अवेष्ट्यधिकरणम्

‘राजा राजसूयेन स्वाराज्यकामो यजेत’ इत्यस्य प्रकरणे ‘आग्नेयोऽष्टाकपालो हिरण्यं दक्षिणा’ इत्यादिभिर्द्रव्यदेवतासंयोगैरवेष्टिसंज्ञकामिष्टिं विधाय श्रूयते ‘यदि ब्राह्मणो यजेत बार्हस्पत्यं मध्ये निधायाऽऽहुतिमाहुतिं हुत्वाऽभिघारयेत्’ ‘यदि राजन्य ऐन्द्रं’ ‘यदि वैश्यो वैश्वदेवम्’ इति । तत्र पूर्ववदेव संदेहः । किं राजसूयमध्यस्थाया एवावेष्टेवर्णविशेषसंबन्धं प्राप्तमेव निमित्तत्वेनोद्दिश्य तत्र नैमित्तिकं विधीयते 579 उताप्राप्तमेव ब्राह्मणांदिसंबद्धं प्रयोगान्तरमुद्दिश्यत इति । तत्सिद्ध्यर्थं चैतद्विचारयितव्यं किं राजसूयेऽधिकारस्त्रयाणामपि वर्णानामुत क्षत्रियस्यैवेति । तत्सिद्ध्यर्थमधिकारिविशेषणभूतो राजशब्दस्तथैव421 विचारणीयः । ततोऽप्येतद्विचारयितव्यं किं क्षत्रियत्वनिमित्तो राजशब्द उत राज्यकरणनिमित्त इति । ननु च ‘एतयाऽन्नाद्यकामं याजयेत्’ इति वर्णविशेषेणासंबद्धं पृथग्राजसूयप्रयोगवचनादेवावेष्टेर्वचनमस्तीति वर्णत्रयस्यापि प्राप्तस्य निमितार्थमेव श्रवणं भवेत् । नैतदेवम् । तदा हि निर्ज्ञातक्षत्रियकर्तृकायाः कर्त्रन्तरे वचनान्तरेणाविधीयमानायाः पृथक् प्रयोगकारणाभावाच्च राजसूयमध्यस्थाया एव 422‘एकस्य तूभयत्वे संयोगपृथक्त्वम्’ इत्यनेन न्यायेन साधारणं च स्वाराज्यं फलं प्रात्यात्मिकं चान्नाद्यं विज्ञायते ।

पृथग्वा राजन्यैनैव फलार्थिना प्रयुज्यते न वर्णान्तरसंबन्धः । तद्यथाऽध्ययाधानयोर्निर्ज्ञातत्रैवर्णिककर्तृकत्वात्तदधीनसिद्धीनां कर्मणामर्थिमात्रसंबन्धावगमेऽपि सति अपशूद्रविषयत्वमेवावतिष्ठते । यथा चात्रैव स्वाराज्यकामाविशेषेऽपि राजकर्तृकत्ववशेन भोक्तृविशेषो भविष्यति । तस्माद्राजसूयाधिकारेणैवैभिर्वा वचनैः प्राप्तिरिति द्बावेव पक्षौ । किं तावत्प्राप्तम् । पूर्वाधिकरणेनैव निमित्तार्थानि श्रवणानीति । राजसूयाधिकारश्च सह राजशब्देन त्रयाणामपि वर्णानाम्, राज्यकरणं च शब्दप्रवृत्तिनिमित्तमिति । तथा हि ।

कर्ता राज्यस्य राजेति सर्वलोकेषु गीयते ।
महाविषयतैवं च शास्त्रस्यापि भविष्यति ॥

उभयसंभवे तावत्त्रैवर्णिकविषयता युक्ता कल्पयितुम् । एवं हि निमित्तप्रतीतिस्तत्प्रकरणादीनि च न बाध्यन्ते । राजसूयाधिकारश्रुतिश्चानल्पविषयत्वेन स्वरसात्प्रवर्तमाना न निवर्तिता भविष्यति । तस्माद्राज्यं कुर्वन्तः सर्वत्रैवर्णिका राजानः । तच्च राज्यं जनपदपरिपालनं नाम सर्वलोकप्रसिद्धम् । ततश्चोद्धरणं राज्येऽपि कण्टकोद्धारणमभि580 प्रेतम् । आर्यावर्तनिवासिन इति—423‘शास्त्रस्था वा तन्निमित्तत्वात्’ इत्यस्य प्रदर्शनार्थम् । राज्ञः कर्म राज्यमित्येतदभियुक्ता उपदिशन्तीत्येतद्बुवता ननु राजशब्दस्यैव प्रकृतिभूतस्य स्वातन्त्र्यमभ्युपगतं भवति । तथा हि ।

