624 एकः प्रयोगोऽभ्यस्तरूपः कर्मधर्मो यावज्जीवकता कालोपदेशश्चायमिति । कुतः ।

कर्मस्थो हि कथंभावस्तदङगमभिकाङ्क्षति ।
कालोपदेशपक्षे च तत्तथैवोपपद्यते ॥

कालो ह्युद्दिश्यमानस्तन्निमित्तश्चाभ्यासः कर्माङ्गं भवति । ततश्च प्रकरणमनुगृह्यते । ननु च पुरुषधर्मत्वेऽपि तस्यैव कर्मणो जीवने विधानान्नैव प्रकरणं बाध्येत । सत्यमधिकारो न बाध्यते कथंभावात्मकं पुनः प्रकरणं क्रतुधर्ममपेक्षमाणं पुरुषधर्मे विधीयमानेऽन्यन्तं बाधितं भवति । यद्यपि कालस्यापि निमित्तवदेवानुपादेयत्वात्तुल्या वचनव्यक्तिस्तथाऽपि फलतः कालविधानं यागानुवादश्चेति विपरीतं कथ्यते । अथवा जीवनपरिमितकालद्वारेणाभ्यासश्चोदयिष्यते । स च कर्मोद्देशेन शक्यत एव विधातुमित्येवमुपदिश्यते । कर्तृधर्मपक्षे पुनर्न कथंचित्कर्मोद्देशः । एवं चैकप्रयोगत्वे सति दीर्घसत्रप्रयोगसंस्तव उपपन्नो भविष्यति । इतरथा पुनः प्रतिदिनं पर्यवसानान्न कथंचित्सत्रसारूप्यं भवेत् । तस्मात्कर्मधर्मोऽभ्यास इति ॥ १ ॥

धर्म इत्यनुवर्तते । तेनैषा प्रतिज्ञा कर्तृधर्मोऽयं चोद्यत इति । सोऽपि च नियमो न याथाकाम्यम् । कुतः ।

यावज्जीवपदाख्यातश्रुतिवृत्तित्वसंभवः ।
मत्पक्षे भवतस्तत्र लक्षणावृत्तता भवेत् ॥

इह हि यावज्जीवमिति यावत्कर्तृभविजीवनं निमित्तभूतं श्रुत्यैव प्रतिपादितम् । जुहोतियजतीत्यपि धात्वर्थानुरक्तभावनामात्रवाची प्रत्ययांशः श्रौत एव । तदुभयमपि मप्तक्षेऽनुगृह्यते । भवत्पक्षे तु जीवनेन कालो लक्ष्येत  । जुहोतियजतिभ्यामप्यभ्यासः ।