऽप्याकाङ्क्षा सिद्धा । मानसादपचारादिति । यो हि जाड्यात्सामान्यवाचितां हित्वा कंचिदेव विशेषं यत्र संबन्धानुपवस्तं वाच्यं मन्यते तस्य सामान्याप्रतीतेर्न विशेषान्तरापेक्षा भवति । अथ वा यथा शब्दात्स्वतन्त्रामाकृतिं बुध्यते नैवं कदाचिदाकृतिमबुद्ध्वा व्यक्तिमिति । केन तर्हि गोत्वागोशब्दयोर्विशेषः । व्यतिरेकांशस्यैकत्र विवक्षा । गोत्ववानिति तु स्फुटं प्रत्ययेन जातिमदभिधानं विभागोपपत्तेः । सामान्यस्य वोपलक्षणत्वान्न भेदपक्षदोषः । भेदानामेव चायं प्रत्येकं सर्वेषां वाचकः । यस्तूपादीयमानत्वे संशयः स संख्याधारविषयः । उद्दिश्यमानेषु निर्ण्य एव । गवादिशब्दग्रहणं सर्वनामाख्याशब्दानामन्तर्भावार्थम् । प्रयोजनं सामान्यविशेषशब्दयोरेकविषयत्वात्सामान्यशिष्टस्य विशेषशिष्टेनाबाधः पूर्वपक्षे । एवं वा—

306
गौरित्येवंविधाः शब्दाः साधुत्वेन निरूपिताः ।
तेषामेवाभिधेयेऽर्थे व्यापारः क्वेति चिन्त्यते ॥
122चतुर्विधे पदे चात्र द्विविधस्यार्थनिर्णयः ।
क्रियते संशयोत्पत्तेर्नोपसर्गनिपातयोः ॥
तयोरर्थाभिधाने हि व्यापारो नैव विद्यते ।
यदर्थद्योतकौ तौ तु वाचकः स विचार्येते ॥
वाचकत्वेऽपि पाश्चात्यमनुयात्येवमादिषु ।
प्रतीयते विशेषो यः संशयेन स नाऽप्यते ॥
यदि ह्यर्थद्वये बुद्धिर्निपातोच्चारणाद्भवेत् ।
ततो विचारो जायेत न सामान्यधिया विना ॥
आख्यातस्यापि नन्वत्र न युक्ताऽर्थविचारणा ।
द्वितीयादावियं यस्माद्विस्तरेण करिष्यते ॥
कः 123पुनर्भाव इत्यादौ विवेकेनार्थनिर्णयः ।
आख्यातस्य कृतस्तेन तच्चिन्ता नोपपद्यते ॥
प्रत्ययार्थस्य भावस्य वाच्यता प्रतिपादिता ।
प्रकृत्यर्थविवेकार्थं विचारः क्रियतेऽधुना ॥
प्रत्ययस्यापि वा तत्र भावार्थत्वे निरूपिते ।
सामान्यं वा विशेषो वा किं वाच्यमिति चिन्त्यते ॥
या चोक्ता भाष्यकारेण यागादेरभिधेयता ।
सिद्धा सेह विवेकार्थं तत्र भावस्य भाषिता ॥
यज्याद्यर्थेऽपि वा वाच्ये किं सामान्यविशेषयोः ।
अभिधेयमिति प्राप्ता चिन्ता कर्तुं क्रियापदे ॥
अपूर्वं भावशब्देभ्यो द्रव्यादिभ्यः किमिष्यते ।
एषा तत्र च चिन्तोक्ता शेषा प्रासङिगकी कथा ॥
नामाख्यातपदे तेन कस्यार्थस्याभिधायके ।
किमाकृतेरुत व्यक्तेरिति चिन्ता प्रवर्तते ॥
प्रयोगस्य प्रतीतेश्च तुल्यत्वाच्छब्दलक्षणे ।
व्यक्तिपक्षाभिधानाच्च संशयः प्रतिभाति नः ॥
307
कथं लक्षणसंबन्धश्रिन्तायाः प्रकृतेन वा ।
स्मृतिमूलविचारेण वक्तव्यं त्विदमादितः ।
इयं प्रासङिगकी चिन्ता साधुशब्दे निरूपिते ।
उदाहृतस्य तस्यैव क्रियतेऽर्थविनिश्चयः ॥
वक्तव्यः पूर्वमर्थश्चेच्छब्दरूपनिरूपणात् ।
न हि वाच्यमविज्ञाय साधुत्वमवधार्यते ॥
अनिश्चितेऽपि वाच्यत्वे व्यक्त्याकृत्योर्विवेकतः ।
साधुत्वं शक्यते ज्ञातुं तेन वाच्यमिहोच्यते ॥
वाच्यमात्रे हि साधुत्वमविज्ञाते न लभ्यते ।
न चाऽऽकृत्या न च व्यक्त्या विना तन्नोपपद्यते ॥
अथ वोक्तेन मार्गेण सर्वा व्याकरणस्मृतिः ।
प्रमाणमिति सिद्धस्य किंचिदत्र विचार्यते ॥
व्यक्तिर्वाच्येति विज्ञानं न सन्मूलमसंभवात् ।
तेन व्याकरणेऽपीदृग् न प्रमाणं स्मृतिर्मता ॥
स्मृतेस्तेनापवादोऽयं प्रामाण्यस्य क्वचित्कृतः ।
युक्तो लक्षणपादाभ्यां पूर्वया चापि चिन्तया ॥
ननु चाऽऽकृतिपक्षेऽपि व्यक्तावेव क्रियाक्रिये ।
शब्दार्थे संभवात्तेन किमर्थैषा विचारणा ॥
यद्यप्येवं न भेदोऽस्ति वेदार्थकरणे नृणाम् ।
दधि विप्रेभ्य इत्यादौ फलं लोके भविष्यति ॥
व्यक्तिपक्षे विकल्पः स्यात्कौण्डिन्ये दधितक्रयोः ।
सामान्यवाक्यदौर्बल्यात्तक्रमेवेतरत्र तु ॥
वेदेऽपि च विशेषोऽस्ति व्रीहिप्रोक्षणचोदके ।
दध्नेत्यादिषुं भेदश्च जायते होमचोदके ॥
प्रोक्षणं पूर्वपक्षेऽपि कर्तव्यं लौकिकेष्वपि ।
व्रीहिषु श्रुतिसामर्थ्याद्बाधित्वा संनिधिक्रमम् ॥
