644 वैकल्पिके षोडशिन्यगृह्यमाणे द्वयोरतिरेकः । क्रियमाणे त्वेकविंशतिप्रचयादृग्द्वयादेकातिरेकेण तिस्रो भवन्ति । तस्मादविरोधः ॥ २७ ॥

सारस्वते हि द्वादशाहन्यायेनैवोभयोः पक्षयोर्ज्योतिष्टोमपूर्वकत्वादवश्यमेवं वक्तव्यम् । यदा पुरोडाशिनः पौर्णमासीपक्षे तदोपवसन्ति, यदा सांनाय्यिनोऽमावास्यापक्षे तदा वत्सानपाकुर्वन्तीति । भवति हि कालभेदादपि कर्तृभेदोपचारस्तस्मादप्यदोषः ॥ २८ ॥

अनुभाषणं सामान्यपरिहारो505 वा ॥ २९ ॥

संस्थाव्यवस्थार्था506 वा बृहद्रथंतरयोः पुनःश्रुतिर्भविष्यति ॥ ३० ॥

शाखान्तरविहितप्रयाजानुवादेन सह होमं वदन्नन्यशाखाधीतं च ‘कुटरुरसि’ इति मन्त्रमश्मादाने विदधत्सर्वशाखाप्रत्ययत्वं दर्शयति ॥ ३१ ॥

प्रतिशाखं वा विधिपृथक्त्वं व्यवतिष्ठेत । तथा सति हि क्रमभेदं न यास्यन्ति स्वशाखाविहिताः क्रियाः । परिमाणं च तद्वर्ति नान्यत्वं प्रतिपत्स्यते ॥ ३२ ॥

  1. परिहार इति । अत्रेदमाकूतम्—उपहव्ये बृहद्रथंतरपुनःश्रुतेर्नास्माकं प्रतिप्रसवः प्रयोजनत्वेनाभीप्सितः । येनोपालभ्येमहि । किं तु, अन्यत्किंचिदित्येवं सामान्यतः परिहार इति ।

  2. संस्थाव्यवस्थार्था वेति—वाकारश्चार्थे । एवं च भाष्योक्तं प्रयोजनमुपलक्षणं विज्ञेयम् । अन्यथा दक्षिणाव्यवस्थामात्रार्थत्वे संस्थापुनःश्रुत्यानर्थक्यापरिहारात् । न च वाक्यभेदः शङ्कनीयः । अतिदेशतः पूर्वप्रवृत्त्या विशिष्टविध्यङ्गीकारेण तदयोगादिति ।