पौर्णमास्यधिकरणम्

473 समस्तान् दर्शपूर्णमासप्रकरणयागविधीनुदाहृत्य किं सर्वेषां प्रधानत्वमुत केषां चिदेवेति भाष्यकारेण विचारः प्रस्तुतः । तत्राभिधीयते—

अङ्गप्रधानचिन्तेयं चतुर्थाध्यायगोचरः ।
केन नाम प्रसङ्गेन प्रस्तुता भेदलक्षणे ॥

अभ्यासलक्षणभेदानन्तरभिदानीं संख्यानिमित्तं भेदमविचार्यैव कथमयं लक्षणानौपयिकोऽर्थश्चिन्त्यते । केचिदाहुः । अयमपि लक्षणार्थ एव, अनन्तरं प्रधानाप्रधानानि परीक्षिष्यन्त इति वचनात् । तत्त्वयुक्तम् । तत्रैव247 पर्यनुयुज्य वचनस्यान्यथैव व्याख्यानात् । अपूर्वभेदप्रतीत्यर्थो हि स तृतीयसिद्धोऽर्थोऽत्रोपन्यस्त इत्युक्तम् । अयं तु कर्मणामङ्गाङ्गिभावो न कथं चित्संबध्यते । महता प्रयत्नेनायं चतुर्थे साधयिष्यते 248“दर्शपूर्णमासयोरिज्याः प्रधानानी”त्यत्राधिकरणे, स्फुटत्वाच्च नान्यथा तन्नेतुं शक्यते । तस्मादिहाविचारणीयमेतत् । य एवं विद्वानित्येवं संयुक्तौ प्रकृतानुवादावथ वाऽपूर्वकर्मविधी तत्रेतरे गुणविधय इत्यपि सर्वं यथोपन्यस्तेनाप्यधिकरणार्थेन न 249संगच्छतेऽथ त्वेतदेव विचार्यते ततः पूर्वं नोपन्यसितव्यम् । अपि च—

भेदे च दृष्टसामर्थ्यौ समप्राधान्यसिद्धये ।
कथं शब्दान्तराभ्यासौ हेतुत्वेनोपवर्णितौ ॥

शब्दान्तरत्वादभ्यासाच्च भेदस्तावदुच्यते समप्रधानत्वमप्येताभ्यामेव प्रतिपाद्यत इत्यपूर्वा युक्तिः । न वाऽधिकरणद्वयशरीरस्य विविक्ताः पक्षहेतवो दृश्यन्ते येन तन्त्रेण 474 विचारद्वयमिदं प्रस्तुतमित्यध्यवस्येम । तस्मादेवं समर्थयितव्यम् । इहाभ्यासलक्षणभेदातिप्रसङ्गापवादार्थमधिकरणे आरभ्यमाणे यथोदाहृतानां मध्ये द्वे एवोदाहरणे ‘य एवं विद्वान्पौर्णमासीं यजते’ ‘य एवं विद्वानमावास्यां यजत’ इति । तत्र संदेहः । किमेतौ यजतिशब्दावपूर्वयोः कर्मणोर्विधायकावुत पौर्णमास्यमावास्याशब्दाभ्यां स्वाभिधेयकालविशेषयुक्तकर्मप्रतिपादकाभ्यां विशेष्यमाणौ प्रकृतानेव कांश्चिद्यागाननुवदत इति । तत्रेतरेषामाग्नेयादीनां गुणात्प्रयाजादीनामभ्यासादाघारादीनां शब्दान्तरत्वात्सिद्धे भेदेऽधिकरणपक्षद्वयप्रयोजनभूतसमप्रधानभावाङ्गाङ्गिभावविषयत्वेनोपन्यासो नाधिकरणशरीरविषयत्वेन । न हि समप्रधानत्वमङ्गाङ्गिभावश्चाधिकरणपक्षावित्युक्तम् । तदिह पौर्णमास्यमावास्यासंयुक्तयोर्विधातृत्वं तदभिधेयकर्मभेदः समस्ताघारादीनां समप्राधान्यमित्येतत्त्रयमुत्तरोत्तरफलत्वेनाविनाभावसंबन्धादेकः पक्षः, तथा तयोरनुवादत्वं तद्भाव्यकर्माभेद अाग्नेयादीन्प्रत्याधारादीनामङ्गत्वमिति तेनैव प्रकारेणापरस्त्रिकः । त्रितयस्य त्रितयस्य च स्वांशाविनाभावादेकसिद्ध्यैवेतरद्वयसिद्धिर्मवतीति पक्षद्वयेऽपि यदेव साधितं तेनैवेष्टसिद्धिं मत्वा फलभूतस्तृतीयस्तृतीयोंऽश उपन्यस्तः । तत्र चार्थगृहीतावपि भेदाभेदौ विस्पष्टीकरणार्थं पुनरन्ते दर्शितौ । किमर्थं पुनरादौ व्यवहितयोः समप्रधानाङ्गाङ्गिभावद्वारेण भेदाभेदयोरुपन्यासः कृतः । एषा ह्याचार्यस्य शैलीति केचित् । तथा हि पूर्वाधिकरणयोरप्यपूर्वभेदमेवोपन्यस्तवान् । अथ वा यल्लिङ्गदर्शनं वक्ष्यति विकृतौ प्रयाजादयो दृश्यन्त इति तत्साक्षाद्भेदनिराकरणायासमर्थं समप्रधानभावं निराकरिष्यति, तन्निराकरणे च सत्यविनाभावाद्विधिभेदावपि निराकृतावेव भवत इति तदुपजीवनायेत्थमुपन्यासः । केवलभेदोपन्यासे तु तदसंबद्धमेव स्यात् । तत्र द्वेधा पूर्वपक्षो भविष्यति । एकः समप्राधान्यद्वारेणाऽऽग्नेयादीनां कर्मविधित्वे सत्येव पौर्णमास्यमावस्यासंयुक्तयोस्तद्द्व्यतिरिक्तकर्मविधानात्, अपरः पुनस्तयोरेव कर्मविधित्वमितरेषां तु गुणविधानार्थत्वमित्येवं, प्रथमं तावद्द्व्यतिरेकपक्षं परिगृह्णाति शब्दान्तरत्वादभ्यासाच्च समप्रधानानीति । यद्यपि चैतौ हेतू साक्षात्समप्रधानत्वेन न संगच्छेते तथाऽपि तत्प्रतिज्ञानेन योऽर्थाद्भेदः प्रतिज्ञातस्तेन संबन्धादेकवाक्यत्वम् । एतदुक्तं भवति । अयागेभ्यः शब्दान्तरत्वाद्यागेभ्यश्चाभ्या475 साद्भेदस्ततश्च समप्रधानानीति । न च समस्तानुवादस्य किं चित्प्रयोजनमस्ति । न च गुणफलनिमित्तानां किंचिच्छ्रूयते यत्र विधिव्यापारतः कर्मस्वरूपविधानमुपेक्षेत । न चैषा संज्ञा केषु चित्प्रकृतेषु प्रसिद्धा । वर्तमानापदेशेऽपि च सति प्रयोगवचनार्थवादपञ्चमलकारादीनामन्यतमेन ‘समिधो यजति’ इत्यादिवद्विधिः । सत्यपि च यच्छब्दोपबन्धे "यदाग्नेयोऽष्टाकपाल" इत्यादिवत् विधिशक्त्यनवलोपः । न च शाखान्तरीयवद्विधिविकल्पः । शाखान्तराणां पुरुषान्तरं प्रति प्रतिपादनेनार्थवत्त्वात् । न त्विह कर्मान्तरकल्पनादन्यत् प्रयोजनमस्ति । न च कस्य चिदन्यस्य विधेः स्तुतिः संभवति एकवाक्यत्वाभावात् । किं पुनरनयोः कर्मणोर्द्रव्यदेवतम् । तदुच्यते—