प्रकृतेष्वेव सिद्धान्ते श्रुतिसंनिध्यनुग्रहात् ।
तत्रापि कृत्स्नमस्त्येव व्रीहित्वं हि श्रुतीरितम् ॥
एवं होमेऽपि दध्यादौ प्रकृतेऽप्रकृतेऽथ वा ।
प्रकृते श्रुतिवाच्यस्य होमत्वस्यापि संभवात् ॥
308
सोपपत्तिकमन्यच्च वक्तव्यमनया दिशा ।
कर्तव्या तेन यत्नेन चिन्तेयं सप्रयोजना ॥
ननु गौरितिशब्दादौ सर्वमेतद्विचारितम्124 ।
तेन तेन गतार्थत्वात्पुनश्चिन्ता न युज्यते ॥
आकृतेरभिधेयत्वप्रतिज्ञा केवला कृता ।
तत्रेदानीं सहेतुत्वं तस्या एवाभिधीयते ॥
यथा चाऽऽकृतिरित्यादौ भाष्यकारेण चोदितम् ।
पुनरस्याः प्रतिज्ञाया हेतुरप्यभिधास्यते ॥
यद्वोक्तास्तत्र सद्भावः शब्दार्थत्वमिहोच्यते ।
या तु शब्दार्थता प्रोक्ता सेह सिद्धा न चिन्तिता ॥
उक्ते वाऽप्यभिधेयत्वे जातेः सद्भावसिद्धये ।
व्यक्तिर्वाच्या न वेत्येतदगतार्थं विचार्यते ॥
एतच्चिन्ताप्रसिद्धयर्थमिदं तावद्विचार्यते ।
शब्दार्थौ लौकिकौ वेदे किमन्याविति संशयः ॥
एकत्वे सति कर्तव्यो विचारः शब्दवाच्ययोः ।
भेदे तु संशयाभावान्न चिन्तावसरो यतः ॥
शब्दार्थेन न कार्यं हि व्यवहारेऽर्थलक्षणे ।
लौकिकव्यवहारार्थं तेनेदं न विचार्येते ॥
वेदे तु प्रत्यभिज्ञाने शब्दार्थविषये सति ।
विवेकः शक्यते ज्ञातुं प्रतीतेर्वाच्यगम्ययोः ॥
अलौकिके च शब्दार्थे वाच्यवाचकरूपयोः ।
अज्ञातयोर्न जायेत संदेहो वाच्यवस्तुनि ॥
तेन प्रतीतशब्दार्थे निर्णयार्थमिदं पुरा ।
एकत्वं विद्यते नेति चिन्त्यं शब्दाभिधेययोः ॥
125संख्याभावादिति ह्येतन्ननु स्पष्टं निरूपितम् ।
शब्दस्य प्रत्यभिज्ञानान्नान्यतोच्चारणान्तरे ॥
अभेदकारणं चात्र प्रत्यभिज्ञानमेव ते ।
अन्यत्तूपचयत्वेन तेन चिन्ता न युज्यते ॥
309
लौकिकेष्वेव शब्देषु तत्राभेदः प्रसाधितः ।
वैदिकानामभेदार्थं चिन्तनीयमिदं पुनः ॥
व्यपदेशादिभेदाच्च कथं भेदो न जायते ।
तत्रानुक्तमिदं वक्तुं विचारोऽयं प्रवर्तितः ॥
एकत्वेऽपि च शब्दस्य सिद्धे तत्रेह चिन्त्यते ।
किमर्थो भिद्यते नेति तेनाप्यपुनरुक्तता ॥
अर्थाभेदे च चिन्तेयं शब्दाभेदे तु सत्यापि ।
घटते कस्य वाच्यत्वं व्यक्त्याकृत्योर्द्वयोरपि ॥
व्यपदेशादिभेदेन शब्दे च प्रत्यभिज्ञया ।
भेदाभेदनिमित्ताभ्यां क्रियते संशयोद्भवः ।
किं प्राप्तमुच्यते भिन्नौ शब्दार्थौ लोकवेदयोः ॥
व्यपदेशस्य भिन्नत्वादाख्याया लक्षणस्य च ।
स्वरोच्चारणभेदाच्च लोपव्यत्ययदर्शनात् ॥
स्वरुयूपादिशब्दैश्च स्पष्टभेदैः सह श्रुतेः ।
अनध्यायादिभेदाच्च शूद्रोच्चारणवर्जनात् ॥
अश्ववालादिशब्दानां स्पष्टार्थान्तरदर्शनात् ।
अग्न्यादीनां च भिन्नत्वं भाष्ये यदभिधीयते ॥
तदयुक्तं क्रियाभेदे कर्तृभेदो हि नेष्यते ।
हन्तिकर्तृत्वमग्नेश्च पदार्थेभ्यः प्रतीयते ॥
अशाब्दं वहनिशब्दस्य तद्वाच्यं कथमुच्यते ।
हननं किं कृतं नेति प्रमाणं चात्र नास्ति नः ॥
असता कथमन्यत्वं कर्मणाऽतः प्रतीयते ।
अपूर्वे वृत्रशब्दार्थे क्रियाशब्देऽप्यलौकिके ॥
हन्तिकर्तरि वहनित्वं कथमध्यवसीयते ।
स्तुतिमात्रपरत्वाच्च न वह्नित्वं विधीयते ॥
अक्रियत्वाच्च भाष्योक्तैर्वाक्यैरित्यभिधास्यते ।
तेनोक्तस्यैव शब्दस्य त्रिवृदादेर्नवादिषु ॥
वृत्तिरर्थेष्वपूर्वेषु वक्तव्या भेदसिद्धये ।
126यच्चान्यदिदमित्याह रूपभेदं क्रियाश्रुतेः ॥
तदसत्यं न शब्दस्य भेदोऽर्थगुणकारितः ।
310
तेन स्वरादिभेदेन वक्तव्या भिन्नरूपता ॥
पूर्वोक्तेनैव मार्गेण नार्थभेदनिबन्धना ।
तस्माच्छब्दार्थयोर्भेदः स्पष्ट इत्यवधारिते ॥
तावेव वेदे शब्दार्थौ लोके याविति भाष्यते ।
वेदस्यैव प्रसज्येत सकलस्याप्रमाणता ॥
अविज्ञातार्थसंयोगात्स्थितप्रामाण्यबाधया ।
प्रयोगस्याग्निहोत्रादेश्चोदनायाश्च जायते ॥
अभावः प्रत्ययार्थस्य विधेरप्रतिपादनात् ।
