466 कदाचित्प्रत्यथार्थः शुद्धो लभ्यते । यथोक्तं प्रातिपदिकादुच्चरन्ती द्वितीयादिविभक्तिः प्रातिपदिकार्थो विशेषक इत्याहेति237 । प्रयोगवाक्यशेषभावेन हि समुदायस्य सत्तासंबन्ध इति । एकापूर्वकल्पनया हि समुदायानुरक्तभावनाकल्पनमाश्रितं फलसंबन्धनिमित्ता वाऽपूर्वकल्पना । प्रयोगवाक्यशेषभावेन वोत्पत्तिवाक्यानां फलसंबन्धो भवति न स्वरूपैः । अवधृतस्वरूपाणि च कर्माणि प्रयोगवाक्येन गृह्यन्त इत्यवगते भेदे न शक्यान्येकीकर्तुम् । न च ददातिजुहोत्योः प्रयोगवाक्यशेषभावं पश्यामः, यजेत स्वर्गकाम इति केवलयागश्रवणात् । न च तेन दानहोमौ लभ्येते । स्वार्थत्यागप्रगङ्गादुभयाश्रयणे वा युगपछ्रुतिलक्षणापत्तिर्दोषः । तस्मान्न समुदायकल्पनाऽस्ति । अतश्च धात्वन्यत्वेन पदान्तरत्वात्केवलविशिष्टता गम्यते । न च ज्ञानान्तरेण निवर्तते । न च धात्वर्थैकत्वम् । आसेचनपरस्वत्वापादनाभ्यधिकत्वात् । न च त्यागमात्रलक्षणा, स्वार्थवृत्तित्वेनापि वाक्यसमवायोपपत्तेः । न च दाक्षिणानि नाम गुणः कश्चित्प्रसिद्ध इति सामानाधिकरण्यान्ना

  1. ( अ॰ १ पा॰ १ अ॰ ७ ) । इत्यत्र भाष्यकार इत्यर्थः ।