यदि चैते कर्मान्तरे स्यातां तत आधारादीनि समप्रधानानि स्युः । ततश्च 258“कर्मणस्त्वप्रवृत्तित्वात्फलनियमकर्तृसमुदायस्यानन्वयस्तद्बन्धनत्वात्” इत्यनेन न्यायेनाऽऽग्नेयादिवत्प्रयाजादीनां करणांशोपनिपाताद्विहितकरणया विकृतिभावनया कथंभावाकाङ्क्षिण्या तत्पूरणासमर्थानामग्रहणात्प्राप्तप्रयाजानुवादेन कृष्णलविधानं नोपपद्येत । तस्मादाग्नेयगुणत्वं प्रयाजादेः कथं स्यादिति समुदायानुवादौ ॥ ४ ॥

  1. ( अ॰ ८ पा॰ १ सू॰ २॰ )