ध्रौवं साधारणं द्रव्यं देवता मान्त्रवर्णिकी ।
रूपवन्तावतो यागौ विधीयेते पृथक्तया ॥

“सर्वस्मै वा एतद्यज्ञाय गृह्यत”250 इति सर्वार्थत्वाद्यथैवोषांशुयाजस्य ध्रौवाज्यद्रव्यकत्वमेवमनयोरपि यागयोः । तथाऽऽज्यभागयोः क्रमे चतस्रोऽनुवाक्याः पठ्यन्ते । द्वे आग्नेय्यौ द्वे सौम्यौ । ते बलीयसा वाक्येनावच्छिद्यानयोः कर्मणोर्विधीयेते “वार्त्रघ्नी पौर्णमास्यामनूच्येते” “वृधन्वती अमावास्यायाम्”251 इति । न हि पौर्णमास्यमावास्याशब्दाभ्यामेतत्कर्मव्यतिरिक्तमन्यदिहोच्यते । ननु कालवचनावेताविह प्रयुज्येते । किं कालस्य मन्त्रसंबन्धेन । दृष्टश्च सप्तमीनिर्दिष्टानां कर्मणां प्रधानभावस्तद्यथा “येन कर्मणेर्त्सेत्तत्र जयां जुहुयात्” इति । तेनानुवाक्याद्वयस्य तुल्यार्थतया विकल्प्यमानस्यानुरूपा याज्याऽपि कल्पयितव्या । अथ वा युगपद्विधानात्समुच्चये सति द्विदेवत्यकर्माध्यवसायाद् द्वे द्वे याज्ये अपि कल्पयितव्ये । यद्वैकैवाग्नीषोमदेवत्या । अथ वा वार्त्रघ्न्योरेवैका याज्या कर्तव्या तथा वृधन्वत्योः । अतश्च श्रुतिविहितमन्त्रकर्मसंबन्धान्यथानुपपत्त्याऽग्नीषोमौ देवतोभयत्राध्यवसीयते । आज्यभागयोस्तु पुराकल्पसरूपेण वाक्येन देवता तावत्प्राप्तैव । ‘यस्यै कस्यै चिद्देवतायै हविर्निर्वपन् आज्यस्यैव नौ पुरस्ताद्यजन्’ इति । याज्याप्राप्तिश्चाबाधितैवानुवाक्यागमश्च दाशतयीभ्यः कर्तव्य इति न किं चिद्विरुद्धम् । तस्मादस्ति कर्मान्तरत्वेऽपि रूपमिति भेदोऽतश्च समप्रधानानि । भेद इति गृह्णीमः समप्रधानत्वं तु न मृष्यामहे । कुतः ।

निवेशः केषु चित्त्वेव पृथक्त्वेनाभिधानयोः ।
फलं च तद्विशिष्टेभ्य इति साम्यं न युज्यते ॥

476 दर्शपूर्णमासाभिधाने हि विशिष्टयागवाचिनी, तेन तन्मात्रस्यैव फलत्वादितरेषां तत्संनिधानादङ्गत्वेन भवितव्यम् । अत्राभिधीयते—

प्रसिद्धेनाप्रसिद्धस्य नित्यमिष्टं विशेषणम् ।
तस्माद्यज्यनुरोधेन नामार्थोऽत्र निरूप्यते ॥

