805
तथर्गादिसमूहानां सामान्यं जातमुच्यते ॥
जातिरेव तु यज्जातं भाष्यकारेण वर्णितम् ।
व्याख्यातृभिश्च तन्नैवमृगादौ जात्यसंभवात् ॥
द्वि777वर्णे च पदे जातिर्गोशब्दत्वं न कल्पितम् ।
वाक्यत्ववत्कथं नु स्युर्ऋग्यजुः सामजातयः ॥

यथैव हि वाक्यत्वं नाम जातिर्भिन्नस्थानकरणप्रपन्नाभिव्यङ्ग्यक्रमवद्वर्णात्मकपदसमूहेऽन्त्यवर्णे वा विलक्षणावयवपदार्थसंबन्धप्रत्ययाकाङ्क्षाव्यवधानाद्भ्रमणत्वादिन्यायेन कल्पयितुं त778द्भूताधिकरणे नाध्यवसितम् । तथैवर्क्त्वयजुष्ट्वसामत्वानि क्रमवद्वर्णस्वराश्रयाणि न शक्यानि कल्पयितुम् ।

किं त्वेकार्थसमूहस्थमृग्यजुः सामसंज्ञितम् ।
जातं समूहसामान्यं न जातिर्नाम काचन ॥
यौगिकानां यथा जातेरन्यत्सामान्यमिष्यते ।
तथा समूहसामान्यं जातं जातिविलक्षणम् ॥

लोकेऽपि चैषैव जातिजातशब्दार्थप्रसिद्धिरित्येवमेव व्याख्येयम् ॥ १ ॥

किमिदं प्रायदर्शनादिति—नेदमन्यैः प्रायदर्शनैस्तुल्यमिति पश्यन्पृच्छति । ‘प्राय779वचनाच्च’ इत्यत्र हि प्रधानप्राये यत्रान्यानि प्रधानानि तत्र वचनादित्युक्तम् । तथा ‘विश780ये प्रायदर्शनात्’ इति संस्कारप्राये यत्रान्ये संस्कारा गोदोहनादयस्तत्रास्य दर्शनमिति । न त्विह यत्रान्ये वेदास्तत्रैषामृगादीनां दर्शनमित्यपि शक्यं वक्तुम् । न ह्येतद्व्यतिरिक्ता वेदाः सन्ति, येषां मध्यपाते संकीर्त्येरन् । अतो नेह प्रायदर्शनमस्तीति । तत्रोत्तरमाह—वेदप्राये वेदोपक्रमे—वेदबुद्धिजनितसंस्कारव्याप्ते

  1. विच्छिन्नयत्नव्यङ्ग्यैश्च नित्यैः सर्वगतैरपि व्यतिरिक्तपदारम्भो वर्णैर्नात्रोपपद्यते ॥ अनारब्धे च गोशब्दे गोशब्दत्वं कथं भवेत् । इत्यादिना श्लोकवार्तिकोक्तगोशब्दत्वन्यायं प्रकृतेऽतिदिशतिद्धिवर्णे चेत्यादिना ।

  2. ( अ॰ १ पा॰ १ अ॰ ७ ) इत्यत्रेति शेषः
  3. ( अ॰ २ पा॰ २ अ॰ ४ सू॰ १२ )
  4. ( अ॰ २ पा॰ ३ अ॰ ६ सू॰ १६ )