318 प्रत्याय्यत इति विशेषणं दृष्टान्ततयोपन्यस्तमिति । नायं दोषः । विशेष्याभिधायकप्रत्ययाभिप्रायत्वाद्दण्डानभिधानस्य । यथा प्रत्ययेन न च तावद्दण्डोऽभिधीयते । अथ च तद्विशिष्टः पुरुषः प्रत्याय्यते तथेहापि भविष्यतीत्यभिप्रायः । यत्तूपलक्षणोपन्यासे विशेषणस्य दृष्टान्तता न युक्तेति । तदुपलक्षणस्यापि विशेषकत्वान्न चोद्यम् । यद्वा केनचित्सामान्येन दृष्टान्तता भविष्यत्यनभिधेयत्वेन विशेषकत्वेन चेत्यदुष्टं, ततश्च सम्यगभिहितं यथा दण्डिशब्दे तद्वदत्रापि भविष्यतीति । एवं चाप्रसङ्गातिप्रसङ्गौ न भविष्यत इति । तदेतन्न युज्यते । युक्तं देवदत्तगृहस्य पुरुषस्य च केवलस्याभिधानं विशिष्टप्रतीतावपि काकनिलयनदण्डयोः प्रत्यक्षदण्डशब्दावगतयोर्विशेषणत्वोपपत्तेः । न तु गोत्वस्यासंनिहितस्येहोपलक्षणत्वं युज्यते । अप्रतीतविशेषणे विशेष्याप्रतीतेः । न च दण्डिशब्दवत्तदवयवेन गोत्वाभिधानं प्रतीमो येन द्वितीयावयवेन व्यक्तेरेवाभिधानं स्यात् । अतश्च यदि तावद्गोत्वमभिधीयते ततस्तदेवोक्तेन न्यायेन वाच्यं भवेत् । अप्रतीतस्य विशेषणत्वासंभवात् । उक्तवदतिप्रसङ्गः शब्दप्रयोगस्य प्राप्नोति । न च यथा दण्डिशब्दः केवले दण्डे न प्रयुज्यत इति विशिष्टवचनोऽवधार्यते तद्वदाकृतौ प्रयोगाभावाद्विशिष्टवचनोऽवधारयितुं शक्यते । श्येनचित्यादावाकृतौ प्रयोगदर्शनादन्वयव्यतिरेकाभ्यां च जातिरेव वाच्येत्यवधार्यते श्येनचिद्वाक्ये केवलायामाकृतौ प्रयुक्तत्वात् । क्वचिदपि चाऽऽकृत्या विना व्यक्तिमात्रे प्रयोगादर्शनादेवं येऽपि संबन्धसमुदायादयः पूर्वपक्षास्तेऽप्युक्तेन न्यायेन निराकृतास्तेनाऽऽकृतिरेव शब्दार्थ इति ॥ ३३ ॥