सर्वत्र नामयुक्तकर्मविधाने सामानाधिकरण्यात्कदाचिद्यज्यर्थविशेषो नाम्ना निरूप्यते कदा चिन्नामार्थो यजिना । यो यत्र पूर्वतरप्रसिद्धार्थो भवति स इतरं स्वविषये स्थापयति । यथा ज्योतिष्टोमेनेत्यत्र ज्योतिर्भिस्त्रिवृदादिभिः स्तौमैर्योगात्प्रसिद्धार्थेन नाम्ना दक्षिणीयादिभ्यो यंजिर्निवर्त्य सोमयागे स्थाप्यते । तथा राजसूयेनेत्यत्र नाप यागायागविषयत्वेनोपप्लवमानं प्रकृतयागप्रसिद्धेन यजिना स्वविषयं नीयते । तदिह प्रातिपदिकद्वयसमासद्विवचनार्थानां दर्शपूर्णमासपदोपात्तानां न क्वचित्प्रसिद्धिरस्ति यया यजेस्तद्विषयत्वं विज्ञायेत । यजिः पुनर्यागमात्रे प्रसक्तः सन्नधिकारेण प्रकृतेषु स्थापितः शक्नोत्यप्रसिद्धं दर्शपूर्णमासशब्दं स्वविषये नियन्तुम् । ततश्च दर्शपूर्णमासाभ्यामित्यविवक्षितावयवसमासार्थद्वित्वं वर्णलोलीभा252वमात्ररूपेण केवलकरणसंवादिप्रकृताशेषयागनामत्वं राजसूयशब्दवत्प्रतिपद्यते । ‘सुपां सुपो भवन्ति’ इति बहुवचनस्य स्थाने द्विवचनं समस्तसमुदायगतैकवचनस्य वा । कथं पुनर्दर्शपूर्णमासाभ्यामित्यप्रसिद्धम् । यदा तावत्—

वाच्यकालयुजो यागाः प्रकृताः सन्ति के चन ।
द्विसंख्योत्पत्तियुक्ताश्च प्रसिद्धिर्येषु विद्यते ॥

तन्नामाशेषस्वार्थपरित्यागेनात्यन्तपरानुरोधिवृत्तिं भजते यत्र कश्चिदप्यंशोऽप्रसिद्धः । इह तु दर्शेन कालेन पौर्णमासेन च संयुक्ता आग्नेयादियागा विद्यन्ते । द्वित्वयुक्ताश्चाऽऽज्यभागादयस्तेषामयुक्तः परित्याग इति । तदुच्यते ।

प्रकृतिप्रत्ययौ पूर्णौ विशेष्टुं यजतिं क्षमौ ।
आग्नेयाद्याज्याभागादावेकत्रैकार्थशून्यता ॥

यद्यप्याग्नेयादिषु स्वाभिधेयकालयोगात्प्रातिपदिकं वर्तेत तथाऽपि तेषां बहुत्वाद् द्वित्वानुपपत्तेरसमर्थं पदं, यत्रापि द्वित्वमस्त्याघारयोराज्यभागयोर्वा तत्रापि प्रातिपदिकस्यात्यन्तमशक्तिः । न चार्थप्रकरणशब्दान्तरैर्विस्पष्टं सामानाधिकरण्यमस्ति, येन केन चिद्वर्णसामान्यादाख्याविकारन्यायेन गौणत्वेन वा तद्विषयत्वमध्यवसीयेत । कस्मात्पुनरिमावेवापूर्वौ पूर्णमास्यमावास्यासंज्ञकौ द्वौ यागौ फलाय न विधीयेते । तथा हि ।

सिद्धान्तेऽपि तु यादृग्भ्यां शब्दाभ्यामनुकीर्त्तितौ ।
तावेव समुदायौ द्वौ विधास्येते फलं प्रति ॥

477 यदि कश्चिद्दर्शपूर्णमासशब्दयोः पौर्णमास्यमावास्याशब्दयोश्च वैलक्षण्यान्न पूर्वकर्मप्रत्यभिज्ञानं फलवाक्येऽस्तीति ब्रूयात्स वक्तव्यस्तुल्यस्ते दोषोऽयमिति । तवापि हि पौर्णमास्यमावास्यासंज्ञकावेव समुदायौ फलवन्ताविष्टौ । न च तयोः प्रयोगवाक्येऽस्ति शब्दत्वात्प्रत्यभिज्ञानम् । अथ तत्र विनाऽपि संज्ञानुसारेण कालयोगाद्वृत्तिरिष्यते स ममाप्यस्त्येव कालयोगः "पौर्णमास्यां पौर्णमास्या यजेत" "अमावास्यायाममावास्यया यजेत" इति । नैतदेवम् । एवमपि हि—

षण्णामग्न्यांदियागानामनयोश्च द्वयोरयम् ।
समानः कालसंयोगं इति नेष्टावधारणा ॥

न ह्यष्टानां कालसंयोगे सत्यवधारणे हेतुरस्ति, येनानयोरेव फलसंबन्धः स्यात् । स्यादेतत् । एतेषां मध्ये ययोः कयोश्चित्फलसंबन्ध इति । तदयुक्तम् ।

विशेषहेत्वभावे हि ग्रहणं निष्प्रमाणकम् ।
पक्षे वाऽङ्गप्रधानत्वं विरोधान्न विकल्पते ॥

