458 श्रयणं चोदितं नातिप्रसज्यते, यथा चात्रैव चित्पत्यादयो, न सर्वे सर्वत्र भवन्ति । उच्यते ।

श्रयणानां व्यवस्था हि भिन्नाऽपूर्वप्रयुक्तितः ।
कर्त्रन्तरावरोधाच्च चित्पत्यादेरसंकरः ॥

ऐन्द्रवायवादिग्रहाभ्यासानामदृष्टार्थत्वात्तद्भेदेन श्रयणव्यवस्था युक्ता । न हि तथा किंचित्कारणमस्ति । करणस्य क्रियां प्रत्युपयुक्तत्वात् । करणप्रकाशनद्वारेण सैव क्रिया पुनः प्रकाश्यते । सा च सर्वत्राविशिष्टत्वात्प्रकाशनमपेक्षते । यथा च वाक्पत्युपादानात्तत्समानव्यापारश्चित्पतिर्निवर्तते, नैवमच्छिद्रपवित्रप्रतियोगिकरणान्तरश्रवणमस्ति येनैतन्निवर्तेत, न च कर्तृप्रयुक्तं करणम् । यतस्तद्भेदाद्व्यवतिष्ठेत, कारकाणां क्रियाक्षिप्तत्वेन परस्परसंबन्धाभावात् । नन्वेवमपि मन्त्रान्तरमतेनापि पुनातुशब्देनास्य संबन्धः स्यात् । नैष दोषः । दर्शपूर्णमासबर्हिर्धर्मवद्व्यवस्थासिद्धिः । इह प्रक्रम्य पुनातुशब्दस्य यत्कार्यं तत्प्रयुक्तमच्छिद्रादिविशेषणं मन्त्रत्रयेऽपि तदेकमिति प्रत्यक्षमवगच्छामः । न मन्त्रान्तरे, कर्मान्तरगतद्रव्यान्तरसंस्कारार्थत्वात् । नन्वेवं सत्येककार्यत्वान्मन्त्रविकल्पः प्रसज्येत । 233कुतो वैवमादीनां संख्यायुक्ताविधानादन्ते समुच्चयः । सर्वेषु विपरिवृत्तिभङ्गासंनिधिः संभाव्येत न मन्त्रान्तरेष्विति विशेषः ॥

तस्मात्पुनातुशब्दोऽयं सर्वमन्त्रगतोऽपि सन् ।
अच्छिद्रापहृतः सर्वैः पुनस्तद्वानपेक्षते ॥

सर्वाभ्यासान्ताभिहितेनाच्छिद्रेणेत्यादिनाऽनन्यगतिकत्वाद्यदा पुनातुशब्दः स्वीकृतः, तदा पुनात्वच्छिद्रेणेत्येवं कल्पिते संबन्धे य एवानन्तरः पुनातुशब्दः स एव पूर्वयोरपीति करणसंबन्धप्रदर्शनवेलायामन्वेति । क्रियाः पदार्थाः सन्तस्तामपेक्षमाणाः सकरणिकामेवाऽऽसादयन्तीति सर्वत्रानुषङ्गः । एवं वाऽनुषङ्गेण प्रयोक्तव्ये ये तन्त्रेण प्रयुञ्जते तेषां तदालस्यमात्रं पुरस्तात्परस्ताद्वा वाक्यशेषस्यानुषङ्गत्वाविशेषे सति यत्पुरस्तादनुषङ्गेऽन्वीयत इति कैश्चिदुच्यते तद्विशेषप्रसिद्धिमात्रमिति द्रष्टव्यम् ॥ ४८ ॥

इत्यनुषङ्गाधिकरणम् ॥ १६ ॥

व्यवेताननुषङ्गाधिकरणम्

  1. विभागमन्त्रवदिष्टापत्त्याऽऽशङ्कां परिहरति कुतो वेत्यादिना । समुच्चयप्राहकप्रमाणाभावाद्युक्त एव विकल्प इत्याशयः । इदन्तु ‘त्रिभिर्यजमानं पावयति’ इति वचनेन दृष्टार्थत्वेऽपि मन्त्राणां समुच्चयावगतेर्याज्ञिकाचारसत्वाच्च प्रौढिवादमात्रं विज्ञेयम् ।