457 साकाङ्क्षः पठ्यते । यथा ‘चित्पतिस्त्वा पुनातु’ इत्येतेषामन्ते “अच्छिद्रेण” इत्यादिस्तत्र कथमिति । किं प्राप्तम् ।

अनन्तरेण संबध्य शेषस्येष्टा कृतार्थता ।
शेषिणश्च निराकाङ्क्षाः किंनिमित्ताऽनुषङ्गधीः ॥

उच्यते ।

अनन्तरस्य वाक्यस्य यदि शेषो भवेदयम् ।
तत एवं भवेदेष त्वाख्यातार्थेन सर्वभाक् ॥

आनन्तर्यविशेषेण ह्ययं पुनात्वित्येतेन संबध्यते । स चैक एव त्रिष्वपि वाक्येषु, तदेकत्वाच्चार्थस्याप्येकत्वम् । न च कारकभेदात्तस्य भेदो भवति । येन चित्पत्यादिसंबद्धादस्यानन्यत्वं विज्ञायते । न चाच्छिद्रेणेत्येवमर्था क्रिया, येन सकृत्संबन्धेन संतुष्येत् ।

तस्मादस्य क्रियार्थत्वाद्यावदेषा प्रयुज्यते ।
तावदेव प्रयोगित्वं काष्ठानां पचने यथा ॥

अथोच्यत एकत्वेऽप्यस्या यत्कर्तृविशिष्टाभ्यासाद्यः करणसंबन्धः श्रूयते तद्विशिष्टैव तेन योजयितव्या । यथैकस्यापि ज्योतिष्टोमस्य मैत्रावरुणग्रहाभ्यासविशिष्टस्य पयसा