472 भेदप्रमाणैस्तदनुष्ठाननानात्वावगमाद्व्यवहारसिद्धिः । नन्वेवं सति ज्योतिष्टोमग्रहाम्यासवत्समिदादियागाभ्यासेष्वकर्मान्तरत्वप्रसङ्ग । सर्वथा तावदपूर्वभेदाद्धर्मव्यवस्थादीनि सिध्यन्ति, तथाऽपि तु येह कर्मभेदबुद्धिर्ग्रहयागेषु चाभ्यासभेदप्रसिद्धिः, तत्रैतन्निमित्तं, इह सकलयागरूपानुष्ठानभेदचोदनात्तत्र पुनः समस्ताभ्यासात्मकस्य ज्योतिष्टोमसंज्ञत्वाद्यद्यपि प्रत्यभ्यासं यागत्वमस्ति न तु ज्योतिष्टोमत्वमित्यभ्यासेऽवयवबुद्धिर्नेतरत्रावयव्यन्तररूपानुपादानादिति विशेषः । एतज्ज्ञानस्य च प्रयोजनं पशुसोमाधिकरणे244 वक्ष्यामः । तस्मादभ्यसितव्यो याग इति च भाष्यमेतत्पक्षाश्रयणेनैव । अथवा भिन्नास्वेव व्यक्तिषु सामान्यापेक्षमभ्यासवचनम् । ननूक्तं न शक्नोत्यर्थान्तरं विधातुमिति—विधिशक्तेस्तनूनपादादिदेवताविधानाक्षेपे सति विपरिवृत्तेरविरोध इति मन्यते । तत्र ‘तत्प्रख्यं चान्यशास्त्रम्’245 इत्येवं समिदादिपदानां क्रमविनियुक्तैवंलिङ्गमन्त्रवर्णकल्पितदेवतासंबन्धद्वारेण नामधेयत्वे सत्यविधेयत्वान्नास्ति विधिशक्त्याक्षेप इति वक्तव्ये देवतायागसंबन्धविधानोपन्यासोऽभ्युपेत्यवादेन । यत्तावद्भवानप्राप्तत्वात्प्रथमस्य यागविधित्वं मन्यते तदयुक्तं तस्यापि प्रधानयागानुवादत्वात् । तत्र समिदादिशब्दैर्द्रव्यं देवता वा विधीयते । उभयमपि चाऽऽग्नेयोऽष्टाकपाल इत्यादिभिरुत्पत्तिवाक्यैर्विहितेन द्रव्यदेवतेन विरुध्यते । अवश्यं चैतद्वाक्यकृतो देवतायागसंबन्धः कर्त्तव्यः, स च यागान्तरादृते न संभवतीति प्रतिपादिते गुणविधित्वे कर्मान्तरत्वमापद्यते । एवं पूर्वत्र कर्मण्युत्तरोत्तरगुणविध्यसंभवात्सर्वेषां कर्मान्तरत्वमिति व्यर्थो गुणविध्युपन्यासश्रमः । गुणविधित्वमपि न तावद् द्रव्यमीदृशेन शब्देन संभवतीति व्याख्यातं सक्त्वधिकरणे246 । विशेषेण च यजतेः कर्मभूतद्रव्यसंबन्धो न घटते, न वाऽयं देवताविधिरिति नवमे वक्ष्यते । तस्मात्कर्मविधिभिरेव भेदसिद्धिः ॥ २ ॥

इति अभ्यासाधिकरणम् ॥ २ ॥

पौर्णमास्यधिकरणम्

  1. (अ॰ २ पा॰ २ अ॰ ६)
  2. (अ॰ १ पा॰ ४ अ॰ ३ सू॰ ४ )
  3. ( अ॰ २ पा॰ १ अ॰ ४ सू॰ १२)