विना विशेषहेतुना यागत्वकालसंबन्धसाम्ये सति यावेव गृहीतौ तत्रैवेतरेषां प्राधान्यप्रामाण्यभाजां सतामङ्गत्वापादनाद् विरुद्धता स्यात् । अथ विकल्पेन सर्वेषां पाक्षिकोऽनुग्रहः कल्प्येत तत्रापि तस्यैव कदा चित्प्रधानत्वं कदा चिदङ्गत्वमिति विप्रतिषिद्धम् । उभयात्मनां चाङ्गतया प्रवृत्तेः प्रधानत्वेन च निवृत्तेराग्नेयादीनां विकृतिगमने यावज्जीवं संशयप्रसङ्गः । सर्वसंख्याश्च केन चिदवान्तरसामान्यावच्छेदेन संख्येयेषु वर्तन्ते । न वाऽपूर्वयोराग्नेयादीनां वा समस्तानामेकदेशे वा किंचिदवान्तरसामान्यं दृश्यते येन द्वित्वमवधार्येत । य एव हि गृहीतस्तस्यैव यागान्तरापेक्षयोद्भूतेन बहुत्वेन केवलात्मापेक्षेण चैकत्वेन द्वित्वं बाध्यते । ततश्च द्विवचनस्याप्रसिद्धिः । सिद्धान्ते तु शब्दद्वयेन समुदायद्वयापादनादसमुदायीकृतयागवैलक्षण्यादवान्तरधर्मयोगात्संभवति द्वित्वयोगस्तद्वशेन च कालयोगात्कथं चिद्दर्थपूर्णमासप्रातिपदिकयोरपि वृत्तिसिद्धिरित्युपपद्यते यागविशेषणत्वं न तु पूर्वपक्षे समुदायत्वापादनाभावात्संख्यावृत्तिरिति प्रकृतयागमात्र एव फलसंबन्धः । अथ कस्मादष्टावेव यागाः पौर्णमास्यमावास्याकालगतद्वित्वापेक्षया लब्धविशेषणाः सन्तो न विधीयन्ते । यथा सिद्धान्ते समुदायगतद्वित्वापेक्षया षड् विधास्यन्ते । नेदृशेनास्फुटेन प्रकृतयागमात्रावलम्ब्याऽऽख्यातं शक्यं निवर्तयितुम् । न चात्यन्तव्यतिरेकात्कालगता संख्या यागसामानाधिकरण्यनिर्देशार्हा भवति । समुदायसमुदायिनोस्त्वव्यतिरेकादविरुद्धः संख्यासंबन्धः सिद्धान्ते । तस्मात्पूर्वपक्षे यजिवशेनैव नामपदवृत्तेरविशेषेण सर्वे यागाः समप्रधानाः । तथा प्राप्तेऽभिधीयते । प्रकरणं पौर्ण478 मास्यमावास्यासंयुक्तयोरालम्बनं स्यात् । प्रक्रियत इति प्रकरणम् । अथ वा प्रकरणं तयोः सहकारि भवेत्ततश्च तन्मात्रप्रतिपाद्योऽर्थो ग्रहीतव्यः । कुतः—

विधायको नियुङ्क्ते हि सर्वोऽसाधारणे यजौ ।
न च तत्र प्रवृत्तिः स्यादज्ञातद्रव्यदेवते ॥

न ह्यनेन यजिना पौर्णमास्यमावस्यापदाभ्यां वा यागमात्रे बुद्धिः क्रियते । न च प्रकृतकर्मग्रहणं त्वत्पक्षेऽस्ति । तत्राज्ञातरूपे सत्यपूर्वे कर्मणि न कथंचित्प्रवर्तेत । ततश्च वाक्यमेवानर्थकं भवेत् । प्रकृतग्रहणे तु तेषां द्रव्यदेवतायोगादेतत्कालवर्तित्वाच्च रूपज्ञानादर्थवत्त्वम् । ननूक्तं मत्पक्षेऽप्यस्ति द्रव्यदेवतमिति । सत्यम् ।

यथाकथं चिल्लभ्येत द्रव्यं साधारणं स्थितम् ।
तथाऽपि देवता नास्तीत्यरूपत्वान्न मुच्यते ॥

न हि मान्त्रवर्णिकी देवता संभवति । मन्त्राणां क्रमविशेषेणाऽऽज्यभागार्थत्वात् । न चास्य वाक्येन बाधः । विरोधभावात् । सर्वत्र ह्यविरोधेन वाक्ये निविशमाने विरोधपक्षस्त्यक्तव्यः । इह253 च पौर्णमास्यमावास्याशब्दौ यदि कर्मवचनावेव स्यातां ततो न विरोधः परिह्रियेत । कालवचनत्वे त्वनयोरविरोधः । साधारण्याच्चाविरोधपक्ष एव समर्थनीयः । किं च ।

प्रथमं काल एवाऽऽभ्यां शब्दाभ्यां प्रतिपाद्यते ।
पश्चात्तत्कर्म तद्योगादतः कालोऽत्र गृह्यते ॥

यदि हि सर्वलोकप्रसिद्धः कालोऽत्र न समवेयात्ततस्तदतिक्रमेण कर्मणी गृह्येयाताम् । अपि चोपपन्नतरा कालवचनत्वे सप्तमी, तस्य सर्वत्रैव कालस्याधिकरणत्वान्न कर्मणोऽधिकरणत्वानुपपत्तेर्यथा कथं चित्कल्पनीयं स्यात् । यत्तु किं कालस्य मन्त्रसंबन्धेनेति, यदि तादर्थ्यलक्षण एवैकः संबन्धो भवेत्स चात्रास्माभिरुच्येत तत एवं युज्यते वक्तुम् । इह त्वाज्यभागौ प्रति तादर्थ्ये व्यवस्थिते संकरे च प्राप्ते कालभेदेन प्रयुज्यमानयोर्मन्त्रयोर्व्यवस्थामात्रं क्रियते वार्त्रघ्नी पौर्णमासीस्थयोराज्यभागयोर्वृधन्वती अमावास्यास्थयोरिति । किं च ।

