किमिदं प्रायदर्शनादिति—नेदमन्यैः प्रायदर्शनैस्तुल्यमिति पश्यन्पृच्छति । ‘प्राय779वचनाच्च’ इत्यत्र हि प्रधानप्राये यत्रान्यानि प्रधानानि तत्र वचनादित्युक्तम् । तथा ‘विश780ये प्रायदर्शनात्’ इति संस्कारप्राये यत्रान्ये संस्कारा गोदोहनादयस्तत्रास्य दर्शनमिति । न त्विह यत्रान्ये वेदास्तत्रैषामृगादीनां दर्शनमित्यपि शक्यं वक्तुम् । न ह्येतद्व्यतिरिक्ता वेदाः सन्ति, येषां मध्यपाते संकीर्त्येरन् । अतो नेह प्रायदर्शनमस्तीति । तत्रोत्तरमाह—वेदप्राये वेदोपक्रमे—वेदबुद्धिजनितसंस्कारव्याप्ते 806 मनसि, इमे शब्दाः श्रूयन्ते । तद्दर्शयति—प्रजापतिर्वा इदमेकं आसीत् । यत्तु781 विध्युद्देशबलीयस्त्वादर्थवादपदस्थो वेदशब्दोऽवयवविषयो भविष्यतीति । तत्र ब्रूमः ।

विध्यर्थवादसंबद्धमन्यदेव बलाबलम् ।
मुख्यपश्चात्तनत्वेन ज्ञानानामन्यदेव तत् ॥

ये हि विध्युद्देशात्परस्तादर्थवादाः श्रूयन्ते तेषामस्ति दौर्बल्यम् । ये पुरस्ताच्छ्रूयन्ते ते मुख्यत्वाद्बलीयांसो भवन्ति । सर्वस्यैव हि शब्दस्य स्वार्थातिलङ्घने विरोधः कारणम् । स च प्रतियोगिनि दृष्टे विरोधो विज्ञायते । तदिह यदा ‘त्रयो वेदा असृज्यन्त । अग्नेर्ऋग्वेदः’ इत्यादि श्रूयते न तदा जातवचनानामृगादीनामुच्चारणमस्ति । यद्दर्शनेन वेदशब्दोऽवयवलक्षणार्थो भवेत् । अतस्तेन तावच्छ्रुतिवृत्तेनैव व्याप्ता बुद्धिः । अथेदानीमृगादिशब्दाः स्वार्थपराः सन्तो न संबध्यन्त इति बलाल्लक्षणां प्रतिपद्यन्त इति । तेन सत्यपि विध्युद्देशग782तत्वे दौर्बल्यं ‘मुख्यं वा783 पूर्वचोदनाल्लोकवत्’ इत्येवमितरबलीयस्त्वात् । ननु ‘पौर्वाप784र्ये पूर्वदौर्बल्यं प्रकृतिवत्’ इत्यनेनोत्पन्नमप्यर्थवादान्मुख्यवेदज्ञानं बाधित्वा विध्युद्देशज्ञानमेव गृह्येत । नैतदेवम् ।

पौर्वापर्यबलीयस्त्वं तत्र नाम प्रतीयते ।
अन्योन्यनिरपेक्षाणां यत्र जन्म धियां भवेत् ॥

ये हि भिन्नवाक्यगताः परस्परनिरपेक्षा विरोधिनोऽर्थाः श्रूयन्ते तेषां पूर्वस्योत्तरानुपमर्देनैव लब्धात्मकत्वादुत्तरस्य पूर्वोपभर्देन विनाऽऽत्मलाभानुपपत्तेः पौर्वापर्यबलीयस्त्वन्यायो भवति । यत्र त्वेकवाक्यतया परस्परापेक्षाणां श्रवणं न तत्रैतद्भवति । तत्र ह्याकाङ्क्षावशेनैकवाक्यता भवति । पूर्वप्रतीते चोत्तरमात्मानुगुणमधिकं वाऽकाङ्क्षति । अतश्च यदनधिकमननुगुणं वा तदनपेक्षितत्वान्नैव तस्मिन्वाक्येऽस्ति । न चाविद्यमानेन 807 पूर्वबाधः शक्यत इति पूर्वबलीयस्त्वं भवति । तदिह विध्यर्थवादयोः समानविषयत्वाद्यावदेवार्थवादे वेदाः संकीर्त्तितास्तावदेव किमप्येषां विधास्यत इत्येतदवधृतम् । ततश्च किमेषां विधेयमित्येतावन्मात्रमपेक्षते । न तु कस्य किं विधास्यत इति । तेनोत्तरस्मादवयवादपेक्षितमात्रं गृह्यते । विधेयं चापेक्षितं न विधिविषय इत्युच्चैस्त्वादिमात्रं संबध्यते न त्वृगादयः । ततश्चाविवक्षितत्वान्नैवैषां विध्युद्देशेऽस्तित्वमिति नार्थवादं बाधन्ते । अर्थवादस्थ एव तु विध्युद्देशविषयत्वेनापि वेदोऽवधार्यते । तस्माद्वेदलक्षणार्थत्वमृगादीनाम् । वेदश्च व्यापकत्वाद785हेतुलक्षणयुक्तः सन्न शक्नोत्येवावयवं लक्षयितुम् । ऋगादयस्तु नियम्यत्वात्समुदायं लक्षयन्ति । यथा चान्यत्रार्थवादानामनुवादत्वाल्लक्षणावृत्तिरदोषस्तथाऽत्रार्थवादावगतविषये विधावृगादिशब्दानामनुवादकत्वाल्लक्षणायामप्यदोषः । तेनैषा वचनव्यक्तिः, यस्मादेवमेते वेदा जातास्तस्मादेषामुच्चैस्त्वादि कर्तव्यमिति वक्तव्ये तमेवार्थसिद्धमङ्गीकृत्य ऋगादय उच्चार्यन्ते । अन्यथा ह्यसंबद्धमेव स्यात् । विध्यर्थवादयोर्नानाविषयत्वात् । तस्माद्वेदाधिकार इति ॥ २ ॥

  1. ( अ॰ २ पा॰ २ अ॰ ४ सू॰ १२ )
  2. ( अ॰ २ पा॰ ३ अ॰ ६ सू॰ १६ )
  3. ‘कुत एतदिति’ भाष्यमवतारयति—यत्त्वित्यादिना ।

  4. ऋगादिशब्दानामिति शेषः ।

  5. ( अ॰ १२ पा॰ २ अ॰ ८ सू॰ २५ )
  6. ( अ॰ ६ पा॰ ५ अ॰ १९ सू॰ ५४ )
  7. अहेतुलक्षणयुक्तः—व्याप्यत्वरूपहेतुलक्षणशून्य इत्यर्थः ।