319 ये त्वाऽऽलम्भनादिचोदनाभावादयो ‘न क्रिया स्यात्’ इत्येतत्सूत्रानुभाषिताः पूर्वपक्षोक्ता हेतवस्तेषां सर्वेषामनेन सूत्रेण परिहारोऽभिधीयते—‘तदर्थत्वात्प्रयोगस्याविभागः’ इति । तदर्थत्वात्—अपूर्वार्थस्वादालम्भनप्रोक्षणाद्यङ्गानामपूर्वसाधने प्रयोगेण भवितव्यं द्रव्यं चापूर्वसाधनं यागेन स्वसिद्धयर्थमाक्षिप्तत्वान्नाऽऽकृतिरसमर्थत्वात्तदभिधानं तु द्रव्यनियमार्थं प्रतिपत्तव्यं न स्वार्थं जातेरनपेक्षितत्वाददृष्टार्थत्वप्रसङ्गात्साधनत्वाप्रतीतेश्च । यदपि जातेः प्रातिपदिकाभिहितायाः करणत्वं प्रतीयते तदपि द्रव्यनियामकत्वेनैव न साक्षादयोग्यत्वात् । तेनाऽऽकृत्यभिधानस्य द्रव्यनियमार्थत्वाद्द्रव्ये वाऽऽलम्भनप्रोक्षणसंख्याकारकसामानाधिकरण्यादिसंभवाददुष्टता । तदाह—प्रयोगस्याविभाग इत्याकृतिपक्षेऽप्यालम्भनादिप्रयोगस्य द्रव्यादविभक्ततैवेति । अथवाऽऽकृत्यभिधानस्य द्रव्यनियमार्थत्वादुक्तवत्प्रयोगस्याविभाग इति । यद्वा । आकृतिव्यक्त्योरत्यन्तभेदाभावात्कदा चिव्द्यक्तिरूपेण द्रव्यमभिधीयते कदा चित्सामान्यरूपेण यथा विवक्षितं तथा शब्दस्योभयरूपवस्त्वर्थत्वाव्द्यक्त्यभिधानेऽपि न प्रयोगस्य विभागो नानारूपतेति । जातेर्वा व्यक्तितोऽत्यन्तभेदाभावाद् व्यक्तौ कृता धर्मा जातौ कृता एव भवन्तीति न प्रयोगम्य विभागेन प्रयोजनमिति । यद्वा । आकृतिव्यक्त्योरुभयोर्योगार्थत्वाद्धमाणां च 320 यत्र क्व चन यागसाधने कृतानां प्रयोजनवत्त्वादद्रव्यादविभक्ततेति ।

तस्मादाकृतिपक्षेऽप्यालम्भनादिसंभवादाकृतिरेव शब्दार्थ इति सिद्धम् ॥ ३५ ॥