प्रज्ञातदेवतत्वाच्च दृष्टार्थाऽल्पविधानता ।
मत्पक्षे भवतस्त्वत्र प्रसक्ता बहुकल्पना ॥

479 सर्वत्रैवाऽऽकाङ्क्षापूर्वकः संबन्धो भवति । आज्यभागौ च प्रज्ञाताग्नीषोमदेवत्यौ तदभिधानसमर्थमन्त्राकाङ्क्षित्वादयत्नेन मन्त्रान् गृह्णीतः । त्वत्पक्षे त्वपूर्वयोः कर्मणोरज्ञातदेवत्वान्न मन्त्रापेक्षा । ततश्च मन्त्रतद्विशेषद्वित्वादिकल्पनादनपेक्षितानेकार्थविधिप्रसङ्गः । पुनश्च मान्त्रवर्णिकानेकदेवताकल्पना । न ह्येकस्य कर्मणोऽनेकया देवतयाऽनेकयाऽनुवाक्यया कार्यमस्ति । पुनश्चाश्रुतयाज्याकल्पनाश्रयणमाज्यभागयोश्चाश्रुतपुरोनुवाक्याकल्पनम् । यच्चैका याज्यैका चाऽनुवाक्या भविष्यतीति । न तत् । अनुवाक्यासमाख्याबाधात् । अपि च त्वत्पक्षे लिङ्गस्याविनियोजकत्वाद्वाक्ये च करणत्वेनाऽऽश्रयणात् “वैष्णवीमनूच्य” इत्यादिवददृष्टार्थप्रसक्तेर्न प्रकाशकता, प्रकाश्येनानपेक्षितत्वात् । मान्त्रवर्णिकदेवताकल्पनातश्च वरमारादुपकारकत्वम् । आज्यभागयोः पुनर्द्वित्वात्प्रज्ञातद्विदेवतत्वाच्च प्रकाश्याकाङ्क्षिताः प्रकाशका मन्त्रा लिङ्गक्रमविनियुक्ताः सन्त एकान्तेन दृष्टार्थतां प्रतिपद्यन्ते । तत्र च मन्त्रतद्विशेषद्वित्वादिषु प्राप्तेषु कालद्वारेण व्यवस्थामात्रविधानाल्लाघवं वाक्यस्य, न वाऽऽनर्थक्यम् । न हि संनिधानाद्व्यवस्था सिद्धा । तस्मान्न देवताविधिरसंबन्धात् । अतश्चारूपत्वादकर्मान्तरता । किं पुनः समस्तानुवादस्य प्रयोजनं, पश्य—

पदतद्भागवाक्यार्थविधिशून्या हि चोदना ।
धर्मं प्रत्युपयोगित्वं न कथं चित्प्रपद्यते ॥

उच्यते ।

यथैवोत्पत्तिवाक्यानां प्रयोगवचनाङ्गता ।
तथैव तदुपादानाद् द्वित्वसिद्ध्याऽनयोरपि ॥

वाक्यद्वयेन हि समुदायद्वये कल्पिते दर्शपूर्णमासाभ्यामिति द्विवचनं सिध्यतीत्यर्थवत्त्वम् । न हि विधिरेवैकः प्रयोजनवानिति कश्चिन्नियमहेतुरस्ति । अविधेरपि विधिशेषत्वेनार्थवत्त्वात् । न वाऽत्र विप्रकीर्णानामाग्नेयादीनामेतद्वाक्यद्वयमन्तरेण द्वित्वसंख्यायोगित्वं संभवति । एतदेव चाभिप्रेत्यास्य पक्षस्य प्रयोजनमेव गुणप्रधानत्वमादित उपन्यस्तम् । इतरथा हि ‘अविशेषादनर्थकं हि स्यात्’254 इत्यस्योत्तरमपरिकल्प्यानुवादपक्षो दुरुप480 न्यास एव स्यात् । तस्मादस्ति प्रयोजनं समस्तवाक्यानुवादेऽपीत्यदोषः । कथं पुनरत्यन्तभिन्नानां कर्मणां समुदायीकरणं शक्यं, शक्यमिति ब्रूमः ।

एककालाभिसंयोगाद्भिन्नानामपि कर्मणाम् ।
समुदायार्पणं शक्यमेकदेशस्थवृक्षवत् ॥

यथैव ह्येकदेशावस्थितान्वृक्षानालोच्य वेनमिति समुदायबुद्धिर्भवत्येवमेककालयुक्तकर्मसमुदायनामधेयबुद्धिः । तद्गतैकत्वावधारणाच्च पौर्णमासीमित्येकवचननिर्देशः । समुदायिवचनावेव चैतौ तल्लक्षितसमुदायगतसंख्याद्वारेणैकवचनान्तत्वं बिभ्राते । न समुदाययोरेव नामधेये भवतः । तथा हि ।

