646 यत्र स्मार्ताः पदार्था न क्रमकालपरिमाणानुरोधेन बाधितास्तत्र श्रौता बाधिष्यन्त इति कुत एतत् । तेनैव507 गतत्वादवाच्यमिति चेन्न । सूत्रकारस्यात्रैव प्रथमाभिधानात् । तत्र हि कारणाग्रहणमात्रमुपपत्तिरुक्ता । शेषं त्विह सिद्धमसूत्रितमित्यपुनरुक्तत्वम् ।

तस्मात्तदेवेति मते न कर्म भिन्नं कथंचित्प्रतिशाखमिष्टम् ।
न कारणं सप्तममस्ति चान्यदतो508 यथोक्तैव तु भेदसिद्धिः ॥ ३३ ॥
इति शाखान्तराधिकरणम् ॥ २ ॥
इति श्रीभट्टकुमारिलविरचिते मीमांसाभाष्यव्याख्याने तन्त्रवार्तिके द्वितीयाध्यायस्य चतुर्थश्चरणः समाप्तः ॥
समाप्तश्च द्वितीयोऽध्यायः ॥

शेषप्रतिज्ञाधिकरणम्

  1. तेनैवेति—शिष्टाकोपाधिकरणेनैवेत्यर्थः ।

  2. एवमिति न्यायसुधागृहीतः पाठः । उक्तेन प्रकारेण शब्दान्तरादिषट्प्रमाणिकैव भावनाभेदसिद्धर्न शाखान्तरप्रमाणिकेत्यवेमध्ययार्थोपसंहारार्थश्चतुर्थश्चरण इति ज्ञेयम् ।