नैवौदमेघिसंबन्धादुदमेघः प्रसिध्यति ।
स्वतन्त्रेणोदमेघेन स एव त्वनुगम्यते ॥ उच्यते ॥
राजा निर्ज्ञात एवेह स्वातन्त्र्येण चिरंतनैः ।
तद्योगात्कल्पितं राज्यमस्माकं तु विपर्ययः ॥

यथैव गामानयेत्यभिहिते यद्यपि व्यवहर्तृभिः यो गौः स आनेतव्य इति वचनं कल्पितं तथाऽपि पार्श्वावस्थितस्य यस्य गोत्वमप्रसिद्धमानयनं च प्रसिद्धं स छेदनादिभ्य इव यूपमेवं प्रतिपद्यते य आनेष्यते स नूनं गौरिति । तथैवात्र यद्यपि मन्वादिभिः पाणिनिप्रभृतिभिश्चैवं स्मृतं यो राजा तेन जनपदादिरक्षणं कर्तव्यम्, यश्च राजा तस्य कर्म राज्यमिति ।

तथाऽपि वयं संदिग्धराजकाः प्रसिद्धराज्याश्च सन्त एवं प्रतिपद्यामहे येनैवं स्मर्तृभिरुक्तं तेन नूनं बन्धनसमर्थे द्रव्ये यूपवत्, राज्यकरणसमर्थद्रव्यालम्बन एव राजा तैर्निरूपित इति । तच्च राज्यमविशेषेण चत्वारोऽपि वर्णाः कुर्वाणा दृश्यन्ते । तस्मात्सर्वे राजानः । तत्र तु न्यायान्तरेण ब्राह्मणादिषु चरितार्थायां राजश्रुतावध्ययनादीनामभावे सति कामं शूद्रः पर्युदस्येत न त्वितरपर्युदासे हेतुरस्तीति त्रयाणामप्यधिकारः । ननु च क्षत्रियसंबन्धेन राज्यं विहितमन्यायेनेतरौ कुर्वाणौ न राजानौ स्याताम् । नैष दोषः । सर्वथा तावद्राज्यकरणात्ताभ्यामपि राजत्वं लब्धं तावता च राजसूयचोदनायाः प्रयोजनम् । यौ तु न्यायान्यायौ तयोः पुरुषधर्मत्वान्नैकोऽपि क्रतुना गृह्यत इत्यविशेषः । ननु जनपदपुरपरिरक्षणवृत्तिमनुपजीवत्यपीति—सिद्धान्त581 बीजोपन्यासः । 424उक्तं ह्येतद्बर्हिराज्यादिशब्देषु यथैकदेशेऽपि जातिनिमित्तत्वे लभ्यमाने निमित्तान्तरं न कल्पनीयमिति । परः पुनर्यौगिकग्रहणमत्रोपकारकमिति प्रदर्शयति—प्रकरणवशाद्यदिशब्दसमभिव्याहाराच्चेति । न कर्मान्तरं विधायिष्यते इति-प्रयोगान्तराभिप्रायेण । अथ वा यदा यदि शालिं भुञ्जीतेत्यादयो वचनप्रकारा गृह्यन्ते तदैकेनैव वाक्येन ब्राह्मणसंबन्धो बार्हस्पत्याभिधारणं च न शक्यते कर्तुमिति मुख्यमेव कर्मान्तरत्वम् । एवं तावदुभयप्रसिद्धिं प्रमाणीकृत्योक्तम् । इदानीं तु राज्यरहिते प्रयोगः प्रमाणमेव न भवतीति प्रस्तूयते सार्वलौकिकेन प्रयोगेणासार्वलौकिकस्य बाधात् । अपि च विप्रगीता इति तदेव425 प्रत्ययिताप्रत्ययितत्वेन पुनरुपन्यस्तम् । न हि सर्वलोकासर्वलोकविदितत्वव्यतिरेकेण विप्रगीताविप्रगीतत्वे विद्येते । यद्वा पूर्वेण प्रसिद्धेः सदसद्भावमत्रमुत्तरेण तु विग्रतिपत्त्यविप्रतिपत्ती । भवति चाज्ञानविपर्ययज्ञानयोर्भेद इत्यपौनरुक्त्यम् । तथाऽऽर्यावर्तनिवासिनामिति-शास्त्रस्थबलीयस्त्वं पूर्वोपक्षिप्तं दर्शयति ।

