बह्वृचब्राह्मणेऽध्वर्युब्राह्मणे वा श्रूयत इति486 नातीवाभिनिवेष्टव्यम् । ननु कर्तृधर्मः कर्मधर्म इति शेषलक्षणविषयत्वादिह न संबध्यते । केचिदाहुः । पर्यवसिते लक्षणार्थे तदीयोऽपि विचारः प्रत्यासत्तेः क्रियमाणो न विरुध्यत इति । तत्त्वयुक्तम् । शाखान्तरे कर्मभेदविचारस्याद्याप्यपर्यवसानात् । अत एवं संबन्धनीयम् । यथैव भेदकारणानि कर्मस्वरूपभेदे व्याप्रियन्ते तथैव प्रयोगभेदेऽपि । तदिह यावज्जीवगुणसंयुक्तानामग्निहोत्रादीनां किं प्रयोगा भिद्यन्त उतैक एवायं प्रयोगः काम्यः स एव यावज्जीवकालपरिमित इति । तत्र यदि यावज्जीवकालः कर्मधर्मत्वेन विधीयते ततः सायंप्रातर्वाक्यवशेन तत्कालसमापनमग्निहोत्रं न शक्नोति तावन्तं कालं पूरयितुमित्यर्थाज्ज्योतिष्टोमवदभ्यस्तरूपमेव प्रयोगं प्रतिपत्स्यते । यदि पुनर्जीवनं निमित्तत्वेनोद्दिश्य कर्म विधीयते ततो यावत्कर्तृभाविनि नियते निमित्ते विना कामसंबन्धेन चोद्यमानमकरणे दोषप्रसक्तेरवश्यं पुरुषेण जीवता स्वार्थसिद्ध्यर्थमनर्थपरिहाराय वा कर्तव्यमिति कर्तृधर्मो नियमोऽनेन चोदितो भवतीति । तदा च सायंप्रातःकालयोर्जीवनस्य च संहतानां निमित्तत्वात्प्रतिदिवसं निमित्ते तप्तर्यवसितं कर्म पुनः पुनः क्रियत इति प्रयोगान्यत्वम् । तेन प्रयोगभेदाभेदावेवैतत्फल487त्वाद्भाष्यकारेणोपन्यस्ताविति मन्तव्यम् । किं प्राप्तम् । 624 एकः प्रयोगोऽभ्यस्तरूपः कर्मधर्मो यावज्जीवकता कालोपदेशश्चायमिति । कुतः ।

कर्मस्थो हि कथंभावस्तदङगमभिकाङ्क्षति ।
कालोपदेशपक्षे च तत्तथैवोपपद्यते ॥

कालो ह्युद्दिश्यमानस्तन्निमित्तश्चाभ्यासः कर्माङ्गं भवति । ततश्च प्रकरणमनुगृह्यते । ननु च पुरुषधर्मत्वेऽपि तस्यैव कर्मणो जीवने विधानान्नैव प्रकरणं बाध्येत । सत्यमधिकारो न बाध्यते कथंभावात्मकं पुनः प्रकरणं क्रतुधर्ममपेक्षमाणं पुरुषधर्मे विधीयमानेऽन्यन्तं बाधितं भवति । यद्यपि कालस्यापि निमित्तवदेवानुपादेयत्वात्तुल्या वचनव्यक्तिस्तथाऽपि फलतः कालविधानं यागानुवादश्चेति विपरीतं कथ्यते । अथवा जीवनपरिमितकालद्वारेणाभ्यासश्चोदयिष्यते । स च कर्मोद्देशेन शक्यत एव विधातुमित्येवमुपदिश्यते । कर्तृधर्मपक्षे पुनर्न कथंचित्कर्मोद्देशः । एवं चैकप्रयोगत्वे सति दीर्घसत्रप्रयोगसंस्तव उपपन्नो भविष्यति । इतरथा पुनः प्रतिदिनं पर्यवसानान्न कथंचित्सत्रसारूप्यं भवेत् । तस्मात्कर्मधर्मोऽभ्यास इति ॥ १ ॥

  1. भाष्यकारोक्ताविति शेषः ।

  2. प्रयोगभेदाभेदफलत्वादिति पाठान्तरम् ।