अर्थान्तरे च शब्दस्य न प्रयोगो विधीयते ॥
वेदेनाशास्त्रहेतुत्वात्संबन्धस्येति हि स्थितम्127 ।
किं चाविभक्तरूपत्वं प्रत्यभिज्ञायते स्फुटम् ॥
वैदिकेष्वपि शब्देषु प्रत्यक्षेण पुनःपुनः ।
यद्वा विभागशब्देन शब्दस्योच्चारेण सति ॥
गोत्वबुद्धेः समानत्वान्न भेद इति कीर्त्यते ।
लक्षणस्याविभक्तत्वं शब्दानां वेदमुच्यते ॥
सर्वथा शक्यते भेदो न वक्तुं शब्दवाच्ययोः ।
एकत्वे याज्ञिकानां च प्रसिद्धिरनुगृह्यते ॥
मीमांसा चापि वेदार्थतत्त्वनिर्णयकारणम् ।
व्यपदेशादिभेदैश्च न भेदोऽत्रानुमीयते ॥
प्रत्यक्षप्रत्यभिज्ञाने वेदशब्देऽन्यरूपता ।
व्यपदेशादिभेदश्च स्वरभेदादिकारितः ॥
स्वरादयश्च भिद्यन्ते वेदत्वात्किमिहोच्यते ।
स्वरुयूपादिशब्दानामन्यत्वेनेतरत्र च ॥
नान्यत्वं युज्यते बाधात्प्रत्यक्षप्रत्यभिज्ञया ।
वचनाद्धर्मभेदस्तु शूद्रवर्जितताऽपि वा ॥
धर्मावुच्चारणस्यैतौ न शब्दस्य स्वरश्च यः ।
अश्ववालादिशब्दार्थभेदे वचनकारिते ॥
न च भिन्नत्वमन्येषु प्रज्ञातार्थेषु युज्यते ।
उत्तानानां च केषांचिद्वहतां न विधीयते ॥
311
गोत्वं तेषामसिद्धत्वात्पदार्थाग्रहणादपि ।
विधेरन्यस्य शेषत्वात्स्तुतिरेषाऽवगम्यते ॥
उत्तानेत्यादिका तेन नातो भेदः प्रतीयते ।
तस्माद्यावेव शब्दार्थौ लोके पूर्वं निरूपितौ ॥
वेदे तावेव विज्ञेयाविति सिद्धं प्रमाणवत् ।
यद्वा चैवं तदा युक्ता चिन्तेयं क्रियतेऽधुना ॥
किमाकृतेः पदार्थत्वं किं व्यक्तेः किं द्वयोरिति ।
बहवः प्रतिभान्त्यत्र पक्षाः प्रतिपदं च ये ॥
ते च सर्वेऽभिधीयन्ते व्यामोहविनिवृत्तये ।
गौरित्युच्चरिते सप्त वस्तूनि प्रतिभान्ति नः ॥
जातिर्व्यक्तिश्च संबन्धः समूहो लिङ्गकारके ।
संख्या च सप्तमी तेषामष्टपक्षी द्वयोर्द्वयोः ॥
किं जातिरेव शब्दार्थो व्यक्तिरेवाथ वोभयम् ।
किं विकल्पोऽथ संबन्धः समुदायो निरूप्यताम् ॥
जातिर्व्यक्तिविशिष्टा वा व्यक्तिर्जातिविशेषिता ।
जातिसंबन्धयोरेवं सामान्यसमुदाययोः ॥
जातिकारकयोश्चैवं संख्यासामान्ययोरपि ।
लिङ्गसामान्ययोरेवमेकैकस्येतरैः सह ॥
अष्टौ पक्षा नियोक्तव्याः षङ्भिः प्रत्येकमुक्तवत् ।
एवमानन्त्यमेतेषां पक्षाणामिह गम्यते ॥
पूर्वपक्षेऽपि चत्वारो भाष्ये चैते प्रदर्शिताः ।
व्यक्तेरेवाभिधेयत्वं द्वयोर्वा स्वप्रधानयोः ॥
व्यक्तेर्जातिविशिष्टाया विपरीतमथापि वा ।
उपन्यासेन चैतेषां ज्ञेयाः सर्वे प्रपञ्चिताः ॥
निराकरणयुक्त्या च निषिद्धा इति नोदिताः ।

तेनाऽऽद्यौ द्वावेव पक्षौ विचार्येते किमाकृतिः शब्दार्थो व्यक्तिरिति । भाष्यकारेण च संशयकारणमुक्तं सामान्यप्रत्ययाद्वयक्तौ च क्रियासंभवादिति । एतदयुक्तं, व्यक्तेरपि प्रतीयमानत्वात्कथं जातेरेव प्रतीतिरुपन्यस्यते । यदि च व्यक्तिर्न संप्रतीयेत ततः संशय एव न स्यात्किमभिधीयतेऽनेनेति । न च क्रियासंभवोऽभिधेयत्वे कारणं 312 व्यक्त्यन्तराणामपि प्रसङ्गात् । तेन पूर्वोक्तमेव संशयकारणं मन्तव्यम् । प्रयोगप्रतीत्योः साधारणत्वाच्छास्त्रान्तरे व्यक्तिपक्षाभ्युपगमात्संशयः । यद्वा शब्द उच्चारिते सामान्यप्रत्ययाद् व्यक्त्याकृत्योः सामान्यात्तुल्यात्प्रत्ययाद् व्यक्तौ च शब्दादाकृतावालम्भनस्पर्शनश्येनसदृशचयनादिक्रियासंमवात्सामान्ये व्यक्तौ च प्रत्ययात्क्रियासंभवादिति चोक्तम् । का पुनराकृतिः का व्यक्तिरिति । कथं पुनरयं प्रश्नो यदा गौरित्येतस्य शब्दस्य कोऽर्थ इत्यत्र जातिर्निरूपिता । नैष दोषः । येनैतन्न ज्ञातमसौ पृच्छति का पुनराकृतिः का व्यक्तिरिति । संदेहाद्वाऽत्र पुनरुभयस्मिन्प्रतीयमाने का व्यक्तिः कियती वा जातिरिति । वैपरीत्येन वा कश्चित्पृच्छति यदा शाबलेयादिपिण्डान्न किंचिद् व्यक्तं वस्त्वन्तरं भिन्नमुपलभ्यते तदा कुतोऽयं विवेको व्यक्तिरियं जातिरियमिति । अथ वा