621 ‘आग्नेयोऽष्टाकपालोऽमावास्यायां भवति’ इति श्रूयते । किं य एवासावुभयत्राप्यच्युतस्तस्यैवैषा पुनःश्रुतिः केनापि प्रयोजनेनाथ कर्मान्तरमिति संदेहः । तत्र ‘संनिधौ त्वविभागात्’ इति सत्यप्यनुपादेयाममावास्यां प्रत्युपादाने तदेव कर्मेति सिद्धान्ते प्राप्तेऽभिधीयते ।

पुनः श्रुतिरनन्यार्था मेदिकेत्यवधारिता ।
तादृशी चेयमित्येव द्विराग्नेयः प्रयुज्यताम् ॥

प्रयोगद्वित्वद्वारेण च कर्मद्वित्वप्रतिज्ञानमेवैतद्द्रष्टव्यमिति ॥ २७ ॥

तत्र पक्षान्तरमाह—अविभागात्तु कर्मणो द्विरुक्तेन विधीयत इति । युक्तं समिदादिषु प्रत्यक्षयागपुनःश्रुतेर्भेदकत्वमिह तु द्रव्यदेवतासंबन्धादसावनुमातव्यः । तच्च द्रव्यदेवतमभिन्नमुपलभ्यमानं पूर्वसंबन्धानुभववशादेकान्तेन तमेव यागं बोधयति । द्रव्यदेवतमप्यन्यदिति चेन्न । अविभागप्रत्ययोपलम्भात् । यदि तु व्यक्तिकृतो भेद आश्रीयते स प्रयोगान्तरे तस्याप्याग्नेयस्याविशिष्टः । तस्माद्वैकल्पिकेन वचनद्वयेनामावास्यायामाग्नेयविधानम् । अथवा युगपत्प्रवृत्तेः 483‘यथा स्यात्सत्त्वदर्शनम्’ इत्यनेन न्यायेन तदेव कर्म, एकेनेतरेण च प्रतिपाद्यते । न च गम्यते विशेषः कतरेण प्रतिपाद्यते कतरत्पौनरुक्त्यादनर्थकमिति । कामं भवत्वानर्थक्यं, तदेव हि युक्त्याऽन्विष्यमाणमिहोपपन्नतरं

  1. ( अ॰ ६ पा॰ २ अ॰ १ सू॰ २ ) ।