807 पूर्वबाधः शक्यत इति पूर्वबलीयस्त्वं भवति । तदिह विध्यर्थवादयोः समानविषयत्वाद्यावदेवार्थवादे वेदाः संकीर्त्तितास्तावदेव किमप्येषां विधास्यत इत्येतदवधृतम् । ततश्च किमेषां विधेयमित्येतावन्मात्रमपेक्षते । न तु कस्य किं विधास्यत इति । तेनोत्तरस्मादवयवादपेक्षितमात्रं गृह्यते । विधेयं चापेक्षितं न विधिविषय इत्युच्चैस्त्वादिमात्रं संबध्यते न त्वृगादयः । ततश्चाविवक्षितत्वान्नैवैषां विध्युद्देशेऽस्तित्वमिति नार्थवादं बाधन्ते । अर्थवादस्थ एव तु विध्युद्देशविषयत्वेनापि वेदोऽवधार्यते । तस्माद्वेदलक्षणार्थत्वमृगादीनाम् । वेदश्च व्यापकत्वाद785हेतुलक्षणयुक्तः सन्न शक्नोत्येवावयवं लक्षयितुम् । ऋगादयस्तु नियम्यत्वात्समुदायं लक्षयन्ति । यथा चान्यत्रार्थवादानामनुवादत्वाल्लक्षणावृत्तिरदोषस्तथाऽत्रार्थवादावगतविषये विधावृगादिशब्दानामनुवादकत्वाल्लक्षणायामप्यदोषः । तेनैषा वचनव्यक्तिः, यस्मादेवमेते वेदा जातास्तस्मादेषामुच्चैस्त्वादि कर्तव्यमिति वक्तव्ये तमेवार्थसिद्धमङ्गीकृत्य ऋगादय उच्चार्यन्ते । अन्यथा ह्यसंबद्धमेव स्यात् । विध्यर्थवादयोर्नानाविषयत्वात् । तस्माद्वेदाधिकार इति ॥ २ ॥

लक्षणाऽपि च या दृष्टपूर्वा तस्यामेव शीघ्रतरबुद्धिर्भवति । ऋगादयश्च वेदे दृष्टपूर्वाः । तद्दर्शयति—ऋग्भिः प्रातरिति । त्रिष्वेव तावत्पादेषु वेदशब्दसाहचर्यादृक्शब्दस्य वेदविषयत्वं ज्ञातम् । चतुर्थे तु वेदैरशून्य इत्यवश्यमृक्शब्दः सब्राह्मणके वेदे प्रयुक्त इति गृह्यते । यस्त्वध्येतृणां वेदशब्दप्रयोगो मन्त्रेषु दृष्ट इति । सत्यमस्ति । अत्रापि लक्षणा तथाऽपि तु ‘शास्त्र786स्था वा तन्निमित्तत्वात्’ इतीतरैव ज्यायसी ॥ ३ ॥

  1. अहेतुलक्षणयुक्तः—व्याप्यत्वरूपहेतुलक्षणशून्य इत्यर्थः ।

  2. ( अ॰ १ पा॰ ३ अ॰ ४ सू॰ ९ )