320 यत्र क्व चन यागसाधने कृतानां प्रयोजनवत्त्वादद्रव्यादविभक्ततेति ।

तस्मादाकृतिपक्षेऽप्यालम्भनादिसंभवादाकृतिरेव शब्दार्थ इति सिद्धम् ॥ ३५ ॥

इति आकृत्यधिकरणम् ॥ ९ ॥ ।
इति श्रीभट्टकुमारिलस्वामिकृतौ मीमांसावार्तिके प्रथमस्याध्यायस्य तृतीयः पादः ।

उद्भिदधिकरणम्

एवं स्मृतिसहितस्य वेदस्य प्रामाण्ये सिद्धेऽधुना वाक्यार्थव्याख्यानावसरे सत्यपरिसमाप्त्यैव प्रमाणलक्षणं केन संबन्धेन नामधेयचिन्तायाः प्रस्तावः क्रियते । के चित्तावदाहुः । किमुद्भिदादयो गुणस्य प्रमाणमुत क्रियाणामेव नामधेयत्वेनेति । तदयुक्तम् । एवं सति हि समस्तमेव शास्त्रं प्रमाणलक्षणादभिन्नं स्यात् । सर्वत्र ह्येतद्विचार्यते, किमिदं वाक्यमस्यार्थस्य प्रमाणमुतान्यस्येति । येऽपि चैते द्वे अपि सूत्रे पूर्वोत्तरपक्षौ परिकल्प्यैकाधिकरणत्वेन व्याचक्षते तैरपि ‘उक्तं समाम्नायैदमर्थ्यमित्यनेन सूत्रेण कः सिद्धान्तानभिप्रेतः पूर्वपक्षानुगुणोऽर्थो विधीयत इति वक्तव्यम् । न ह्युक्तैदमर्थ्यान्तर्भावचनमुद्भिदादीनामनिष्टम् । तस्माद्द्वयोरप्यधिकरणयोरनुमितपूर्वपक्षयोरुत्तरपक्षसूत्रद्वयमेतदिति व्याख्येयम् । तत्र प्रथमं तावदुद्भिदादीनुदाहृत्य संदेहः क्रियते, किमेते कं चिद्धर्मं प्रत्युपयोगं गच्छन्त्युत नेति । किं तावत्प्राप्तम् । ‘आम्नायस्य क्रियार्थत्वात्’131 इत्यानर्थक्यम् । आह च ।

  1. जै॰ सू॰ ( १-२-१ ) ।