समीचीनतर आचार इति-शब्दप्रयोगोऽभिधीयते । तस्मात्प्राप्तानामेव ब्राह्मणादीनां निमित्तार्थं श्रवणम् । अपि च ‘यदि राजन्य ऐन्द्रम्’ इत्यसंदिग्धं निमित्तार्थमतश्च तत्सामान्यादितरयोरपि तथात्वमित्येवं प्राप्ते ब्रूमः ।

582
क्रतुसंबन्ध एवायं ब्राह्मणादेर्विधीयते ।
अप्राप्तत्वान्न राजा हि राज्ययोगात्प्रतीयते ॥

क्षत्रियवचन एवायं राजशब्दो न यौगिकः । स हि राज्ययोगाद्वा भवेद्धात्वर्थानुसारेण दीप्तियोगाद्वा । उभयथाऽपि चानुपपन्नः । तद्रहितरूढिशब्ददर्शनात् । एकदेशस्थाऽपि रूढिरवयवप्रसिर्द्धि बाधते । न चावयवप्रसिद्धिरप्यत्रैकान्तिकी विद्यते, न हि दीप्यमानेष्वग्न्यादिषु राजशब्दो विद्यते । न चानभिषिक्ते जनपदपरिपालनव्यापृतेप्यायुक्तके । ननु चाऽऽयुक्तकस्य परप्रयुक्तकारित्वादृत्विज इव जयमानत्वं न राजत्वं भविष्यति । नैवं शक्यम् । पराधीनेष्वपि केषु चित् पृथिवीश्वराभिषिक्तेषु माण्डलिकेष्वपि प्रयोगदर्शनात् । तेन तर्ह्यव्यभिचारात्स एवाभिषेको निमित्तं प्राप्नोति । नैवं भविष्यति । कुतः ।

अभिषेकोऽपि धर्मज्ञै क्षत्रियस्यैव पठ्यते ।
सहासौ राजशब्देन तेन नाक्षत्रिये मतः ॥

ततोऽभिषेकस्य निमित्तत्वं ज्ञायते । यद्यस्य स्वातन्त्र्यं भवेत् । अयं तु क्षत्रियजातावेव स्मर्तृभिर्नियतो विधानवेलायामेव लवनादिवद्बर्हिःशब्देन, राजशब्देन संयुज्यते । तेनैव चोभयनिमित्तत्वं समुदायशब्दन्यायेनैतस्यानिष्टम् । यदि हि जात्यभिषेकयोरत्यन्तसमुदितयोरेव प्रयुज्यते न तु केवलायां जातौ जात्यन्तरेवाऽभिषेको विधीयते तत उभयं निमित्तमिति कल्प्येत । स त्वभिषेकात्प्रागेव तत्संस्कार्ये प्रयुक्तः ‘राजानमभिषेचयेत्’ इति । तस्माद्राजजातावेव प्रज्ञायते । न च भाविसंज्ञाविज्ञानं भूतत्वेनैवोपपद्यमानत्वात् । अगत्या हि साऽन्यत्राऽऽश्रीयते । न चैकस्मिन्निमित्ते सिद्धे निमित्तान्तरं कल्पयितुं शक्यम् । विनाऽपि तत्कल्पनेन प्रयोगोपपत्तेः । अभिषेकनिमित्तत्वेऽपि च न्यायानुसारिणां नैवाक्षत्रियविषयत्वं सिध्यति । यस्तु धर्मशास्त्रातिक्रमेण क्रियते न तस्य निमित्तत्वं स्यात् । यथा शूद्रकृतस्याऽऽधानस्य नाऽऽहवनीयादिप्रयोगनिमित्तत्वम् । अपि च ।

नित्याः शब्दार्थसंबन्धा यथावस्थितगामिनः ।
नाऽऽश्रयन्त्यध्रुवं हेतुं स्वच्छन्दपरिकल्पितम् ।