व्यवहारार्थं सर्वैव चिन्ता क्रियते जातेश्च पदार्थत्वेऽपि व्यक्तौ क्रियासंभवान्निष्प्रयोजना चिन्ता यतस्त्वसौ प्रयत्नेनैतद्विचारयति । तेन नूनं काऽप्यस्य पिण्डादत्यन्तभिन्नव्यवहारयोग्या जातिरभिप्रेतेत्यभिप्रायः । तत्राऽऽह । द्रव्यगुणकर्मणां सामान्यमात्रमाकृतिरिति । यौ तावदज्ञानसंशयवादिनौ तयोः स्वरूपकथनमात्रेणैव निराकरणं वक्तव्यम् । यस्तु विपरीतवादी तस्यैव निराकरणमभिधीयते । यद्यपि जातिर्व्यक्तेरत्यन्तभिन्ना नोपलभ्यते तथाऽपि शबलाकारे तस्मिन्नुपलभ्यमाने सामान्यबुद्धेरालम्बनं प्रथमपादोक्तेन न्यायेनाऽऽकृतिरितरा व्यक्तिः । न चानेन ग्रन्थेन जातेः सद्भावः प्रमाणं वा प्रतिपाद्यते व्यक्तेर्विवेकः केवलः कथ्यते । तेनैवाभिप्रायेण मात्रशब्दप्रयोगोऽन्यथा तस्य गतार्थतैव भवेत् । यदप्युक्तं नूनं काऽप्यत्यन्तभिन्ना जातिरभिप्रेतेति । तस्याप्युत्तरं द्रव्यगुणकर्मणां सामान्यमात्रमाकृतिरभिप्रेता नात्यन्तव्यतिरिक्तेति । द्रव्यादीनां च सर्वेषां यत्सामान्यं सत्तारूपं तदनेन निर्दिश्यते, तन्निर्देशेनावान्तरसामान्यानामपि निर्देशसिद्धिः । यद्वा सामान्यशब्दस्य प्रत्येकं संबन्धाद्द्रव्यत्वादीनि त्रीणि सामान्यानि निर्दिश्यन्ते सत्तया व्यवहाराभावात् । अथ वा मात्रशब्दप्रयोगाद्द्रव्यादिषु यावन्त्यवान्तरसामान्यानि महासामान्यं च तत्सर्वमभिधीयते । असाधारणविशेषा व्यक्तिरिति बहुव्रीहिः । असाधारणा विशेषा यस्यां व्यक्तौ सेयमसाधारणविशेषा, न त्वसाधारणाश्च ते विशेषाश्चेति सामानाधिकरण्यं संभवति । उपरिष्टाद्विशेषाधारस्य व्यक्तित्वाभिधानात् । स्मृतेश्च128 । तेन सम्यगभिहितं किमाकृतिर्वा व्यक्तिरिति । किं प्राप्तम् । आलम्भनप्रोक्षणविशसनादिप्रयोगचोदनाया व्यक्तिपक्षे भावादाकृतिपक्षे चाभावात् ‘ब्राह्मणो न हन्तव्यः’ ‘सुरा न पातव्या’ इत्यादिप्रतिषेधचोदनायाश्च व्यक्तिपक्ष एव संभवाद्देवदत्त गामभ्याजेत्येबमादिलौकिकव्यवहारचोदनायाश्चोपपत्तेर्व्यक्तिः शब्दार्थ इति निश्चीयते । संख्याकारकोपपत्तेश्च । यदि हि व्यक्तिः 313 शब्दार्थो भवति ततो वृक्षौ वृक्षाभ्यामिति प्रातिपदिकाभिहितासु व्यक्तिषु प्रत्ययाभिहितद्वित्वादिसंख्याकरणादिकारकं वोभयमुपपद्यते, इतरत्र तु जातेरसंख्येयत्वादकारकात्वाच्चोभयमप्यनुपपन्नम् । लाक्षणिकव्यक्त्याश्रयणं चाऽऽपद्येताम् । तथा च सर्ववैदिकवाक्यार्थानां लाक्षणिकत्वं स्यात् । व्यक्तिपक्षे च पुरुषो देवदत्त इति मुख्यशब्दसामानाधिकरण्योपपत्तिः । जातिपक्षे लाक्षणिकद्वारं सामानाधिकरण्यं कल्पयितव्यं भवेत्तेनापि व्यक्तेः पदार्थत्वमवसीयते । ‘पशुमालभेत’ इति च श्रुतेर्हृदयजिह्वादिभिर्व्यक्त्यवयवैरुपरिष्टाद् व्यवहारो दृश्यते न जांत्या कर्मभिश्च द्रव्यस्यापेक्षितत्वाद् । व्यक्तिपक्षेऽपेक्षिताभिधानं नेतरत्र, सिद्धस्वरूपायाश्च व्यक्तेरभिधेयत्वं युक्तं नाप्रसिद्धाया जातेरतो व्यक्तिः शब्दार्थः । किमित्युभयं वाच्यं नाऽऽश्रीयते प्रयोगप्रतीतिक्रियोपपत्तेरिति चेत् । न । अनेकशक्तिकल्पनाप्रसङ्गादेकाभिधानेनैव संबन्धादितरत्र प्रतीतेरुपपन्नत्वाद् व्यक्तेरेवाभिधेयत्वम् । सामान्यप्रत्ययः कथमिति चेद् व्यक्तिसंबन्धादुपपत्स्यते । यत्रैव क्रियानुपपत्तिस्तत्रैवार्थापत्त्या व्यक्तिवचनत्वं युक्तम्, अन्यत्र तु पूर्वप्रतीतेर्जातिवचनत्वमेव न्याय्यमिति चेत् । न । उक्तमार्गेणानेकशक्तिकल्पनादिदोषप्रसङ्गात् । अवनस्थितशब्दार्थसंबन्धापत्तेः संशयापत्तेश्च । व्यक्तिवादिनः कथं निर्निमित्तता व्यक्त्यन्तरे शब्दस्य प्रवृत्तिरिति चेदाकृतिचिह्ननिमित्तत्वाद् व्यक्त्यन्तरे प्रयोगस्याविरोधः । भाष्यकारस्तु कथं सामान्यावगतिः—इत्युपन्यस्य, आकृतिश्चिह्नभूता भविष्यतीत्युत्तरं ददाति, तदसंबद्धम् । कथं