सामानाधिकरण्येन यागनामत्वनिश्चयः ।
समुदाये च यागत्वं नाऽऽग्नेयादिष्ववस्थितम् ।

“पौर्णमासीं यजते” इति यजिसामानाधिकरण्याद्यागनामधेयमेतदिति गम्यते । न चाऽऽग्नेयादीनां समुदाये यागत्वं समवेतं, किं तर्हि । प्रत्येकमाग्नेयादिषु । तस्माद्यथैवेतेषु प्रत्येकं यजिरेवं नामधेयमपि । न च समुदायोत्पत्तिरेकेन कालेन युक्ता । आग्नेयादीनामुत्पत्तिकाले परस्परानपेक्षत्वेन समुदायत्वानुपजननात् । ततः कालवशेनापि प्रत्येकं नामधेयमिति शक्यं वक्तुम् । यदि च समुदायिनैरपेक्ष्येण समुदाययोरेते नामनी स्यातां ततः प्रयोगवाक्येनापि समुदायौ फले विधीयेयातां, ततोऽवयवानामसाधनत्वात्समुदायादेकमपूर्वम् । अतश्च प्रत्येकापूर्वाणामभावात्कर्मभेदवैयर्थ्यप्रसङ्गः । सर्वधर्माणां चैकापूर्वनिबन्धनत्वात्संकीर्णवृत्तित्वं स्यात् । न च प्रत्येकमितिकर्तव्यतयाऽऽग्नेयादयः संबध्येरन् । ततश्च तद्गततन्त्रावृत्तिप्रयोगादिविचारासंबद्धत्वं भवेत् । न च प्रत्येकविकारे सौर्यादौ समस्तेतिकर्तव्यतातिदेशः स्यात्सहस्रादिशब्दवच्चावयववृत्त्यभावादेकपुरोडाशा पौर्णमासी, सांनाय्यरहिताऽमावास्येत्येवमादिव्यवहारोच्छेदप्रसङ्गः । संघातस्याचोदितत्वात्संघातस्य गुणत्वादित्येवमादिषु स्पष्टमेवंप्रकाराणां समुदायिवचनत्वमभ्युपगतम् । इतरथा हि स एव शब्दाभिहितत्वाच्चोद्येत फलसंबन्धाच्च प्रधानं भवेत् । तस्मादुपसर्जनीभूतसमुदायाः समुदायिन एवाभिधीयन्ते । तेषां तु बहुत्वाद् बहुवचनप्रसङ्गेन लक्षणयैकवचनयोग इत्यभिप्रेत्य समुदायशब्दतयाऽवकल्पिष्यत इत्याह । तथा च भवति हि बहूनामेकवचनान्तः समुदायापेक्ष इति—अपेक्षामात्रमेव समुदायस्य ब्रवीति नाभिधेयत्वम् । यूथवनशब्दावपि यदा समुदायोपसर्जनसमुदायिवचनौ तदा साकल्येन दृष्टान्तौ, यदा तु समुदायमेव ब्रूतस्तदा तन्निमित्तैकवचनलाभमात्रेण दृष्टान्तत्वम् । 481 एतेन दर्शपूर्णमासशब्दावेतत्पर्यायौ व्याख्यातौ । तस्मादस्ति समुदायद्वित्वापेक्षानिमित्तैकत्वद्वयप्रत्ययसिद्धिः समुदायानुवादप्रयोजनम् । यथा वक्ष्यति 255‘पृथक्त्वेनाभिधानयोर्निवेश’ इत्यत्र । तद्द्वित्वानुसारिणौ हि दर्शपूर्णमासशब्दौ तद्विषयौ भवतः । अस्ति च पौर्णमासीपूर्णमासशब्दयोर्बहु सारूप्यं, तत्साहचर्याच्च दर्शशब्दस्यामावास्याविषयत्वं, विपर्ययहेतुत्वेन वा लघीयस्येव प्रतिपत्तिर्यथा काण इति चक्षुष्मान् । तथा च वक्ष्यति शक्यते च चन्द्रमसोऽदर्शनाद्दर्श इति वक्तुम् । तथाऽन्वारम्भणीयावाक्यशेषेऽमावास्यादर्शशब्दौ समानाधिकरणौ दर्शयिष्यति, तेन समुदायद्वयोपलक्षितानां फलवत्त्वादितरेषामङ्गत्वम् । ननु चैवं सत्यनेनैव गतत्वाच्चतुर्थेऽधिकरणं नाऽऽरब्धव्यम् । नैष दोषः । स्थिते ह्येतस्मिन्प्रकृतयजतिमात्रग्रहणात्तत्र पूर्वः पक्षः, सिद्धान्तस्त्वेतदधिकरणप्रसादाद्भविष्यति’ इतरथा तस्य पूर्वपक्ष एव स्यादिति प्रयोजनत्वेनाभिधानम् । इदमपरं समुदायानुवादप्रयोजनं पौर्णमास्यां ‘पौर्णमास्या यजेत’ ‘अमावास्यायाममावास्यया यजेत’ इति कालसंयोगः । तत्रैतत्स्यात् । एतदपि वाक्यमनर्थकमुत्पत्तिवाक्यादेव कालसंयोगसिद्धेरिति । उच्यते ।

अन्यथैव ह्ययं कालः करणांशेन युज्यते ।
अन्यथोत्पत्तिवाक्यस्थो निरपेक्षैः परस्परम् ॥

