578 दर्शयितुं यदि रथंतरसामा सोमो भूतो भवति भविष्यति चेति । तत्रेहार्थवशेनैवं विज्ञायते यदि रथंतरं भविष्यतीति ।

यत्तु जगत्साम सामान्यतो दृष्टमुक्तं, तदयुक्तम् । तस्यैवंजातीयकेष्वप्रमाणत्वात् । अथ वा प्रकरणे द्वित्वबहुत्वयुक्तप्रतिपद्विधानादिव419 जगत्सामत्वासंभवात्तदिति वैषम्यम्, अपि च तत्रापि नैवापूर्वकर्मोत्पत्तिः, किं तर्हि, अप्रकृतस्य विषुवतो420 निमित्तत्वेन ग्रहणम् । तस्मान्निमित्तार्थानि सर्वाणि श्रवणानीति ॥ २ ॥

इति रथंतराधिकरणम् ॥ १ ॥

अवेष्ट्यधिकरणम्

‘राजा राजसूयेन स्वाराज्यकामो यजेत’ इत्यस्य प्रकरणे ‘आग्नेयोऽष्टाकपालो हिरण्यं दक्षिणा’ इत्यादिभिर्द्रव्यदेवतासंयोगैरवेष्टिसंज्ञकामिष्टिं विधाय श्रूयते ‘यदि ब्राह्मणो यजेत बार्हस्पत्यं मध्ये निधायाऽऽहुतिमाहुतिं हुत्वाऽभिघारयेत्’ ‘यदि राजन्य ऐन्द्रं’ ‘यदि वैश्यो वैश्वदेवम्’ इति । तत्र पूर्ववदेव संदेहः । किं राजसूयमध्यस्थाया एवावेष्टेवर्णविशेषसंबन्धं प्राप्तमेव निमित्तत्वेनोद्दिश्य तत्र नैमित्तिकं विधीयते

  1. प्रतिपद्विधानादिवेति—'युवं हि स्थः स्वर्पती इति द्वयोर्यजमानयोः प्रतिपदं कुर्यात्’ ‘एते असृग्रमिन्दव इति बहुभ्यो यजमानेभ्यः’ इति वाक्याभ्यां द्विबहुयजमानकत्वे निमित्ते स्तोत्रीयाद्यर्ग्रूपप्रतिपत्कार्योद्देशेन विहितयोर्मन्त्रयोर्नियतैकयजमानके ज्योतिष्टोमे निवेशासंभवाद्यथा कुलायाहीनादावुत्कर्षस्तद्वदिहेति दृष्ठान्तार्थः ।

  2. विषुवत इति । एकषष्टयधिकशतत्रयसुत्यात्मके गवाभयने, अशीतिशतं पूर्वं पक्षः अशीतिशतमुत्तरं पक्षः, मध्यतनं विषुवत्संज्ञकमहः । तस्मिंश्च विषुवति पृष्ठस्तोत्रे, ‘विभ्राट् बृहत्पिबतु’, इति जगतीच्छन्दस्कायांमृचि महादिवाकीर्त्यं सामोत्पन्नम् । अतस्तस्यैव जगत्सामत्वेन शुक्राग्रत्वमिति ।