575 प्रपञ्चितम् । 414किं च ।

निष्पन्नेन निमित्तेन निष्पाद्यं प्रतिभूयते ।
न रथंतरसत्ता च निष्पन्ना क्रतुसत्त्ववत् ।

प्रातः सवने हि ग्रहग्रता भवति माध्यंदिने रथंतरम्, न चानिष्पन्नस्य निमित्तता युक्ता । कारणपर्यायत्वान्निंमित्तशब्दस्य, मम तु नैव किंचिन्निमित्तम् । अथ वा क्रतुः । स चाऽऽदित एव विद्यते । 415जगत्सामा च न ज्योतिष्टोम इति 416‘जगत्साम्नि सामाभावात्', इति वक्ष्यते । अतश्च 417‘तत्सामान्यादितरेषु तथात्वम्’ इति कर्मान्तरत्वमिति ॥ १ ॥

पूर्वोक्तैरेव हेतुभिर्ज्योतिष्टोमस्य गुणविधिरयं न कर्मान्तरम् । एकस्यैव हि तेन लिङ्गेन रथंतरसामत्वेन बृहत्सामत्वेन च ग्रहाग्रताविधिप्रयोजनार्थमुच्चारणं क्रियते । गुणवाक्यत्वाच्चाकर्मान्तरप्रत्यये सत्येकत्वं विज्ञायते । अथ वा

  1. बृहद्रथंतरसामसंयोगस्य ग्रहाग्रत्वलक्षणाङ्गरूपशेषानुष्ठानवेलायामभूतत्वात्—अनिष्पन्नत्वात् इत्येवम् ‘संयोगस्याशेषभूतत्वात्’ इति सूत्रावयवव्याख्यानार्थम् ‘अपि च’ इति भाष्यं व्याख्यास्यति—किंचेत्यादिना ।

  2. अथ वा जगत्सामसंयोगस्य ज्योतिष्टोमं प्रत्यनङ्गभूतत्वात्तत्साहचर्येण बृहद्रथंतरसंयोगयोरप्यनङ्गत्वात्कर्मान्तरप्रयोजकतेत्येवमर्थान्तरपरतया सूत्रव्याख्यानार्थम् ‘अपि च निःसंदिग्धम्’ इति भाष्यं व्याचष्टे—जगत्सामा चेत्यादिना ।

  3. ( अ॰ १० पा॰ ५ अ॰ १५ सू॰ ५८ ) ।
  4. ( अ॰ १ पा॰ २ अ॰ २ सू॰ २३ इत्येतत्सूत्रावयवः ) ।