उत्पत्तिवाक्ये ह्यन्योंन्यनिरपेक्षाणामाग्नेयादीनां निरङ्गानां च कालसंयोगस्तद्रूपत्वेनोपादानात् । अयं पुनस्तृतीयासंयोगात्करणभूतानाम् । तेषां च करणत्वं प्रयोगवाक्यादितरतेरयुक्तानामङ्गसहितानां चावगतमिति तादृशानां तदनुपादेयं, कालं प्रत्युपादीयमानत्वात् । समस्तरूपविवक्षावशेन साङ्गस्त्रिकः परस्परसहितश्चैकपौर्णमास्या युक्त एकया चामावास्ययेति । यस्मिन् क्षण एको याग आरभ्य क्रियमाणः समाप्तिमनुभवति तस्मिन्नेवेतरावित्यवधारणात्रिकस्य त्रिकस्य तन्त्रेण प्रयोगः सिद्धो भवति । औत्पत्तिककालानुरोधे तु भेदेनाङ्गवियुक्तानां च प्रयोगः स्यादित्यस्ति विशेषः । ननु चैवं सति समुदायद्वयस्येतरेतरयुक्तस्य करणत्वान्ना256ङ्गसाहित्यवन्न परस्परतद्विवक्षाऽपीति यथैवाङ्गानां तत्कालविज्ञानमेवं पौर्णमास्याऽमावास्याऽऽक्षिप्ता, अमावास्यया च पौर्णमासीत्युभयोरुभयत्र प्रसङ्गः, न वोत्पत्तिवाक्यशिष्टकालविरोधस्तत्राप्यनुष्ठानात् । न हि यः पौर्णमास्याममावास्यां करोति तेनामावास्यायाममावास्या न कृता भवति, तथा पौर्णमासी । न चोत्पत्तिवाक्येन कालान्तरं निषिद्धं, स्वकालप्रतिपादनमात्रोपक्षयात् । अत्रोच्यते—

482
कालो यस्य न विज्ञातः स्वरूपं च न नश्यति ।
तस्य कालः परोपाधिरुच्यमानो न दुष्यति ॥

अमावास्य ह्युत्पत्तिकालनिराकाङ्क्षा पौर्णमासीसाहित्यलभ्यं पौर्णमासीकालं न प्रतीच्छत्येवं पौर्णमास्यमावास्याकालमित्येतयोः समुदाययोः कालान्तरकरणे सत्यौत्पत्तिकरूपविसंवादाददर्शत्वमपूर्णमासत्वं च स्यात् । अङ्गानां त्वनिर्ज्ञातकालत्वेन साकाङ्क्षत्वादुत्पत्तिविसंवादाभावाच्चाविरुद्धः साहित्यापेक्षलभ्यः कालः । आह—

अङ्गानां मुख्यकालत्वाद्वाक्यादस्माद्विनाऽप्ययम् ।
कालोऽस्त्येवेति नैतस्य वचसोऽत्र निमित्तता ॥

उच्यते—

मुख्यकालत्वमङ्गानां न स्थितं मान्त्रवर्णिकम् ।
इदमेव हि तद्वाक्यं यद्बलेनैतदुच्यते ॥

ननु दूरस्थान्युपकर्तुं न शक्नुवन्ति । संनिकृष्टस्थैरुपकर्तव्यमित्येतद्वा कुतः । सर्वत्र वचनानुसारेणोपकारानुपकारांशौ विज्ञायेते । तत्र संनिकर्षवचनाभावे विप्रकृष्टं नोपकरोतीति न किंचित्प्रमाणम् । ननु चान्येनैव वाक्येनैष तन्त्रप्रयोगः सिध्यति, ‘य इष्ट्या पशुना सोमेन’ इत्यादीनां तत्रापि करणविभक्तिनिर्देशादिष्टेः स्वसमुदायिस्वाङ्गसहितायाः कालं प्रत्युपादानादीदृशी विवक्षा लभ्यते । सत्यं लभ्यते नत्विष्टः प्रयोगः सिध्यति । तथा हि—

इष्टिशब्दः समस्तं वा प्रत्येकं वाऽवलम्बते ।
न तावत्त्रिकमित्येकमन्यादृक् चेष्टितं भवेत् ॥

न तावत्त्रिकस्येष्टिशब्देन ग्रहणमित्यवधार्यते । तत्र प्रत्येकं यागत्वेनेष्टिशब्दप्रवृत्तेरेकैकस्याममावास्यायां पौर्णमास्यां वा प्रयोग इति न सम्यक्प्रयोगसिद्धिः । अथ समस्तानामाग्नेयादीनां कथंचिद्रूढेः ‘प्रवृत्तत्वादिष्टेः सोमे प्रवृत्तिः’257 इतिवद् ग्रहणम् । एवमपि प्रयोगवचनैकत्वात्समुदायद्वयस्यापि पौर्णमास्याममावास्यायां वाऽनुष्ठानं स्यात् । तत्र स एवोत्पत्तिशिष्टकालविरोधः । तदनुरोधेन व्यवस्थितविकल्पाश्रयणमिति चेत् । एवमपि यथोत्पत्त्यनुरोधात्प्रत्येकानुष्ठानप्रसङ्गः । तथाऽङ्गानां भेदेन पौर्णमास्यमावास्ये प्रत्युपादानाभावाद्यत्र क्व चनैकत्र प्रदेशेऽनुष्ठानं स्यात् । तस्मान्नैतद्वाक्यं ताभ्यां तुल्यार्थमिति प्रकृतावकिंचित्करत्वाद्विकृतीरेव सद्यस्कालतायै गच्छति । नन्वनेन तन्त्रप्रयोगः सिध्येत् "समे दर्शपूर्णमासाभ्यां यजेत" इति देशस्यानुपादेयत्वात्साहित्यविवक्षोपपत्तेः । तत्रोच्यते ।

483
समस्य केवला चैव तन्त्रता प्रतिपाद्यते ।
तेन सर्बैरसावेको ग्राह्यो न बहवः समाः ॥