583 नित्यस्य हि राजशब्दस्य नित्येनैव निमित्तेन भवितव्यं नित्यानित्ययोः संयोगाभावात् । सा च नित्यता वस्त्वपेक्षया वा विध्यपेक्षया वा निरूप्यते । तत्र न तावदभिषेको वस्तुरूपेणैव जातिवत्केषुचित्समवेतो दृश्यते । तेनावश्यं विधानापेक्षमेव निरूपणमाश्रयणीयम् । न च विधानमक्षत्रिये राजशब्दस्यास्तीति जात्यव्यभिचार एवाऽऽपद्यते । ततश्च सैव निमित्तम् । एतेन राज्यनिमित्तत्वं प्रत्युक्तम् । 426तदपि हि विधानात्प्रभृति, अभिषेकवदेव क्षत्रियत्वसंबद्धम् । दृष्टश्चानभिषिक्तेऽपि, अपालयति च जनपदं, क्षत्रिये राजशब्दप्रयोगः । तद्वत्यपि वाऽन्यजातीयेऽनभिधानं द्रविडानाम् । तस्मादपि न त्रैवर्णिको राजा । तथा च राज्ञोऽपत्यं राजन्य इत्यैकान्तिकक्षत्रियजातिवचनस्य राजन्यशब्दस्य राजशब्दप्रकृतित्वमेवान्वाचक्षते । अन्यथा त्रैवर्णिकानां राजत्वात्सर्वेषां त्रैवर्णिकानामपत्येषु राजन्यशब्दप्रयोगः स्यात् । कुतः ।

राजन्यः क्षत्रिये रूढो राजानः सर्व एव चेत् ।
अपत्यापत्यवद्योगे वैषम्यं वद कीदृशम् ॥

नन्वेवमप्यनुपपन्न एवायमपत्यप्रत्ययः । तथा हि ।

प्रकृतौ तदपत्ये च जातिशब्दस्य तुल्यता ।
तेन राजैव सर्वत्र राजन्योऽप्यभिधीयताम् ॥

यथैव काकस्यापत्यं काक एवं राज्ञोऽपत्यं राजेत्येव स्यात् । नैष दोषः । पर्याय एव हि राजशब्दस्य राजन्यशब्दोऽनेन प्रकारेणान्वाख्यायते स त्वेकजातिविषयत्वे सति तथाऽन्वाख्यातुं युज्यते नान्यथा । ननु ‘राज्ञोऽपत्ये जातिग्रहणम्’ इति वचनात्क्षत्रियजातिवचनो भविष्यति । नैतदेवम् । इहान्यतमजात्यनुपादानाद्राजवन्मनुष्यनातिमात्राधिकारात्तद्वचनत्वं स्यात् । ननु च राजराजन्यशब्दयोस्तत्र तत्र कर्मभेदोपदेशेन स्मृतिविदां याज्ञिकानां च भेदेन प्रसिद्धिर्दृष्टा । सत्यं दृष्टा सा तु ब्राह्मणपरिब्राजकन्यायेन राजन्यशब्दस्याभिषिक्तविशेषगामित्वेन सामर्थ्यलभ्यत्वात् । यत्तु प्रसिद्धिद्वयसंभवे राज्यनिमित्तत्वं प्रकरणादिभ्यो विज्ञास्यत इति तन्निराक्रियते । 584 तथा हि ।

नैव तावदुभौ शब्दौ स्वातत्र्येण प्रसिध्यतः ।
कॢप्तायामेकशक्तौ हि द्वितीयो यौगिको वरम् ॥

तदेतद्दर्शयति—यदि तावज्जातिशब्दो राजेति ततस्तस्य कर्म राज्यमित्यवयवप्रसिद्धिसंभवान्न तन्निरपेक्षं शक्त्यन्तरकल्पनमुपपद्यते । विनैव तेनाऽऽर्यावर्तनिवासिनां प्रयोगो न विरोत्स्यते । अथ तु प्रथममेव राज्यमिति प्रतिपालनं रूढिरूपेणाभिधीयते । ततस्तच्छक्त्यनुसारेणैव तत्कर्तरि राजशब्दप्रयोगसिद्धेः शक्त्यन्तरकल्पनमन्तरेणैव द्रविडानां राज्याधिकारयोग्येषु क्षत्रियेषु प्रयोगो न विरोत्स्यते । दाक्षिणात्यत्वसामान्येनाऽऽन्ध्राणामिति भाष्यकारेणोक्तम् । तस्मान्न तावदुभावपि रूढिशब्दौ नापि यौगिकौ । अन्यतररूढित्वे तु राजशब्दस्य तत्कल्पना युक्ता । कुतः ।

