804 वदन्ति । किं775 च ।

जातस्य हि व्यवस्थानाच्छक्यं धर्मावधारणम् ।
संकीर्णत्वात्तु वेदानां भवेत्तद्धर्मसंकरः ॥

ऋचो हि ता एव काश्चित्त्रिष्वपि वेदेषु पठ्यन्ते । तथा यजूंषि । तत्र यदि वेदत्वं धर्मसंबन्धहेतुतस्तादृशेषु न ज्ञायते को धर्मः क्रियतामित्यन्याय्यो वा विकल्प आश्रीयते । वेदान्तरव्यपदेशस्य तुल्यबलत्वात् । जातिपक्षे तु नैष दोषः । न ह्येकस्मिन्वर्णसमूहे जातिद्वयं समवेतम् । ज्योतिष्टोमप्रकरणं चैवमनुग्रहीष्यते । अन्यथा वेदस्य समस्तेष्टिपश्वेकाहाहीनसत्रविषयत्वाद्यावद्वेदानुसारी धर्मः प्रकरणमुल्लङ्घ्य सार्वत्रिकः स्यात् । ननु जाताधिकारेऽपि वेदवज्जातस्य प्रकरणान्तरेष्वपि भावात्तुल्यमेतत् । अथ प्रकृतजातातिक्रमकारणाभावादिह व्यवस्था, सा वेदपक्षेऽप्यविशिष्टा । यावन्प्रकरणे वेद इत्यवधारणात् । नैतत्तुल्यम् । कुतः ।

प्रतिसंघातवर्तित्वाज्जातं प्रकरणेऽस्ति नः ।
वेदो महासमूहत्वात्प्रकृतौ न समाप्यते ॥
सर्वर्गादिसमूहेषु जातं व्यासङ्गि चेद्भवेत् ।
प्रकृतौ न समाप्येत ततस्तदपि वेदवत् ॥
मन्त्र776ब्राह्मणतर्काणां समूहे काठकादिके ।
वेदत्वं वर्तते नित्यमनेकक्रतुगामिनि ॥
समूहास्त्वेकवाक्यानां ये पादपदपर्वणाम् ।
ऋग्यजुःसामजातानि प्रत्येकं तेषु सन्ति नः ।
यथा वनादिसंघाताः प्राक्सामान्यसमन्विताः ।
  1. अपि चेत्यादि भाष्यं व्याचष्टे—किं चेत्यादिना ।

  2. मन्त्रब्राह्मणेत्यादिश्लोकद्वयस्यायमर्थः— ‘विधिर्विधेयं तर्कश्च वेदः’ इति कातीयानां विधिशब्दोक्तस्य ब्राह्मणस्य विधेयशब्दोक्तानां मन्त्राणां तर्कपदोक्तस्य ‘यतो वा इमानि भूतानि जायन्ते’ इत्याद्युपनिषद्भागस्य च वेदत्वस्मृतेस्तत्समूहे काठकाद्याख्ये क्रतुविषये वेदत्वं व्यासज्य वतते । पादसमूहे एकवाक्यभूतमृग्जातं, पदसमूहे यजुर्जातमवच्छेदरूपभक्त्यवयवात्मकपर्वसमूहे सामजातं च पर्याप्य वर्तत इति ।