सामान्यप्रत्ययः कारणे पृष्टे व्यक्त्यन्तरप्रयोगनिमित्तं कथ्यते । तेनाध्याहारेणैतद् व्याख्येयम् । कथं सामान्यावगतिरिति चेत् । व्यक्तिसंबन्धात् । कथं व्यक्त्यन्तरे प्रयोगः, चिह्नत्वादाकृतेरित्येवम् । यद्वा कथं सामान्यावगतिरिति तेदित्युपन्यस्ते पूर्वपक्षवादी सामान्यावगतिमपह्नोतुमशक्नुवन्नाकृतिविशिष्टव्यक्त्यभिधानपक्षं परिगृह्णात्याकृतिश्चिह्नभूता विशेषणभूताऽभिधेया भविष्यति । अतश्च तत्प्रतीतिरचोद्या । तेन केवला विशिष्टा वा व्यक्तिः शब्दार्थः । तथा च ‘षङ् देया’ इत्येवमादिषु षडादिका संख्योपपत्स्यते । अन्यं तद्वर्णमिति च व्यक्त्यन्तरेऽन्यशब्दोपपत्तिस्तद्धर्मता च भविष्यति । अन्यथा व्यक्त्यन्तरानयनेऽपि जातेरनन्यत्वादगुणत्वाच्चोभयमनुपपन्नं, तस्माद् व्यक्तिः शब्दार्थ इति प्राप्तेऽभिधीयते । नैतद् व्यक्तिः शब्दवाच्येति किं त्वाकृतिः पदार्थ इति विज्ञायते । ‘श्येनचितं चिन्वीत’ इति श्रवणात् । अत्र हि श्येनव्यक्तिं चयनेन कुर्यादाकृतिं वेति वाक्यार्थौ स्याताम् । यावदिष्टकाभिः श्येनव्यक्तेः कर्तुमशक्यत्वात् स्नाय्वादिभिरप्यनिर्वृत्तेरिष्टकाबाधाच्छेनव्यक्तेः प्रयोजनकल्पनाच्चिनोतेरमुख्यार्थत्वात् ‘कर्मण्यग्न्याख्यायाम्’129 इति स्मृतिपरित्यागप्रसङ्गाच्च चयनेन श्येनव्यक्तिं कुर्यादित्येवं तावन्नोपपद्यते । तथाऽऽ314 कृतेरपीष्टकाभिः कर्तुमशक्यत्वाद्दैवनिर्मितत्वात्प्रयोजनकल्पनाच्चिनोतेरयथार्थत्वप्रसङ्गात्स्मृतिबाधाच्चाऽऽकृतिं कुर्यादित्यपि नोपपद्यते । परिशेषाच्छयेनमिव चितमग्निस्थलं चयनेन निर्वर्तयेदिति वाक्यार्थः, ततश्च यया कया चिच्छयेनव्यक्त्या सदृशस्याग्नेश्चेतुमशक्यत्वात्सर्वव्यक्तिसादृश्यासंभवादतीतानागतव्यक्तिसादृश्यानुपपत्तेश्च श्येनाकृतिसादृश्यसंपत्तिसंभवाच्चाऽऽकृतिः शब्दार्थं इति निश्चीयते ।

अथ कस्माच्छयेनव्यक्तिभिश्चयनचोदनेयं नाऽऽश्नीयते ‘श्येनचितं चिन्वीत’ इति । तत्र भाष्यकारेणोत्तरं दत्तम् । ईप्सिततमो ह्यसौ श्येनशब्देन निर्दिश्यत इति । तदयुक्तम् । न ह्यत्र श्येनशब्दः स्वार्थो, न च सकलश्येनचिच्छब्दोत्तरकालं श्रुतत्वाद् द्वितीयायास्तद130न्तो, येनेप्सिततमार्थप्रतिपादकः स्यात् । तेन कर्मण्यग्न्याख्यायामिति स्मृतेः श्येनशब्दार्थस्य करणत्वं निषेद्धव्यम् । कर्मणि हि कारके चिनोतेः क्विप्प्रत्ययः स्मर्यते यदि चिनोतिरग्न्याख्या भवति । न च चिनोतेः केवलस्याग्निवचनत्वं संभवति । तेन क्विबन्तचिनोतिश्रुतेः श्येनचिच्छब्दस्य सकलस्याग्निवचनत्वं निश्चीयते न श्येनशब्दस्य पृथगर्थता । तेन श्येनशब्दार्थः करणतया विज्ञायते । यदि वाऽसौ करणं स्यात्ततो लक्षणाभावात्तृतीयासमासवचनानुपपत्तिर्भवेत् । तृतीया चाश्रुता काल्पनीया । श्रुतकरणत्वे इष्टकापरित्यागश्च स्यात् । सत्यां च गतौ प्रतिषिद्धानेकश्येनव्यक्तिहिंसा जायते तेन करणत्वानुपपत्तेः श्येनमिव चितमग्निं चिन्वीतेति वाक्यार्थोऽतश्चोक्तेन न्यायेनास्य वाक्यस्याऽऽकृतिपक्षे संभवादाकृतिः पदार्थ इति । नैतदेवम् । न हि चयनक्रियासंभवमात्रेणाऽऽकृतेरभिधेयत्वं लभ्यते । व्यक्तिपक्षेऽभ्युपलम्भनादिक्रियासंभवात् । बहुत्वाच्चालम्भनादिवाक्यानां तदन्यथानुपपत्त्या व्यक्तेरेव पदार्थत्वमवसीयते । अथाऽऽकृतिपक्षेऽपि व्यक्तिलक्षणया तान्युपपत्स्यन्त इत्युच्यते तदैतदपि शक्यमेव वक्तुं श्येनवाक्ये व्यक्तिराकृतिलक्षणार्थेति । युक्ता चैकत्र लक्षणा नेतरेषु बहुषु । अगत्या वा तृतीयासमासाश्रयणं श्येनवाक्ये करीष्यते । संख्याकारकाद्युपपत्तिश्च व्यक्तिपक्षे तेन व्यक्तिः शब्दार्थ इति स्थितेऽभिधीयते जातिरभिधेयेति । कुतः—

पूर्वं सामान्यविज्ञानाच्चित्रबुद्धेरनुद्भवात् ।
गामानयेतिवाक्याच्च यथारुचिपरिग्रहात् ॥