आचारयोरसंबन्धे427 संदेहे सति निर्णयः ।
सन्निबन्धनया स्मृत्या बलीयस्त्वादवाप्यते ॥

राज्यशब्दाभिधेयं परिपालनादि कर्म क्षत्रियस्येति मन्वादयः स्मरन्ति । पाणिनिप्रभृतयोऽपि राज्ञः कर्मेदं राज्यमित्येवं व्युत्पादयन्ति । 428‘गुणवचनब्राह्मणादिभ्यः कर्माणि च’ इत्याधिकृत्य स्वतन्त्ररूढाद्राजप्रातिपदिकात्प्रत्ययविधिः । तत्र ष्यञ्प्रत्ययं विदधतीत्यत्र वदन्ति । पत्यन्तपुरोहितादिपाठाद्राजशब्दस्य विशेषविहितेन यका भवितव्यम् । तथा च यक्प्रत्ययस्वर इहोपलभ्यते नाऽऽद्युदात्तत्वम् । तस्माद्राजशब्दाद्राज्यशब्दव्युत्पत्तिर्न तु विपरीतेत्येतावन्मात्रपरमेव भाष्यं द्रष्टव्यम् । राज्यशब्दाद्धि 585 राजनि व्युत्पाद्यमाने यलोपाम्नानं वा राजशब्दादेशात्मकं वा स्मरणं स्यात् । तस्मादियमेव वचनव्यक्ती राज्ञः कर्म राज्यमिति न त्वर्थापत्त्या राज्यस्य कर्ता राजेति कल्पनीयं, देशान्तरे विज्ञातत्वाद्राज्ञः । कल्पितायामपि चार्थापत्तौ मन्वादिस्मृतिवशेन क्षत्रियस्यैतत्कर्मेत्यवधारणात्स एव राजा विज्ञायते । सकलश्च राजेतिशब्दो राज्येऽनुप्रविष्ट इति स यौगिको युक्तो न तु राज्यशब्दो राजन्यनुस्यूतः सकल इत्ययौगिकत्वम् । सत्यमेवं राज्यशब्दस्य यौगिकत्वमुपपद्यते । यस्तु तत्कारिणि जात्यन्तरे राजशब्दप्रयोगः स क्षत्रियत्वाभावान्न प्राप्नोति । तेन नाऽऽर्यावर्तनिवासिनां प्रयोगः सकलो न विरुध्यते । यथा, न शूद्रराज्ये निवसेदित्यादीनामाप्तप्रयोगाणां बाधः स्यादित्यत आह—योगाल्लोकः प्रयुङ्क्त इति । प्रथमं तावद्राजयोगाद्राज्यं पुनस्तद्योगाद्ब्राह्मणादिषु राजशब्दोपचार इति । नन्वेवं सति राज्ययोगादपि राजेत्येतदभ्युपगतमेव । नैष दोषः । गौणत्वाभ्युपगमात्, मुख्यत्वाभ्युपगमे ह्यधिकरणं परावर्तेत । गौणत्वं तु मुख्येन बाधितत्वादभ्युपगतमपि सिद्धान्तं न विरुणद्धि । तेन तत्कार्यापन्ने प्रतिनिधिन्यायेन ब्राह्मणादौ राजशब्द इति द्रष्टव्यम् । तथा च दर्शयति—न त्वेवं स्मरन्ति राज्ययोगाद्राजेति । तच्चैतदाचारस्य दौर्बल्याद्गौणकल्पनाश्रयणमित्येवमेव भाष्यं नेयम् । यत्त्वौदमेघिशब्दादिवत्प्रकृत्यर्थानुमानं तद्द्रविडप्रयोगेण प्रत्यक्षेण बाध्यते । अथ राज्यस्य कर्तैवमभिधीयत इति । निमित्तभूतोऽपि कर्मकर्तृसंबन्धस्तस्य च स्मरणमनुमातव्यम् । राज्ञः कर्म राज्यमिति प्रत्यक्षं स्मरणं 586 तस्माद्बलवत्तरम् । पर आह—यो यो राज्यं करोतीति । सर्वथाऽन्वयव्यतिरेकाभ्यां वाच्यवाचकसंबन्धो विज्ञायते । स च राजशब्दस्याव्यभिचारेण राज्यनिमित्ततया च गम्यते न तु राजकर्मनिमित्तत्वेन, स्मृतेः पुनः शब्दापशब्दविभागमात्रविषयत्वादविषय एवायम् । उभौ हि राजराज्यशब्दौ साधू तस्मादयुक्तः स्मरणोपन्यास इति । तत्रोच्यते । सत्यं प्रयोग एव, न च स्मृतेः कस्य किंयोगनिमित्तत्वमित्येष व्यापारस्तथाऽपि तु साध्वसाधुत्वपरतयैवान्वाख्यानान्निमित्तत्वमवगम्यते । राज्ञः कर्म राज्यमिति हि व्युत्पादने तद्योगनिमित्ते राज्यमित्यर्थादुक्तं भवति । तेन स्मृतिबलीयस्त्वाद्राजशब्द एव स्वतन्त्र इति । प्रयोगोऽपि च द्रविडेषु व्यभिचारीत्युक्तमेव । मत्पक्षे तु प्रयोगस्यातन्त्रत्वाद्व्यभिचारित्वमदूषणम् । यत्र तावत् प्रयोगस्तत्रास्ति राजकर्मत्वम् । तेन प्रयुक्तस्यान्वाख्यानकरणादप्रयुक्तनिमित्तान्वाख्यानाभावाच्चादोषः । किं च ।

