विशिष्टाधानविधेयत्वाधिकरणम्

‘वसन्ते ब्राह्मणोऽग्नीनादधीत’ इत्यादिषु प्राप्त्यप्राप्त्याशङ्कायां पूर्ववदेव संदेहः । तत्र यदि कथंचिदपि प्राप्तिरस्ति ततो विनाऽपि यदिशब्दान्निमित्तार्थत्वं, तदा च ब्राह्मणवसन्तादिसंबन्धः परस्परनियमात्मकं फलं भविष्यति । अथ त्वप्राप्तिस्ततः प्रापकाणि ब्राह्मणवसन्तादिविशिष्टस्याऽऽधानस्य, तदा च पूर्वत्र पूर्वत्रोत्पत्तिवाक्यशिष्टगुणावरोधादुत्तर उत्तरो गुणः कर्मान्तरं कल्पयतीति त्रीण्याधानानि भविष्यन्ति । स्वार्था एव वाऽग्नय आत्मनेपदनिर्देशाद्विज्ञास्यन्ते । शूद्रस्य चाप्राप्तिः । निमित्तार्थपक्षे तु सर्वं विपरीतमेव । एतेन ‘वसन्ते ब्राह्मणमुपनयेत्’ इत्येवमादीन्यपि तुल्यहेतुत्वाद्विचारितानि द्रष्टव्यानि । तत्रैतावान्संक्षेपार्थः431 ।

सामर्थ्याक्षिप्तमाधानं सामान्यवचनेन वा ।
तस्माद्वर्णविशेषाणां निमित्तार्था पुनः श्रुतिः ॥

एकस्तावत्पूर्वपक्षहेतुरग्निहोत्रादिचोदनाभिरेवाऽऽधाननिष्पाद्याहवनीयादिसाधनत्वाद्विनाऽनुपपद्यमानाभिः प्रापितत्वाद्ब्राह्मणादीनांमाधानं निमित्तार्थं श्रूयत इति । यदि तु 589 प्रत्यक्षवचने सति सामर्थ्यमप्रापकमिति कल्प्यते ततोऽस्माद्गुणापहृतशक्तिकाद्विधेरनपहृतशक्तिरपरो निर्गुणो विधिरस्ति ‘य एवं विद्वानग्निमाधत्ते’ इति । तेन प्राप्तेरप्रापकत्वमिति । सिद्धान्तहेतुस्तु ।