गोशब्दोच्चारणे हि पूर्वमेवागृहीतासु व्यक्तिषु सामान्यं प्रतीयते तदाकारज्ञानोत्पत्तेपश्चाद्व्यक्तयः प्रतीयन्तेऽतश्चाऽऽकृतिप्रत्ययस्य निमित्तान्तराभावाद्व्यक्तिप्रत्यये च पूर्वप्रतीतसामान्यनिमित्तत्वादाकृतिः शब्दार्थ इति विज्ञायते । यदि च व्यक्तयोऽभिधेया भवेयुस्ततस्तासां चित्रखण्डभुण्डादिविशेषस्वरूपग्रहणाद्विचित्रा शब्दोच्चारणे बुद्धि स्यात् । एकाकारा तूत्पद्यते । तेनाप्याकृतिः शब्दार्थ इति निश्चीयते । गामानयेति चोदितेऽर्थ315 प्रकरणाभावे यां कां चित्सामान्ययुक्तां व्यक्तिमानयति न सर्वां न विशिष्टाम् । यदि च व्यक्तेरभिधेयत्वं ततः सर्वासां युगपदभिहितत्वादशेषानयनं स्यात् । या वाऽभिधेया सैवैकाऽऽनीयेत यतस्त्वविशेषेण जातिमात्रयुक्ताऽऽनीयते तेनापि सामान्यस्य पदार्थत्वं विज्ञायते । व्यक्तिपक्षे च सर्वा वा स्वतन्त्रा व्यक्तयोऽभिधीयेरन् व्यक्तिविशिष्टो वा समुदायः का चिद्वैका व्यक्तिरिति । तत्र सर्वव्यक्त्यभिधानं तावदयुक्तम् । अनेकवाचकशक्तिकल्पनाप्रसङ्गादनित्यशब्दार्थसंबन्धापत्तेरशेषव्यक्तिग्रहणाशक्तेश्च संबन्धाग्रहणे सति व्यवहारानुपपत्तेः । नित्यवद् गोशब्दस्याष्टशब्दवद्बहुविषयत्वादेकवचनद्विवचनश्रुत्यसंभवाद्गोशब्दाभिहितासु च सर्वव्यक्तिषु शुक्लगुणाभावे गौः शुक्ल इति सामानाधिकरण्यासंभवात् । ‘पशुना यजेत’ इति च पशुशब्दोपात्ताभिः सर्वव्यक्तिभिर्यागस्य कर्तुमशक्यत्वात्ततश्च वेदाप्रामाण्यप्रसक्तिः । एवं समुदायपक्षोऽपि न संभवति । तत्रापि हि विशेषणत्वेन व्यक्तयोऽभिधातव्यास्ततश्चोक्तदोषप्रसङ्गः । व्यक्तिव्यतिरिक्तसमुदायकल्पना, तेन च व्यवहाराभावादभिधानानर्थक्यं समुदायिविनाशे च तस्याप्यनित्यत्वादनित्यशब्दार्थसंबन्धप्रसङ्गः । समुदायस्य चैकत्वादद्विवचनबहुवचनानुपपत्तिः सामानाधिकरण्यासंभवश्च । तेन चामूर्तेन यागाद्यसंभवाद्वेदस्याप्रामाण्यम् । अथैका व्यक्तिरभिधीयत इत्युच्यते तत्रापि संबन्धानित्यत्वं, काऽसावभिधीयत इत्यज्ञानाद्वयवहाराणामसंभवः सामान्यप्रत्ययानुपपत्तिर्द्विवचनबहुवचनाभावप्रसङ्गः । प्राक् चाभिधेयव्यक्त्युत्पत्तेरुत्तरकालं च प्रयोगासंभवः । समाने च गोत्वे प्रतीतौ चेयमभिधीयते नेयमिति विशेषकारणं नास्ति । अतः परं भाष्यार्थः । यदि चैका व्यक्तिरभिधेया भवेद्वयक्त्यन्तरे प्रयोगो न स्यादभिधेयव्यक्ते स्तत्राभावादत्यन्तविलक्षणत्वाच्च, सामान्यविशेषविनिर्मुक्ता हि व्यक्तिरित्युच्यते । न च सामान्यविशेषौ मुक्त्वा व्यक्त्यन्तरेऽन्यदस्ति येन शब्दप्रयोगः स्यात् । ननु च यथैवैका सामान्यविशेषविनिर्मुक्ता तथा द्वितीया यतश्च यथैवैकस्यां सामान्यविशेषविनिर्मुक्तायां शब्दस्य प्रवृत्तिरेवमविशेषादितरत्रापि भविष्यति । यदि सामान्यरूपं विशेषरूपं वा व्यक्त्यन्तरं स्यात्ततो विलक्षणत्वाच्छब्दो न प्रवर्तते, यदा तु तदप्युभयविनिर्मुक्तं रूपं तदा तुल्यरूपत्वादयुक्ता शब्दस्य प्रवृत्तिरिति । यद्येवं सामान्यविशेषविनिर्मुक्तत्वादेकत्रेतरत्र च शब्दो वर्तते हन्त तर्हि सामान्यविशेषविनिर्मुक्तत्वमेव सामान्यं शब्दस्याभिधेयं स्यादिति सिद्धो नः पक्षः । तस्याऽऽकृतिशब्दवाच्यत्वे केवलं भवतः प्रद्वेष इति । पूर्वपक्षवाद्याह नैवं मयोच्यते सामान्यविशेषविनिर्मुक्तत्वाद्वयक्तौ शब्दो वर्तते व्यक्त्यन्तरे वेति, किं तु सामान्यविशेषव्यतिरेकेणान्यापोहवद्वयक्तिः कथ्यते । तत्र कथं सामान्यमेव तर्हि वाच्यमित्युच्यते यो ह्यर्थः सामान्यस्य विशेषाणां चाऽऽश्रयः सा व्यक्तिर्न सामान्यविशेषौ । ततश्च यथैवैकस्यां सामान्यविशेषव्यतिरिक्तायां व्यक्तौ 316 शब्दस्य वृत्तिस्तथाऽन्यस्यामपि भविष्यति । सिद्धान्तवाद्याह—यदि तावत्सामान्यविशेषविनिर्मुक्तत्वाच्छब्दो वर्तते ततः सामान्यमेव