असाधारणभावेन सर्वत्रेष्टं विशेषणम् ।
तेन तस्यैव कर्मेति चिन्तितादि न गृह्यते ॥

जनपदरक्षणं ह्यसाधारणं राजकर्म तेन राज्यमित्युच्यते । चिन्तितनिमिषितादि तु राज्ञश्चान्येषां चेत्यव्यवच्छेदान्न राज्यशब्दाभिधेयं भवतीति । तेन सार्वलौकिकादपि प्रगोगात् 429‘शास्त्रस्था वा तन्निमित्तत्वात्’ इत्यनेनैव राजशब्दस्य क्षत्रियवचनत्वम् । तुल्यश्चान्त्यजनपदवासिनामपि दृष्टार्थत्वाच्छाब्दव्यवहारे प्रमाणभाव इत्युक्तं 430‘चोदितं तु प्रतीयेत’ इति । तस्मात्क्षत्रियस्यैव राजसूयोऽस्तीति ब्राह्मणादीनां प्रापकाणि श्रवणानि । ततश्च ‘एतयाऽन्नाद्यकामम्’ इत्येतदपि फलं बहिरेव प्रयोगाद्भविष्यतीति ।

587
क्रतुमध्यप्रयोगो हि स्वाराज्येनैव पूरितः ।
साकाङ्क्षस्त्वितरस्तस्मात्तस्यैव फलसंगतिः ।

ननु चैतयेति प्रत्यक्षविशेषवचनात्परोक्षसामान्यप्रवृत्तां राजसूयचोदनां बाधित्वाऽन्नाद्यफलतयैव भवितव्यम् । नैतदेवम् । विरोधाभावात् । तथा हि ।

विरोधित्वात्प्रसज्येते विकल्पावृत्तिकल्पने ।
बाधस्तेनाभ्युपेतव्यो व्यवस्थायां तु नैव ते ॥