प्रत्यक्षविधिसद्भावाल्लभ्यते नाऽऽनुमानिकः ।
प्रापकत्वमतो नार्थवर्तमानापदेशयोः ॥

न तावन्नित्यमर्थस्य432 प्रापकमस्ति । उपायान्तरेणापि प्रतिग्रहादिना पुरुषान्तराहितानामात्मनेपदेनानियतानां सुलभत्वात् । प्रत्यक्षवचने सति अन्यथानुपपत्तिपक्षे सति, अर्थापत्तिलभ्यश्रुत्यपरिग्रहाच्च । ‘य एवं विद्वान्’ इत्यपि वर्तमानापदेशः प्रत्यक्षायां लिङि ब्राह्मणादिवाक्येषूपलभ्यमानायां न विधिशक्तिं लभते । अस्ति चैतदुपन्यासस्य प्रत्यक्षविधियुक्तोदकोपसर्जनादिसंभा433रविधानार्थत्वमित्यप्राप्तमेव ब्राह्मणादिविशिष्टमाधानं विधीयत इति । किं निमित्तसारूप्यमिति—यदिशब्दाद्यनुपबन्धाभिप्रायम् । ब्राह्मणादीनां वसन्तादिविधिभिः समुच्चारणमिति—परपदसंबन्धसंचारितायां विधिशक्तौ निमित्तफलत्वात् । ननु ब्राह्मणादीनामादधातिनाऽपीति—अप्राप्तौ विशिष्टविधानोपपत्त्यभिप्रायम् । इतरस्तु प्राप्तत्वेन विधेयत्वं निवर्तयति—न त्वमीषामाधानसंबन्धो न विदित इति । केन प्राप्तो विदित इति—प्रापकाक्षेपः । इतरस्तु निराकरणमपश्यन्बलीयांसं च प्रत्यक्षविधिं किमर्थं प्रथममेवोपन्यस्यामीति मत्वा कामश्रुतिभिरित्याह । काः कामश्रुतय इति—सक्रोधं प्रापणशक्तावाक्षिप्तायां स्वरूपमेवैष न जानातीति मन्यमानो दर्शयति—अग्निहोत्रादिफलविधय इति । कथ590 मन्यपराभिः सतीभिस्तत्प्रापितमित्याशङ्क्यार्थापत्तिं दर्शयति । तेन 434‘कर्मजे कर्म यूपवत्’ इति आहवनीयादिग्राहिभिः कर्मभिरनन्योपायत्वाद्गृहीतमाधानमिति । 435सर्वप्रकारसंभवे च विशिष्टविधिर्भवतीति संभवापेक्षया वाक्यभेदमाह । एवं प्राप्ते ब्रूमः । आधानेऽपि पूर्ववदेव प्रापकाणि श्रवणानि । कथम् । असर्वशेषत्वात् । यदि हि सर्वकर्मणां शेषभूतमाधानं भवेत्ततस्तैराक्षिप्येत वा न वा । तेषां तु 436‘रूपं वाऽशेषभूतत्वात्’ इत्यनेनैव न्यायेनाऽऽहवनीयादिग्रहणमात्रपर्यवसानान्न कश्चिदप्याधानाङ्गत्वप्रतिपादने हेतुरस्ति । यत्तु 437‘सेर्वार्थं वा’ इति वक्ष्यति तत्सर्वकर्मार्थाग्न्यर्थत्वादिति व्याख्यास्यते । किमतो यद्येवमिति—अङ्गाङ्गमप्यन्यथानुपपत्त्या शक्यमाक्षेप्तुमिति मन्यते । सिद्धान्तवादी त्वन्यथानुपपद्यमानत्वादग्नयः कामश्रुतिभिः प्राप्तुवन्ति 591 नाऽऽधानमित्याह । नन्वाधानमग्नीनामभ्युपाय इति । तत्र नाम रूपमात्रं गृह्यते यल्लौकिकोपायसाध्यं भवति वस्त्रशकटादि । न चाऽऽहवनीयादयो लौकिकोपायास्तस्मादवंश्यमेषां वेदेनैवोपायोऽप्याक्षेप्तव्यः । स तु नाऽऽधानव्यतिरिक्तोऽस्तीति तदप्याक्षिप्तमिति । उच्यते । न । अनैकान्तिकत्वात् । अग्नीनां हि याच्ञाक्रयापहारादयोऽभ्युपायाः सन्ति । सर्वैश्च तैराहवनीयादिमात्रप्रार्थिन्यः कामश्रुतयो निराकाङ्क्षाः क्रियन्ते । तस्मान्नैकान्तेनाऽऽधानं प्राप्तमित्यस्ति नियमविधेरवकाशः । तत्रैतत्स्यात् । नैवोपायान्तरोपात्तानामाहवनीयादित्वं संभवति संस्कारनिमित्तत्वादिति । तत्रोच्यते ।

सत्यं प्रथममाधानादुत्पद्यन्तेऽग्नयस्त्रयः ।
पश्चात्तु व्रीहिवत्तेषां नोपायान्तरवारणम् ॥

