अभ्यासाधिकरणम्

शब्दान्तराधिकरणप्रत्युदाहरणरूपेणाभ्यासस्य पूर्वपक्षः सुखमभिधीयत इति तदनन्तरमारम्भः । तत्र समिधो यजति तनूनपातं यजति इत्यादिषु समिदादिशब्दानपोद्धृत्य यजतीत्येतत्पञ्जकृत्वोऽभिहितं किमेकस्य कर्मणो वाचकमथानेकस्येत्युदाहृतं तदाक्षिप्यते ।

गुणो वा नामधेयं वा समिदादिपदं भवेत् ।
ताभ्यामेव च भेदोऽत्र किमभ्यासः करिष्यति ॥

षडपि भेदहेतवः पृथग्भूताः स्वसामर्थ्यमात्रव्यापारफला दर्शयितव्याः । तद्यावदत्र गुणनामधेययोर्भेदकरत्वं नापनीयते न तावदभ्यासस्य परभागलाभोऽस्तीत्यन्यदुदाहर्तव्यम् । न च तत्संभवति । कुतः ।

प्रयुज्यते हि वेदेषु नाऽऽख्यातं केवलं क्वचित् ।
नाम किंचित्प्रयुक्तं चेत्तस्य चोक्तं गतिद्वयम् ॥

‘ऐन्द्रवायवं गृह्णाति’ इत्येवमादीनि हि सर्वाणि परस्परासंगत्यौत्पत्तिकगुणयोगाद्भिद्यन्ते । ‘भिन्ने जुहोति’ ‘स्कन्ने जुहोति’ इत्यादीन्यपि ‘फलं चाकर्मसंनिधौ’238 इत्यनेन न्यायेन निमित्तं प्रत्युपादीयमानत्वाद्भिद्यन्ते । निमित्तसंबन्धपरत्वाच्च नाभ्यासानर्थक्यमित्यभेदकत्वम् । ये तु पञ्चशारदीयेषु239 “तान्पर्यग्निकृतांस्तान्पर्यग्निकृतान्” इत्येवमभ्यासमुदाहरन्ति तेषां प्राकृतपर्यग्निकरणानुवादप्रस्मरणसामर्थ्यं तत् । न वाऽत्र यजतिः श्रूयते यस्याभ्यासाद्भेदः स्यादिति न किं चिदुदाहरणम् । यथोदाहृतेष्वेव तु समाधिः ।

प्रायेणाऽऽख्यातसंबन्धि नामेष्टं पारतन्त्र्यभाक् ।
तस्यैव प्रथमं तेन भेदाभेदनिमित्तता ॥

यान्युपादेयार्थानि नामपदानि तानि तावदाख्यातपरतन्त्रत्वात्तदनुसारीणि सन्ति तद्वृत्तिं प्रतीक्षन्ते, तच्चेत्प्रकृते निविष्टं नामपदमपि तस्यैव गुणविधिर्नामधेयं वा । अथ तेनापूर्वं परिकल्पितमतस्तद्गामि नामपदमित्येवं भेदाभेदयोरवगतयोः पश्चादागच्छत्स468 मिदादिपदमकिंचित्करत्वादुदास्ते । तेन तदपोद्धृत्याऽऽख्यातमात्रं विचार्यते । नन्वेवं सति संज्ञागुणयोरभेदकत्वप्रसङ्गः । तत्र तौ भेदकौ यत्राऽऽख्यातपदं न व्याप्रियते तथा चोदाहरिष्यति “अथैष ज्योतिः” “वाजिभ्यो वाजिनम्” इति । वाजिने तावन्नैवाऽऽख्यातपदं श्रूयते, ज्योतिरादावप्याख्यातस्य गुणफलसंबन्धव्यापारेण प्रकृतनिवेशसंभवे सति ततः पूर्वप्रवृत्तया संज्ञयैव भेदो भविष्यति । यत्राप्याख्यातस्य स्वरसेन प्रकृतकर्मनिवेशोपप्लवे सति तत्रासंभवन् गुणो विधीयते तत्राप्यसौ भेदको यथाऽत्रैवाभ्युपेत्यवादे वक्ष्यति स एष देवतायागसंबन्धो विधीयमान इत्यादि । तच्चाऽऽख्यातस्य भेदशक्तौ विहतायां भवतीति तदेव तावत्प्रथमं परीक्ष्यते । किमेकमपूर्वमिति—फलतः कर्मभेदाभेदोपन्यासो, यद्वा किमेकं कर्मापूर्वं चोदयत्युत पञ्चापि कर्माण्यपूर्वाणीति । किं प्राप्तम् । एकमपूर्वमिति । कुतः ।

