574 कामप्रवेदने हि लिङ् इच्छां प्रत्यायतीति सिद्धान्तविवरणम् । तत्रैष वाक्यार्थो भवति । यद्यैन्द्रवायवान् ग्रहान् ग्रहीतुमिच्छेद्रथंतरसामानं क्रतुं कुर्यादिति । ततश्च यदिशब्दरहितं सोमः स्यादिति पदद्वयं विधायकं, ग्रहान् गृह्णीयादित्येतत्तु यद्यप्यविधायकं तथाऽपीच्छार्थत्वाद्यो हि यदिच्छति स तत्करोतीत्येवं विधिफलं लप्स्यते । अथ वा इच्छामात्रयुक्तमुपात्तं ग्रहाग्रत्वं स्यादित्येषैव लिङ् विधास्यति ।

विनैव व्यवहितकल्पनयाऽप्ययं पक्षो भवन् बलवत्तर इति मन्वानोऽथवा हेतुहेतुमतोर्लिङित्युपन्यस्यति । तत्र सोमः स्यादिति हेतौ लिङ्गृह्णीयादिति विधावेव । तेनैतदुक्तं भवति रथंतरसामसोमहेतुकानैन्द्रवायवाग्रान् ग्रहान् गृह्णीयादिति । न चाक्रियमाणेऽसौ हेतुत्वं प्रतिपद्यत इत्यर्थाद्विहितो भविष्यतीति । अथ वा 413हेतुमति गृह्णीयादिति लिङ्, सोमः स्यादिति विधावनुक्तमपि च सोमस्य हेतुत्वं हेतुमदाक्षेपात्संनिधेश्च भविष्यति । तत्राप्येषोऽर्थो ग्रहाग्रताविशेषकारणभूतः सोमयागः कर्तव्य इति ।

यदिशब्दपरित्यागो रूढ्यध्याहारकल्पना ।
व्यवधानेन संबन्धो हेतुहेतुमतोश्च लिङ् ॥

इति पक्षविकल्पसंग्रहश्लोकः । सर्वं चैतदवैष्ट्यधिकरणसिद्धान्त एवोपयोक्ष्यत इत्यत्र

  1. ‘हेतुहेतुमतोर्लिङ्’ ( ३-३-१५६ ) इति पाणिनीयसूत्रानुरोधादित्यर्थः ।