न ह्यनेकफलमेकस्य विरुद्धं प्रयोगान्तरस्य वचनान्तरेणैव कल्पितत्वात् । समुच्चयेन ह्यावृत्तिदोषोऽन्यत्राभिधीयते । सा त्वत्राऽऽवृत्तिर्ब्राह्मणादिसंबन्धाद्राजसूयग्रहणाच्चावश्यंभाविनी । यदि च ‘एतयाऽन्नाद्यकामम्’ इत्युत्पत्तिवाक्यं भवेत्ततः पश्चात्प्रवर्तमाना राजसूयचोदना बाध्येत । न । द्वयोरपि ह्याग्नेयादिचोदनोत्पादितेषु कर्मसु प्रवृत्तेषु युगपत्कालत्वेनागृह्यमाणविशेषत्वात्तुल्यबलत्वम् । यथैव हि राजसूयचोदना संनिहितानालोच्य प्रवर्तते तथैवान्नाद्यकामचोदनाऽपि, न हि तत्रावेष्टिः केनचिदपि शब्देनोपात्ता । न च राजसूयेनेति सामान्यशब्दः पौर्णमासीशब्दवत् । प्रकृतसमुदायविशिष्टसमुदायिवचनत्वात् । अत एव तत्कृतमपि न दौर्बल्यं लभते । इयांस्तु विशेषः । एकेन बहवो गृह्यन्ते, अन्येनाल्पे । न च तावता कश्चिदतिशयोऽस्ति । ननु चैतयेति श्रुत्यैव प्रत्यक्षवचनादस्ति विशेषः । स्याद्विशेषो यद्येतच्छब्दः फलेन संबध्यते । यदि वा ‘अथैष ज्योतिः’ इत्यादिवत्प्रस्तूयमानं ब्रूयात् । प्रत्ययसंनिकर्षात्तत्रापि यजिशब्दगृहीतैवावेष्टिरन्नाद्येन संबध्येत । एतावच्च राजसूययजावप्यस्तीत्यविशेषः प्रकृतमपि च ब्रुवन्नैतच्छब्द आग्नेयादिवाक्यालोचनादृते नैव ब्रवीतीति । ततश्च राजसूययजिरपि तावता यत्नेन शक्नोति ग्रहीतुमिति तुल्यबलत्वम् । नन्ववान्तराधिकारस्यास्ति विशेषः । उच्यते । अयमेव विशेषो यदेकत्र बहूनां ग्रहणमपरत्र चाल्पानाम् । ग्रहणवेला तु तुल्यैव । यदि चैकान्तिकमत्राकर्मान्तरत्वं स्यात्तत एवमुच्येत । कर्मान्तरमपि चैतदिति दर्शितम् । ततश्च विषयान्तरत्वादेव स्वाराज्यान्नाद्ययोरविरोधः । कर्मान्तरत्वेऽपि च बार्हस्पत्यादिलिङ्गदर्शनात्प्रकृतावेष्टिप्रकृतित्वमेव प्रतिपत्तव्यम् । राजन्यस्यापि तुल्यप्रवृत्तेः फलपदानुषङ्गाच्च ब्राह्मणवैश्यवदेव कर्मान्तरेण प्रयोगान्तरेण वा संबन्धः । एवं च तस्यापि 588 मध्येनिधानवाक्यं तन्त्रप्रयोगे सत्युपपत्स्यते ॥ राजसूयमध्यस्थायां तु दक्षिणाभेदात्प्रतीष्टि प्रयोगान्यत्वे मध्येनिधानविधिरवरुध्येत । तस्मात्प्रापकाण्येतानि श्रवणानीति सिद्धम् ॥ ३ ॥

  1. तथैवेति—त्रयाणां वर्णानां वाचक उत क्षत्रियस्यैवेत्यर्थः ।

  2. ( अ॰ ४ पा॰ ३ अ॰ ३ सू॰ ५ ) ।
  3. ( अ॰ १ पा॰ ३ अ॰ ४ सू॰ ९ )
  4. ( अ॰ १ पा॰ ४ अ॰ ७ सू॰ १० ) इत्यत्रेति शेषः ।
  5. तदेवेति—यौगिकप्रयोगस्य सार्वलौकिकत्वाभिधानेन सिद्धमविप्रगीतत्वमेवेत्यर्थः ।

  6. ऐश्वर्यात्मके राज्ये लिप्सयैव प्रवृत्तेर्विधिविषयत्वाभावान्नित्यत्वानुपपत्तेरनित्यस्यैवागत्या, चोरशब्दप्रवृत्तौ स्तेयस्येव, राजशब्दप्रवृत्तौ राज्यस्य निमित्तत्वं भविष्यतीत्याशाङ्कायांम् । चाटतस्कर र्दुर्वृत्तमहासाहसिकादिभिः । पीड्यमानाः ग्रजा रक्षेत् कायस्थैश्च विशेषतः । इत्यादिविधिदर्शनाद्राज्यस्यापि विधिविषयताऽस्त्येवेति समाधानमाह—तदपि हीत्यादिना । विधानात्प्रभृति—विधानत इत्यर्थः ।

  7. असंबन्धे—विरोधनिमित्तक इत्यर्थः ।

  8. ( पा॰ सू॰ ५-१०-१२४ )
  9. ( अ. १ पा. ३ अ. ५ सू. ९ ) ।
  10. ( अ॰ १ पा॰ ३ अ॰ ५ सू॰ १० ) ।