प्रत्ययार्थः समानोऽपि धातुभेदेन भिद्यते ।
धातोरपि समानत्वे केन भेदोऽवधार्यते ॥

अपि च ।

पूर्वं तेनैव शब्देन बुद्धौ कर्म निवेशितम् ।
न भेदं प्रत्यभिज्ञानात्पुनः श्रुत्या प्रपद्यते ॥

यथैव यजतिशब्दः सकृत्प्रत्यक्षेणावगतः पुनरुच्चारणे स एवेति प्रत्यनिज्ञानान्न भिद्यते । तथा तदर्थोऽपि, यथा चात्रैव बुद्धबोधनकृत्प्रत्यक्षमनर्थकमपि भवन्न शक्नोति शब्दान्तरत्वं कर्तुमेवं पुनः श्रुतिरर्थान्तरत्वम् । न ह्यानर्थक्यं नाम क्वचित्प्रमाणवर्गेऽन्तर्भवति । यच्च वेदोऽवबोधयति तन्मात्रमेव तत्प्रमाणवादिभिरभ्युपगन्तव्यम् । तदिहैकशब्देनाभेदे वेदेनावगमिते योऽन्यत्वं कल्पयति तेन वेद एवाप्रमाणीकृतः स्यात् । न च प्रमाणावगतमानर्थक्यं दोषाय । अस्ति वेयमपि गतिः । प्रयोगवचनसंस्पृष्टः शब्दोऽर्थमवदधत्स्वयं प्रयोगित्वेन240 गृह्यत इति । अथ वाऽऽभीक्ष्ण्यादि241द्योतनार्थोऽभ्यासो भविष्यति । अस्ति हि लोके द्विर्वचनादतिरेकेणापि यावत्कृत्वोऽम्यस्ते विवक्षितार्थप्र469 काशनं भवति तावत्कृत्वोऽभ्यासः । तथा च पञ्चेन्द्रो242पाख्याने वृद्धकुमारीवरप्रार्थने पतिं मे देहीति पञ्चकृत्वोऽभ्यासः श्रूयते । न च यथा देवतायाश्छलप्रा243हित्वमेवमिह कस्यचित् । येन पतिपञ्चकवत्पञ्चयागकल्पना स्यात् । अथ वा सर्वेष्वप्युच्चारणेषु विधावाश्रीयमाणे कर्मैकत्वं विज्ञायते । यथा शाखान्तरीयेषु ज्योतिष्टोमादिवाक्येषु । तेन तुल्यार्थानां वैकल्पिकत्वात्तदेव कर्म कदाचित्समिद्वाक्येनाभिधास्यते कदाचित्तनूनपाद्वाक्येन । न हि समानकार्यत्वेन व्रीहियवयोरेकस्याऽऽनर्थक्यादर्थान्तरसाधकत्वं विज्ञायते । अथ वा तनूनपादादिदेवताविधानार्थत्वान्नाऽऽनर्थक्यम् । कर्मविधाने हि सति नामधेयत्वं भवेदनुवादे तु नामधेयविधिर्न संभवतीति गुणविधित्वम् । तस्मादप्यकर्मान्तरम् । यत्रापि च प्रदेशान्तरे तावेव शब्दार्थौ प्रत्यभिज्ञायेते तत्रापि हि गृहान्निर्गतस्य पुनर्गृहजनप्रत्यभिज्ञायामिवार्थान्तरत्वमशक्यं वक्तुम् । किमुतेहानन्तरविपरिवृत्त्या बलीयस्याऽवरुद्धायां बुद्धौ । यदि च प्रत्युच्चारणमर्थान्यत्वं भवेत्तदाऽनित्यव्यक्तिशब्दार्थत्वप्रसङ्गः । किं च ।

गत्वादिवन्न चैतेषु यागत्वं व्यतिरिच्यते ।
व्यक्त्यैकत्वे निरूढे च कथं कर्मान्तरं भवेत् ॥

यद्यपि च पुनःश्रुत्यर्थवत्त्वाय पञ्चकृत्वो यागोऽभ्यस्येत तथाऽपि ज्योतिष्टोमवदेवाकर्मान्तरत्वं स्यात् । न चात्राभ्यासहेतुरस्ति । वाक्यसंयोगेन देवतानां वैकल्पिकत्वात् । तस्मादेको याग इति । एवं प्राप्ते ब्रूमः । एकस्यापि पुनः श्रुतिरेवं स्याद्यथा शब्दान्तरं भेदकं तथेत्यर्थः । कथम् ।

