643 अथ यदुक्तमेकादशिन्यां पक्षवेदिसंमानदर्शनं न स्यादिति । तत्र ब्रूमः ।

अन्यथाऽपि तु नैवास्ति पक्षवेद्यादिमानता ।
एकादशिन्यभावेन स्तूयते त्वेकयूपता ॥

एकयूप एकादश पशव इत्यस्य विधेः शेषोऽयं यत्पक्षसंमितामित्यादि । एकादशिन्यां हि सत्यामन्यतरसंमानाश्रयणात्क्लेशो भवेत् । तस्मादेकयूप एव वरमिति । पक्षसंमानं तावदत्यन्ताप्राप्तमेवेति नित्यानुवादः । वेदिसंमानोपदेशोऽपि प्रशंसारूपेणैकयूपप्रशस्ततरत्वज्ञापनार्थः । रथाक्षमात्रान्तरालता च यत्रैकादशिनी विहिता तत्र भविष्यतीत्यविरोधः । इह तु वेदिसंमानस्य प्रशंसया विधेयत्वप्रतीतेरशक्यमन्यस्तुत्यर्थत्वं कल्पयितुम् । अतः पक्षसंमानस्याप्राप्तस्यैव वेदिसंमानस्तुत्यर्थो नित्यानुवाद इति समर्थयितव्यम् । प्राकरणिकत्वाच्चास्यैवाग्नौ बलीयस्त्वमित्यनारभ्याधीतो रथाक्षमात्रान्तरालविधिस्तद्विनिर्मुक्ता विकृतीर्गमिष्यति । सूत्रमप्येवं नेयम् । यदि हि 503द्रव्ये वेदिसंमानं न चोद्येत ततोऽर्थानां—पक्षसंमानादिवि504धीनामव्यवस्था स्यात् । सा च रथान्तरालत्वेन बाध्येत, न त्वेवमस्तीत्यविरोधः ॥ २६ ॥

  1. चयन इत्यर्थः ।

  2. विधेयानामित्यर्थः ।