यथैव हि व्रीह्यादीनां न तावत्कृषिमन्तरेणोत्पत्तिः । अथ च न सर्वपुरुषैस्तथैवाऽऽप्यन्ते । क्रयादिभिरपि लभ्यमानत्वात् । एवं तावत्प्रथममेक आधानेनोत्पादयिष्यन्ति । अपरे तु तस्मादुपायान्तरेण प्राप्स्यन्ति । ततश्च यथा घटादीन् कुम्भकार उत्पाद्योत्पाद्य विक्रीणाति ददाति च तथैवैकः कश्चित्पुनः पुनरग्नीनाधायापरेभ्यो दद्यात् । अतः प्रतिपुरुषमाधानं पक्षे प्राप्तं पक्षे नेत्यस्ति विधानस्य विषयः । पक्षेऽपि वा नैव प्राप्तिरस्तीति वक्ष्यामः । प्रत्यक्षविधिपक्षे पुनरुपायान्तराणि निवर्तन्ते । तदा ह्यादधीतेत्यात्मनेपदेनाऽऽधातृगाम्येवाऽऽधानफलमिति गम्यते । तस्य च फलमाहवनीयादि तदकर्तुर्न भवतीति तं प्रत्यनाहवनीयत्वमेव स्यात् । अर्थाक्षेपपक्षे त्वानुमानिक्याः श्रुतेरात्मनेपदपरस्मैपदविवेकाभावादकर्तॄविषयेऽप्यविरोधादुपायान्तराणि न निवर्तेरन् । 592 अतोऽवश्यमेव विधेयमेतदिति । अपि च सतीष्वेवाऽऽधानश्रुतिष्विति पाक्षिकीमपि प्राप्तिं निराकरोति । पूर्वमेव हि व्याख्यातं नियमादीनामप्राप्तविधित्वं श्रुतसंभावनायामश्रुतकल्पनानवसरात् । सन्ति चाऽऽधानस्य प्रत्यक्षा श्रुतय इति नान्याः कल्पयितुं लभ्यन्ते । यदि ह्येता न स्युस्तत्राऽऽधानादृतेऽग्निहोत्रादीनामशक्यानुष्ठानत्वाद्विधयोऽनर्थका भवन्तीति स्वसिद्ध्यर्थमाधानश्रुतिं परिगृह्णीयुः । सतीषु त्वश्रुतकल्पनाभयाद्येषामेताभिः प्रापितं तेषामेव कामश्रुतयः प्रयोजिका इति न कल्पयन्ति । सर्वपूर्वोक्तदोषपरिहारेणेदानीं प्रत्यवतिष्ठते । प्रत्यक्षमन्यद्विधायकमस्त्याधानस्य वचनम् । यस्मिन्सति निमित्तार्थानीतराणीति ‘य एवं विद्वानग्निमाधत्ते’ इति । तत्र प्रतिविधत्ते संभारविधानार्था पुनः श्रुतिरेषेति । परः पुनः प्रकरणेन संभारसंबन्धं मन्वानः पृथग्वाक्यत्वमापाद्यैतदेवोत्पत्तिवाक्यमित्याह । न ह्युदकोपसर्जनादीनामाधानेनैकवाक्यता संभवति । भवेदत्रार्थभेदे नानावाक्यत्वं यद्याधानं विधीयेत । तद्ब्राह्मणादिसं593 युक्तैर्विहितमिति गुणार्थमेवेह438 पुनः श्रूयते । कुतो नु खलु निर्णयः कतरदनयोरुत्पत्तिवाक्यमिति । तदुच्यते ।

ब्राह्मणत्वादिसंयुक्ते प्रत्यक्षः श्रूयते विधिः ।
इतरत्रार्थवादेन कल्पनीयो बलादसौ ॥

यदि ह्येते द्वे अपि वाक्ये विधातृणी स्यातां ततः समानविषये सती स्पर्धेयातां कतरद्विधत्तामिति । अत्र पुनरेकं विधायकमेकं स्तावकम् । न च स्तावकेन ब्राह्मणादिसंयुक्तस्य विधायकत्वं निवार्यते तदानुगुण्यात् । यदि तु ‘य एवं विद्वान्’ इत्यपि विधिसरूपं स्यात्ततो विहितस्य पुनर्विधानानुपपत्तेरस्मत्पक्षं निरुन्ध्यात् । लिङा तु विहितस्य संबन्धिसंभारविधिप्ररोचनार्थं तु स्तुतिसहितस्य पुनः श्रवणमित्यविधायकम् । लिङा च तावद्धात्वर्थविधानं स्वपदेनोपात्तत्वाच्छ्रौतम् । प्राशस्त्यं पुनर्वाक्येन, ततश्चाऽऽनुमानिको विधिरिति विप्रकृष्यते । नन्विदमपि वाक्यमिति—ब्राह्मणादिपदार्थापरित्यागाभिप्रायम् । सिद्धान्तवादी वदति, आधानं तावच्छुत्या, शेषं वाक्येन नाम 594 भवतु, स्वपदोपात्तायाः स्तुतेरभावात् । ‘एवं द्विषन्तं भ्रातृव्यमवर्ति सहते’ इत्यादिपदसंबन्धेनैव स्तुतिरिति वाक्यम् । 439कर्तृकालविशिष्टप्रधानाधानविधानाच्च वाक्यभेदपरिहारात्सिद्धं प्रापकत्वम् ॥ ४ ॥