आख्यातप्रत्ययः पूर्वं विधत्ते कर्मशक्तितः ।
अन्येनाऽऽक्षिप्तशक्तिस्तु तदाकाङ्क्षत्यनूदितम् ॥

470 यदि हि विपरिवृत्तिरनुवादकारणं स्यात्ततो न कर्मान्तरमध्यवसीयेत । न तु विपरिवृत्तिकृतमनुवादकत्वं, किं तर्हि ।

अनुवादविशेषत्वं प्रकृतप्रत्ययाद्भवेत् ।
तत्सामान्यप्रसिद्धिस्तु स्ववाक्यादेव लभ्यते ॥

यदा हि विधायकस्य विधिशक्तिर्धात्वर्थादुत्तार्यते तदाऽनेकविध्यशक्तेर्धात्वर्थानुवादः प्रार्थ्यते । तां च प्रार्थनां विपरिवृत्तिः पूरयति । धात्वर्थोत्तारणं च विधिशक्तेर्विधेयान्तरोपादाननिमित्तं यथा “व्रीहिभिर्यजेत,” “दध्ना जुहोति” इति । सर्वत्रैवानेकार्थोपादाने विधिशक्त्यनेकत्वासंभवादेकं किंचिदनूद्यतामित्यपेक्षायां सत्यां यद्विपरिवर्तते तदित्यवधारणं भवति । ततश्च दध्यादेरप्राप्तत्वाद्धात्वर्थोऽनूद्यते । यदा तु खलु नैवानेकं विधेयमुपादीयते तदा नैव तस्मिन्वाक्येऽनूद्यतां किंचिदित्यपेक्ष्यते । ततश्चाप्राप्ते सामान्यानुवादे तत्सिद्ध्यपेक्षिणी विशेषानुवादकारणभूता किं विपरिवृत्तिः करिष्यति । तस्मान्न यत्प्राप्तं तदनूद्यत इति लक्षणम् । किं तर्हि, यदनूद्यतामित्यपोक्षितम्, तत्प्राप्तौ सत्यामनूद्यते । नैकाङ्गविकलमनुवादत्वापेक्षणेन प्राप्तिबुद्धिमात्रेण वा । तत्र यथैवानुवादापेक्षणे सत्यपि प्राप्त्यभावाद्विशिष्टविधानरूपेण विधिर्भवत्येवं प्राप्तिबुद्धौ सत्यामप्यनुवादत्वानपेक्षणाद्विधेः कर्मान्तरत्वं सत्यपि धातुप्रत्ययैकत्वप्रत्यभिज्ञाने । यत्तु बलीयस्या विपरिवृत्त्या शतकृत्वोऽप्युक्ते तद्बुद्धिर्न्नापैतीति, प्रमाणबलाबलज्ञानात्सर्वं संभाव्यमेव तत् । तथा हि ।

श्रुतेः कर्मान्तरज्ञानं संनिधेरेककर्मधीः ।
तत्र श्रुतिबलीयस्त्वं जानतां कथमेकता ॥

विधायिका हि श्रुतिरन्यानाक्षिप्ता धात्वर्थभावनयोरेव संनिरुद्धा तत्रैवाप्राप्तविषयस्वभावं विधित्वं प्रसुवाना पञ्चमस्थानाख्यप्रमाणकृतां प्राप्तबुद्धिमुपमृद्य विधेयत्वक्षमं कर्मान्तरं कल्पयति । स चेद्विधिः श्रुतिमनुरुध्येत कर्मान्तरमध्यवस्यति, अथ संनिधिं ततो न कर्मान्तरत्वम् । यत्र पुनर्विधिश्रुतिरन्यत्र व्याप्रियते तत्राविरोधात्संनिधिकृतं कर्मैकत्वज्ञानं भवति । तस्मादिह विधेययागव्यक्तिफलत्वोपात्तसामान्यैकत्वनिमित्तैव प्रत्यभिज्ञानभ्रान्तिः । न हि व्यक्तिप्रत्यभिज्ञाने किंचित्कारणमस्ति । यदत्र परमार्थेन प्रत्यभिज्ञायते तदेकत्वे न कश्चिद्विवादः । तथा हि ।

स्थिते यागत्वसामान्ये पशुसोमेष्टिकर्मणाम् ।
विशेषव्यक्तिरूपेण भेदः सर्वत्र चिन्त्यते ॥

ननु चात्र यजिश्रुत्यैवैककर्मविज्ञानान्न वक्तव्यं संनिधिकृतमेवैकत्वमिति । नैतदेवम् ।