भेदेनापि हि प्रयुज्यमानानामनन्यदेशगमनमात्रेण देशतन्त्रत्वसिद्धिः । अथेतरेतरयोगवशाद्यदैवैकः समेन यागो युज्यते तदैवेतरोऽपीति तन्त्रत्वमुच्यते । तथा सति षण्णामपि युगपदुपादानात्तथैव प्रयोगप्रसक्तेः स एव विरोधः । यदि पुनरुत्पत्तिवाक्यानुरोधेन प्रवर्तते ततः प्रत्येकं कालसंयुक्तानां समं प्रति साहित्यं संपादनीयमिति षट्स्वेव पौर्णमास्यमावास्यासु प्रयोगः समाप्येत । अङ्गानि च तावतः कालादनुत्कृष्यमाणानि प्रयोक्तव्यानीति यत्र क्व चनान्तराले क्रियेरन् । अथ वा प्रतिप्रधानावृत्तेर्न्याय्यत्वादेकैकं प्रधानं साङ्गमपवृज्येत । अथ तु यावतोत्पत्तिकालो विरुध्यते तावन्मात्रं परिहाय यौगपद्येन समसंबन्धः कर्तव्य इत्यवधार्येत तत एकस्यामेव पौर्णमास्याममावास्यायां वा त्रिकयोः प्रयुज्यमानयोर्यस्य कस्यचित्समीपेऽङ्गानि प्रयुज्येरन् । अथ वा तदर्धमासान्तराले यत्र क्वचनाहनि । सर्वो ह्यसौ प्रधानकालः, प्रधानकालाबहिर्भावश्च संभावयितव्यो नात्यन्तसामीप्यमशक्यत्वात्तस्मान्नैतेनाप्यभिप्रेतप्रयोगसिद्धिः । अनेनैव फलवाक्यमपि प्रत्युक्तं, फलस्यापि देशवदेवानुपादेयत्वात्सर्वानितरेतरयुक्तान्साङ्गान्प्रति तन्त्रत्वे सिद्धे न प्रयोगतन्त्रत्वसिद्धिः । विप्रकृष्टकालैरेव ह्येकं फलं साध्यते । अथोच्येत फलं भवद्भावयेदेतैरित्थमिति साङ्गानि प्रधानानि युगपत्फलभवनकालेऽनुष्ठातव्यानि श्रूयन्ते । ततश्च न विप्रकृष्टानीति । तत्रापि समुदायद्वयस्य युगपत्प्रयोगापत्तिर्दोषः । उत्पत्तिवाक्यानुरोधेन वा पूर्ववदेव प्रत्येकं प्रयोगादियोजना । न च फलभवनकालोऽस्मत्प्रत्यक्षः, सोऽपि हि प्रधानेतिकर्तव्यताकालेनैव परिच्छिद्यते । ततश्चोत्पत्तिकालालोचनेन यावन्तं प्रयोगकालमङ्गप्रधानानि व्याप्नुवन्ति तावानेव फलभवनकालस्तादृगेव तद्विषयं यौगपद्यमिति सर्वथा षट्सु पौर्णमास्यमावास्यासु द्वयोर्वा साङ्गानां चापवर्गः । एकसमुदायसमीपे वाऽङ्गप्रयोगोऽर्धमासान्तराले वा यत्र क्वचिदिति प्रसङ्गान्नैतद्वाक्यलभ्यस्त्रिकस्य त्रिकस्य साङ्गस्य स्वकाले प्रयोगो वाक्यान्तरात्सिध्यतीति । तस्मादर्थवान् “पौर्णमास्यां पौर्णमास्या यजेत” इति कालविधिः । नन्वेवं सत्युत्पत्तौ कालयोगोऽनर्थकः । कथमनर्थकः । पश्य—

यद्युत्पत्तौ न विद्येत यागानां कालसंगतिः ।
समुदायानुवादत्वं निर्निमित्तं न लभ्यते ॥

पौर्णमास्यमावास्याशब्दौ स्वाभिधेयकालयुक्तयागानुवादाविष्येते । तदभावे तु 484 नैव ज्ञायेत का पौर्णमासी काऽमावास्येति । तदज्ञानादलब्धार्थदर्शपूर्णमासपदाविशेषितप्रकृतयागमात्रग्रहणात् सर्वाणि समप्रधानानीत्येतदेव स्यात् । तस्मादवश्यं भवितव्यं प्रथमं कालसंयोगेन । अत एव वोपांशुयाजस्यानुत्पत्तिवाक्यमपि सत्पौर्णमासीसंयुक्तमुदाहृतम् ॥ ३ ॥

  1. (अ॰ २ पा॰ १ अ॰ १) इत्यत्र भावनाभेदानुनिष्पाद्यपूर्वभेदाभेदसिध्यर्थं द्रव्यं प्रति प्रधानान्यप्रधानानीति विचार्यत इत्येवं व्याख्यातत्वादित्यर्थः ।

  2. (अ॰ ४ पा॰ ४ अ॰ ११ सू॰ २९)
  3. चिन्ताद्वयमेकस्मिन्नधिकरणे न वक्तुमुचितमित्याशयः ।

  4. तै. ब्रा. (३-३-५)
  5. तै. सं. (२-५-२)
  6. समुदायशक्त्या—रूढ्येत्यर्थः ।

  7. वार्त्रघ्नी पौर्णमास्यामनूच्येते, वृधन्वती अमावास्यायामित्यनयोर्वाक्ययोरित्यर्थः ।

  8. (अ. २ पा. २ अ. २ सू. २)
  9. ( अ॰ ४ पा॰ ४ अ॰ ११ सू॰ ३४ )
  10. नञ् द्वयं समुदायद्वयसाहित्यविवक्षादार्ढ्यद्योतकं विज्ञेयम् ।

  11. ( अ॰ ८ पा॰ १ अ॰ २ सू॰ ३ )