  1. संक्षेपेणाधिकरणार्थ इत्यर्थः ।

  2. अर्थस्येति—अर्थापत्तेरित्यर्थः ।

  3. संभारविधानार्थत्वमिति—संभारविधिशेषतया तत्स्तावकत्वेनार्थवत्त्वान्नाऽऽनर्थक्यभिया विद्वद्वाक्यस्याऽऽधानप्रापकत्वं वक्तव्यमित्याशयः । कथं स्तुतिरिति चेत् । ‘एवं संपन्नं भ्रातृव्यमवर्ति सह कुरुते’ इत्यर्थवादसहितं ‘य एवं विद्वानग्निमाधत्ते’ इति वाक्यं ‘अप उपसृजति’ इत्यादिविशेषविहितानामुदकादिसंभाराणां ‘अथ संभारान्संभरति’ इति यत्सामान्यतः स्थापनविधिस्तस्य शेषः । यो विद्वानेवमुदकादिस्थापनपूर्वमग्निमाधत्ते स स्थापनरूपाङ्गसामर्थ्यात्सहायसंपन्नमपि वैरिणं वर्तनरहितं कुरुत इत्येवं स्थापनप्रशंसा ज्ञेया ।

  4. ( अ॰ ७ पा॰ ३अ॰ ९ सू॰ २८ ) ।
  5. अपिचेति भाष्यं वसन्तादिवाक्ये विशिष्टविधाने वाक्यभेदाप्रसक्तेरयुक्तमाशङ्क्य विशिष्टविधानप्रयुक्तगौरवाभिप्रायेण वाक्यभेदोक्तिरित्येवं व्याचष्टे सर्वप्रकारेत्यादिना ।

  6. ( अ॰ ७ पा॰ ३ सू॰ २९ ) ।
  7. ( अ॰ ३ पा॰ ६ अ॰ ५ सू॰ १५ ) ।
  8. गुणार्थमेवेति—स्तुतिवाचिना गुणशब्देन ‘अपामुपसर्जनं तु विधीयते’ इति भाष्यस्थो विदधातिः स्तुतिपरो व्याख्यातः ।

  9. अपि चोभाभ्यामिति पूर्वपक्षभाष्यं नन्वित्यादिना विशिष्टविधिगौरवाभिप्रायेणानूद्य नैष दोष इत्यादिना विशिष्टविध्यन्यथानुपपत्तिप्रसूतैर्विशेषणविधिभिरेव तेषां विधिसिद्धेः श्रौतविधिव्यापारनानात्वाभावात्परिहृतमपि पुनर्ब्राह्मणादिजातेः कालवदनुपादेयतया निमित्तत्वेनेष्टत्वात्कालनिमित्तयोर्द्वयोरुद्देश्यत्वापत्तेः प्रत्युद्देश्यं वाक्यपरिसमाप्तिलक्षणवाक्यभेदाशयेन यदुक्तमित्यादिना अनुभाष्य यदीमावित्यनेन जातेर्नित्यतया निमित्तत्वायोगात्कर्तृतयैवान्वयावगतेः कर्तुश्चानुद्देश्यत्वान्नोक्तरीत्या वाक्यभेद इत्येवं परिहृतम् । तदेतत्सर्वं संक्षिप्य व्याचष्टे कर्तृकालेत्यादिना । भाष्ये गुणत्वोक्तिस्तु निमित्ताभावेऽनुष्ठितस्यापि कर्मणो नैष्फल्यापत्तेस्तस्यापि क्रियोपकारित्वादङ्गत्वोपपत्तिरिति न विरुध्यत इति ज्ञेयम् ।