471
यागोऽयमिति विज्ञानं यजिश्रुत्योपजन्यते ।
स एवेत्यन्य एवेति व्यापारोऽस्या न विद्यते ॥

न हि यः पूर्वविहितो यागः स एवायमिति यजतिशब्दो वदति । औदासीन्येनैव त्वभिदधाने शब्दे संनिधिकृतामभेदबुद्धिमनभिजानतां श्रुतिनिमित्ता प्रत्यभिज्ञानभ्रान्तिः । ननु तव व्यक्तेरशब्दार्थत्वादभिन्नं सामान्यं श्रुत्या विज्ञायते । येनैव व्यक्तिरशब्दार्थ स्तेनैवानेककर्मतां श्रुतिर्बोधयतीति । कथम् ।

व्यक्तयो हि विधीयन्ते सामान्येनोपलक्षिताः ।
तस्मात्तद्गतमेवात्र भेदाभेदनिरूपणम् ॥

यत्सामान्यं शब्दार्थभूतं तस्याननुष्ठेयत्वेनाविधेयत्वात्सर्वत्र व्यक्तय एव विधीयन्ते । तत्र समिधो यजतीत्येका व्यक्तिरसाधारणा चोद्यते तनूनपातं यजतीत्यपरा । तस्मात्पञ्च व्यक्तय इति सिद्धम् । यत्त्वत्र गकारादिवद् व्यक्त्याकृतिभेदो नास्तीति । सत्यं नास्ति किं तु ।

यन्मात्रमेकं कर्मेति स्वरूपेणावधार्यते ।
ततः परं न भेदोऽस्ति प्राक्तस्माद्भेदनिश्चयः ॥

यथैव गकारादीनां वर्णत्वशब्दत्वगुणत्वेषु सत्सु द्रुतादिभेदस्य परोपाधित्वाद्गकारादिरूपैकत्वसिद्धेर्गत्वादिमात्रं न कल्पितम्, तथाऽत्र सत्ताकर्मयागत्वेषु समिद्यागादिपर्यन्तेषु सत्सु देशकालयजमानादिभेदाद्द्रुतादिवृत्तिस्थानीयान्न भेदः । तथा हि ।