वाच्यम् । अथ समानं निमित्तं नास्ति तदा व्यक्त्यन्तरे वृत्तिर्न प्राप्नोति । तदभावेऽपि चेद्वर्तेत ततोऽश्वव्यक्तावपि वृत्तिप्रसक्तेरतिप्रसङ्गः स्यादिति । नैवम् । सामान्यनिरपेक्षायामेव शब्दप्रवृत्तौ प्रयोगकृतव्यवस्थाश्रयणान्नातिप्रसङ्गो भविष्यति, । यद्येवं प्रयोगवशेन शब्दो वर्तेत ततोऽद्य जातायां गवि न दृष्ट इति शब्दो न प्रवर्तेत तेन प्रयोगकृता चेव्द्यवस्था क्व चिदप्रसङ्गो न चेदतिप्रसङ्ग इति । यत्तु भिन्नासु व्यक्तिषु सामान्यप्रत्ययो न प्राप्नोत्ययमपि गौरयमपीति तदिहातिप्रसङ्गापादनेन न संबध्यत इति व्यक्त्यन्तरे प्रयोगो न प्राप्नोतीत्यस्मिन्नवसरे वक्तव्यम् । शक्त्या तर्हि व्यवस्था भविष्यति, यत्र शक्तः शब्दस्तत्र वर्तिष्यते प्रयोक्ष्यते च यत्र तु शक्तिर्नास्ति तत्र प्रयोगप्रवृत्ती न भविष्यतस्ततश्च गोव्यक्तिष्वेव शक्तेः प्रयोगव्यवस्था भविष्यति । नैवमपि व्यवस्था लभ्यते । प्राक् प्रयोगाच्छब्दशक्तेरविज्ञानात्प्रयोगप्रतीत्यधीनं हि शब्दशक्तिज्ञानं तत्कथमिवानुत्पन्नं प्रयोगकाले व्यवस्थाकारणत्वेनाऽऽश्रयितुं युक्तम् । यद्यपि श्रोता प्रयोगाच्छक्तिं जानाति तथाऽपि प्रयोक्त्रा कथं ज्ञातं गोव्यक्तावयं शक्तः शब्दो नाश्वव्यक्ताविति, तेनाश्वव्यक्तावपि प्रयोगः प्राप्नोति । जात्या किमिति व्यवस्था नाऽऽश्रीयते यत्र गोत्वमुपलक्षणं तत्र शब्दो वर्तिष्यते यत्र तन्नास्ति तत्राश्वव्यक्त्यादौ वृत्तिर्न भविष्यति ततश्च व्यवस्थासिद्धिरिति । सत्यमेवं सिध्यति, किं त्वापन्नो भवानस्मत्पक्षमाकृतिर्वाच्येति । न ह्यनभिधाय गोत्वमुपलक्षणं गोव्यक्तावेव प्रयोगव्यवस्था लभ्यते तच्चेदभिहितं सिद्धमाकृतिशब्दार्थत्वमिति । पूर्वपक्षवादी तु द्वितीयं पूर्वपक्षमुपन्यस्यति सत्यमाकृतिरभिधीयते किं तु गुणत्वेन स्थिता व्यक्तिः प्राधान्येन शब्दार्थः । न चाऽऽवयोरुभयं नाभिधीयत इति प्रतिज्ञा । कस्य चित्प्राधान्येन किं चिदभिधेयतया विवक्षितं किं चिद्गुणत्वेन, तदुक्तं व्यक्तिः प्राधान्येनाभिधेयेति । एवं सति प्रयोगव्यवस्थोभयप्रतीतिश्च तथाऽऽलम्भनादिक्रियोपपत्तिश्च भविष्यति । इतरस्त्वाह—मैवं लभ्यते । जातिश्चेत्पूर्वमभिधेयत्वेनाभ्युपगताऽत्रैव शब्दस्योपक्षीणशक्तित्वान्न व्यक्तिवचनता लभ्यते । न चाऽऽकृतिसंवेदनेनापि व्यक्तिप्रतीतेरन्यथाऽप्युपपन्नत्वात्सत्यां गतावनेकार्थता युज्यतेऽभ्युपगन्तुम् । अर्थापत्त्या च शब्दस्य वाचकशक्तिः कल्प्यते । सा च यदा व्यक्तिप्रतीतेरन्यथाऽप्युपपन्नत्वात् क्षीणा तदा वाचकशक्तिकल्पनायां प्रमाणं नास्ति । न च सामान्यविशेषवचनत्वं शब्दस्य दृष्टमक्षादिशब्दानामनेकसामान्यवचनत्वात् । अन्वयव्यतिरेकाभ्यां च व्यक्तेरशब्दार्थत्वं निश्चीयते । अनुच्चरितेऽपि शब्दे प्रतीतसामान्यस्य व्यक्तिप्रतीतेः श्रुतिशब्दस्यापि चागृहीतसामान्यस्य व्यक्तिप्रत्ययाभावात्तेनाऽऽकृतिरेव शब्दार्थ इति । 317 सांप्रतं पक्षान्तरमुपन्यस्यति । अथ व्यक्तिविशिष्टायामाकृतौ किमिति न वर्तते । तदेतत्प्रयोगप्रतीतिक्रियासंभवत्वेन वा पक्षान्तरमुपन्यस्तम् । यद्वा व्यक्तेरेव शब्दार्थत्वं साधयितुमिदमुच्यतेऽनेनाभिप्रायेण, कदा चित्सिद्धान्तवाद्याकृतेः शब्दार्थत्वमनेनाभ्युपगतमेवाऽऽलम्भनादिक्रियासंभवश्च भविष्यतीत्यनेनाभिप्रायेण व्यक्तेरपि गुणत्वेनाभिधानमिच्छति ततोऽहं पूर्वं तावद्विशेषणे वर्तितुमर्हतीति व्यक्तिवचनत्वमेव साधयिष्यामीति । इतरस्तु तदभिप्रायं ज्ञात्वोत्तरं वदति व्यक्त्यन्तरविशिष्टायां प्रयोगो न प्राप्नोतीति । यदि हि व्यक्तिविशिष्टा जातिरभिधीयते ततो व्यक्त्यभिधानपक्षोक्तदोषप्रसङ्गः, अनेकशक्तिकल्पनादिरूपो व्यक्त्यन्तरे प्रयोगश्च न प्राप्नोति विशेषणस्यान्यत्वादिति । तेन जातिरेव शब्दार्थः । ननु गुणभूता प्रतीयतेऽतश्चान्येन प्रधानेनाभिधेयेन भवितव्यमिति । नैवं शब्देन तावत्सैवाभिधीयते । यदि विवक्षावशेनार्थाद्गुणत्वं प्राधान्यं वा भवति भवतु नाम न तावता शब्दाभिधेयत्वं व्याहन्यते । यदा चासौ शब्देनाभिधीयते तदा गुणत्वं नैव प्रतीयते तेनार्थाद्गुणत्वप्रतीतिरदोषः । ननु पूर्वपक्षोक्तैः कारणैर्व्यक्तेरेव शब्दार्थत्वं युक्तं व्यक्त्यन्तरे प्रयोगो न प्राप्नोतीति चेत् । आकृतिश्चिह्नभूता भविष्यति । यथाऽनभिधीयमानमपि काकनिलयनं देवदत्तगृहशब्दस्य स्वार्थमभिदधतश्चिह्नभूततां प्रतिपद्यते तद्वदाकृतिश्चिह्नं व्यक्त्यभिधाने भविष्यति । भाष्यकारेण तु दण्डिशब्दो दृष्टान्तत्वेनोपात्तो यथा तेन न नाम किल दण्डोऽभिधीयते । अथ च दण्डविशिष्टः पुरुषः प्रत्याय्यते तद्वदाकृतावपीति । ननु दण्डिशब्दे प्रकृत्या दण्डोऽभिधीयत एव कथमुच्यते न च तावद्दण्डोऽभिधीयत इति । कथं चोपलक्षणत्वेनाऽऽकृतावुपन्यस्तायां विशिष्टः 318 प्रत्याय्यत इति विशेषणं दृष्टान्ततयोपन्यस्तमिति । नायं दोषः । विशेष्याभिधायकप्रत्ययाभिप्रायत्वाद्दण्डानभिधानस्य । यथा प्रत्ययेन न च तावद्दण्डोऽभिधीयते । अथ च तद्विशिष्टः पुरुषः प्रत्याय्यते तथेहापि भविष्यतीत्यभिप्रायः । यत्तूपलक्षणोपन्यासे विशेषणस्य दृष्टान्तता न युक्तेति । तदुपलक्षणस्यापि विशेषकत्वान्न चोद्यम् । यद्वा केनचित्सामान्येन दृष्टान्तता भविष्यत्यनभिधेयत्वेन विशेषकत्वेन चेत्यदुष्टं, ततश्च सम्यगभिहितं यथा दण्डिशब्दे तद्वदत्रापि भविष्यतीति । एवं चाप्रसङ्गातिप्रसङ्गौ न भविष्यत इति । तदेतन्न युज्यते । युक्तं देवदत्तगृहस्य पुरुषस्य च केवलस्याभिधानं विशिष्टप्रतीतावपि काकनिलयनदण्डयोः प्रत्यक्षदण्डशब्दावगतयोर्विशेषणत्वोपपत्तेः । न तु गोत्वस्यासंनिहितस्येहोपलक्षणत्वं युज्यते । अप्रतीतविशेषणे विशेष्याप्रतीतेः । न च दण्डिशब्दवत्तदवयवेन गोत्वाभिधानं प्रतीमो येन द्वितीयावयवेन व्यक्तेरेवाभिधानं स्यात् । अतश्च यदि तावद्गोत्वमभिधीयते ततस्तदेवोक्तेन न्यायेन वाच्यं भवेत् । अप्रतीतस्य विशेषणत्वासंभवात् । उक्तवदतिप्रसङ्गः शब्दप्रयोगस्य प्राप्नोति । न च यथा दण्डिशब्दः केवले दण्डे न प्रयुज्यत इति विशिष्टवचनोऽवधार्यते तद्वदाकृतौ प्रयोगाभावाद्विशिष्टवचनोऽवधारयितुं शक्यते । श्येनचित्यादावाकृतौ प्रयोगदर्शनादन्वयव्यतिरेकाभ्यां च जातिरेव वाच्येत्यवधार्यते श्येनचिद्वाक्ये केवलायामाकृतौ प्रयुक्तत्वात् । क्वचिदपि चाऽऽकृत्या विना व्यक्तिमात्रे प्रयोगादर्शनादेवं येऽपि संबन्धसमुदायादयः पूर्वपक्षास्तेऽप्युक्तेन न्यायेन निराकृतास्तेनाऽऽकृतिरेव शब्दार्थ इति ॥ ३३ ॥

  1. ‘अन्यदर्शनाच्च’ इति पूर्वपक्षसूत्रगतं भाष्यं स्पष्टत्वादुपेक्ष्य, ‘आकृतिस्तु क्रियार्थत्वात्’ इति सिद्धान्तसूत्रगतं ‘श्येनचितं चिन्वीत’ इति वचनमाकृतौ संभवतीति भाष्यं यथाश्रुतार्थमसंगतभिव मन्वानो दुष्टत्वेन बुद्धिस्थं दूषयितुमुपक्रमते—किंचेत्यादिना ।

  2. पा॰ सू॰ ( ३ । २ । ९२ ) ।
  3. असाधारणेत्यारभ्येतरत्राऽऽकृतिरित्यन्तो वार्तिकग्रन्थः यथा आकृतिःशब्दार्थ इत्यारम्भ—शक्यत आश्रयितुमित्यन्तभाष्यग्रन्थव्याख्यानार्थस्तथान्यायसुधाया विस्तरः ।

  4. नामाख्यातोपसर्गनिपातरूप इत्यर्थः ।

  5. जै॰ सू॰ २-१-१ इत्यत्र भाष्यकारेण ।
  6. जै सू. ( १-१-५ ) इत्यत्र वृत्तिकारमतानुवादे शब्दार्थसंबन्धाक्षेपपरिहारग्रन्थे भाष्यकारैरिति शेषः ।

  7. जै॰ सू॰ ( १-१-६ ) 
  8. लोकवेदयोः शब्दार्थानामनन्यत्वनिरूपणावसरे भाष्यकार इति शेषः ।

  9. जै॰ सू॰ ( ३-२-२ ) इत्यत्र ।
  10. नित्यद्रव्यवृत्तयो विशेषा इति स्मृतिः ।

  11. पा॰ सू॰ ( ३—२—९२ ) ।
  12. नच श्येनशब्दो द्वितीयान्त इत्यर्थः ।