पौर्णमासीसमिद्यागादामावास्यो न भिद्यते ।
यजमानान्तरेष्वेवं देशभेदेष्ववस्थितम् ॥

न च यत्र प्रत्यक्षेण केवलेन भेदोऽवगम्यते तदेवैकं भिद्यते । शब्दस्यापि प्रामाण्याविशेषात् । अतोऽत्र शब्दान्तरादिषट्कावधिरेव भेदोऽवधारयितव्यः । न हीष्टिपशुसोमैकाहाहीनसत्रेषु परोपाधिर्भेदप्रत्ययो विपर्येति वा कदाचित् । तेन तासु विधेयरूपासु व्यक्तिष्वेव नित्यास्वभिव्यञ्चकानि भिद्यन्ते । तेभ्यश्च फलस्वरूपसिद्धिर्यागत्वमेव वैकमवान्तरसामान्यं नान्यत्किंचित् । नन्वेकाहत्वादीन्यप्यवान्तरसामान्यानीष्यन्ते । न, कालविशेषयोगादेव दण्ड्यादिवदभिन्नशब्दप्रत्ययप्रवृत्तिसिद्धेः । एकेन ह्यह्ना योगादेकाहत्वम् । द्व्यादिभिरहीनत्वं प्राग्द्वादशाहात्, स तु कथमप्युभयात्मा, तदवधिकमेव चाऽऽसहस्रसंवत्सरं सततकालयोगनिमित्तं सत्रत्वं, हविर्विशेषयोगादिष्ट्यादित्वमिति सिद्धम् । अथाप्यवान्तरसामान्यानि पुनः कल्प्यन्ते, तथाऽप्यस्मत्पक्षाविरोधः । एवं यदि ज्योतिष्टोमत्वादीनि देशकालादिभेदाच्च तद्व्यक्तयोऽत्यन्तातिरेकिण्यो भवन्ति तथाऽप्यदोषः । तथा यद्यपि देवतोद्देशद्रव्यत्यागात्मकत्वात्सर्व एवैको यागः कल्प्यते तेष्वपि 472 भेदप्रमाणैस्तदनुष्ठाननानात्वावगमाद्व्यवहारसिद्धिः । नन्वेवं सति ज्योतिष्टोमग्रहाम्यासवत्समिदादियागाभ्यासेष्वकर्मान्तरत्वप्रसङ्ग । सर्वथा तावदपूर्वभेदाद्धर्मव्यवस्थादीनि सिध्यन्ति, तथाऽपि तु येह कर्मभेदबुद्धिर्ग्रहयागेषु चाभ्यासभेदप्रसिद्धिः, तत्रैतन्निमित्तं, इह सकलयागरूपानुष्ठानभेदचोदनात्तत्र पुनः समस्ताभ्यासात्मकस्य ज्योतिष्टोमसंज्ञत्वाद्यद्यपि प्रत्यभ्यासं यागत्वमस्ति न तु ज्योतिष्टोमत्वमित्यभ्यासेऽवयवबुद्धिर्नेतरत्रावयव्यन्तररूपानुपादानादिति विशेषः । एतज्ज्ञानस्य च प्रयोजनं पशुसोमाधिकरणे244 वक्ष्यामः । तस्मादभ्यसितव्यो याग इति च भाष्यमेतत्पक्षाश्रयणेनैव । अथवा भिन्नास्वेव व्यक्तिषु सामान्यापेक्षमभ्यासवचनम् । ननूक्तं न शक्नोत्यर्थान्तरं विधातुमिति—विधिशक्तेस्तनूनपादादिदेवताविधानाक्षेपे सति विपरिवृत्तेरविरोध इति मन्यते । तत्र ‘तत्प्रख्यं चान्यशास्त्रम्’245 इत्येवं समिदादिपदानां क्रमविनियुक्तैवंलिङ्गमन्त्रवर्णकल्पितदेवतासंबन्धद्वारेण नामधेयत्वे सत्यविधेयत्वान्नास्ति विधिशक्त्याक्षेप इति वक्तव्ये देवतायागसंबन्धविधानोपन्यासोऽभ्युपेत्यवादेन । यत्तावद्भवानप्राप्तत्वात्प्रथमस्य यागविधित्वं मन्यते तदयुक्तं तस्यापि प्रधानयागानुवादत्वात् । तत्र समिदादिशब्दैर्द्रव्यं देवता वा विधीयते । उभयमपि चाऽऽग्नेयोऽष्टाकपाल इत्यादिभिरुत्पत्तिवाक्यैर्विहितेन द्रव्यदेवतेन विरुध्यते । अवश्यं चैतद्वाक्यकृतो देवतायागसंबन्धः कर्त्तव्यः, स च यागान्तरादृते न संभवतीति प्रतिपादिते गुणविधित्वे कर्मान्तरत्वमापद्यते । एवं पूर्वत्र कर्मण्युत्तरोत्तरगुणविध्यसंभवात्सर्वेषां कर्मान्तरत्वमिति व्यर्थो गुणविध्युपन्यासश्रमः । गुणविधित्वमपि न तावद् द्रव्यमीदृशेन शब्देन संभवतीति व्याख्यातं सक्त्वधिकरणे246 । विशेषेण च यजतेः कर्मभूतद्रव्यसंबन्धो न घटते, न वाऽयं देवताविधिरिति नवमे वक्ष्यते । तस्मात्कर्मविधिभिरेव भेदसिद्धिः ॥ २ ॥

  1. ( अ॰ २ पा॰ ३ अ॰ १२ सू॰ २५ )
  2. अहीनात्मकः पञ्चाहः पञ्चशारदीयो नाम ।

  3. मन्त्रवत्कर्मकालप्रयोज्यत्वमेकं प्रयोजनमभ्यासस्येत्यर्थः ।

  4. प्रतिप्रधानप्रयोगमावृत्तिराभीक्ष्ण्यं नाम ।

  5. इन्द्रस्य त्वष्टृपुत्रवधात्तेजो धर्ममाविशद्बलं वायुं रूपमश्विनौ देहार्धमात्मन्यतिष्ठत्ततः पाण्डुपत्न्यां कुन्त्यां धर्मेण निक्षिप्तं तेजो युधिष्ठिरोऽभवद्वायुनिक्षिप्तं बलं भीम इन्द्रनिक्षिप्तं देहार्धमर्जुनोऽश्विभ्यां माद्र्यां निक्षिप्तं रूपं नकुलसहदेवाविति पञ्चापीन्द्रावयवप्रकृतित्वादिन्द्रा एवेति पच्चेन्द्रोपाख्यानं द्रष्टव्यम् ।

  6. छलमिति—अर्थान्तरविवक्षया प्रयुक्तस्य शब्दस्यार्थान्तरपरिकल्पनया प्रत्यवस्थानमित्यर्थः ।

  7. (अ॰ २ पा॰ २ अ॰ ६)
  8. (अ॰ १ पा॰ ४ अ॰ ३ सू॰ ४ )
  9. ( अ॰ २ पा॰ १ अ॰ ४ सू॰ १२)