न वा राजन्या भक्षयेयुः । कुतः ।

शतब्राह्मणसंयुक्तो विधिरत्रावगम्यते ।
अन्यथा तदुपादानं गौणं व्यर्थं च ते भवेत् ॥

तुल्ये न ब्राह्मणशब्देन सर्वचमसेषु ब्राह्मणाः प्रतिपाद्यन्ते । ते न कुतश्चिदपि व्यावर्तयितव्याः । न च गौणत्वकारणं किंचिदस्ति । प्रमाणान्तरेण विस्पष्टराजन्यानुपादानात् । समस्तमेव चैतदनर्थकं पुनःश्रवणं भवेत् । अस्मत्पक्षे पुनः प्रयोगवचनादिभ्यो विधिशक्तिमनुमाय ब्राह्मणशते विहिते ‘दशदशैकैकम्’ इति विभागार्था पुनःश्रुतिः । अथवा ‘समं स्या1209दश्रुतित्वात्’ इति न्यायेन दश दश प्राप्ता मुख्ययैव वृत्त्याऽनुवदिष्यन्ते । ब्राह्मणशतेन च दश दशकैरवस्थितेन दशस्वपि चमसेष्ववरुद्धेषु न कश्चिद्राजन्यानामवकाशो विद्यते । तस्माद्ब्राह्मणा द1210शेति । न त्वियं व्याख्या घटते । यदि हि ‘शतं ब्राह्मणाः’ इत्येष विधिः स्यात्ततोऽतिदेशप्राप्तभक्षानुवादाद्विशिष्टविधानासंभवेनान्यतरत्र विधीयमाने यदि शतं विधीयते ब्राह्मणा इत्यनर्थकं सिद्धान्तहानिश्च । ब्राह्मणविधौ तु शतमित्यनर्थकम् । अथ यच्छतं भक्षयन्तीत्यनूद्य ब्राह्मणा विधीयन्ते, केन शतं प्राप्तमिति वक्तव्यम् । अथ यद्ब्राह्मणा भक्षयन्तीत्यनूद्य शतं विधीयते ततो राजन्यव्यावृत्त्या ब्राह्मणश्रुतेर्विशेषणत्वाद्विशिष्टानुवादाद्वाक्यभेदः । राजन्यचमसे1023 न च किंचित्कृतं स्यात् । तत्रैकैकमित्यस्य राजन्यचमसेऽनुवादासंभवात्तत्रान्ये राजन्या दश विधीयेरन्नितरत्र च ब्राह्मणशतं नवसु चमसेषु न विद्मः केन विभागेन स्यादिति । अथ सोमसंबन्धात्, ब्राह्मणा इति प्राप्तानुवादः कल्प्यते तथाऽपि फलचमसव्यावृत्त्या विशिष्टानुवादो दोषोऽस्त्येव । फलचमसे च पुनरपि न कश्चिद्व्यापार इति पूर्ववदेव प्रसङ्गः । न च सोमशब्दब्राह्मणशब्दयोरर्थान्तरेऽपि फलचमसे राजन्ये वा प्रयोग इति किंचित्प्रमाणम् । अविशेषितभक्षानुवादे पशुपुरोडाशादिभक्षेष्वपि शतप्रसङ्गः । न ह्यसौ प्रधानेन विशेष्यते । ‘सर्वेषां1211 वा शेषत्वस्यातत्प्रयुक्तत्वात्’ इत्येवमङ्गप्रधानार्थत्वप्रतीतेः । सोमशब्दश्चात्यन्तमेवानर्थकः स्यात् । अथ सोमानित्येतावन्मात्रमनूद्य शतं विधीयते ततः क्रयादारभ्य यावान्सोमसंस्कारः स सर्वः शतेन कर्तव्यस्तत्र भक्षयतिरनर्थक एव स्यात् । अथ भक्षयतौ शतब्राह्मणसंबन्धो विधीयते तथा पुरोडाशादिष्वपि प्रसङ्गात् । सोमशब्दानर्थक्यमस्त्येव । सोमे तु ब्राह्मणशतसंबन्धविधानमक्रियाशब्दत्वादेवाशक्यम् । पुनरपि फलचमसे स्तिभीरूपत्वेनासोमे राजन्यप्राप्तिर्नैव वार्यते । तेनैतद्वाक्यमनुपपन्नम् । तथा ‘दशदशैकैकम्’ इत्यस्याप्यनुपहतविधिशक्तेः स्वतन्त्रविधित्वावधारितस्यानुवादत्वं निष्फलमप्रमाणकं च । कथं हि पूर्वेण वर्तमानापदेशः सन्विधिः स्यादयं चानुवादः । न च निमित्तत्वादिभिर्विनाऽनेकाख्यातैकवाक्यत्वं घटते । न च यदिशब्दादिरहितस्य निमित्तत्वादिप्रतीतिरस्ति । न च ‘दश दशैकैकम्’ इत्यत्र काचित्स्तुतिः प्रतीयते । येन तदर्थोऽनुवाद एकवाक्यत्वं चोपपद्येत । तस्मात्पृथग्भूतस्य वाक्यस्य समस्तानुवादत्वमयुक्तमिति किंचिद्विधातव्यम् । तत्र यदि तावच्छतस्यानियमप्रसङ्गे दश दशेति विधीयते, ततश्च एकैकमित्यनुपपन्नं, विधा1212ने वाक्यभेदप्रसक्तेः । वषट्कर्तॄणां चानेकचमसप्राप्तौ सत्यामनुवाद1213त्वासंभवाद्ग्रहेष्वपि पूर्वेण1214 प्राप्तत्वाच्चमसशब्दोऽनर्थकः । विशिंषंश्च वाक्यं भिन्द्यात् । न च दश दशैकैकमित्यनुवादः संभवति । शतस्यापि चमससंस्कारार्थमुपादीयमानस्य प्रतिचमसं सामस्त्येन प्राप्तेः । कर्तृसंस्कारार्थे हि सति दक्षिणावद्विभागप्राप्त्या ‘समं स्यात्’ इति दश दशैकमिति प्राप्नुयात् । तत्र सत्यपि विधौ परिसंख्या1024 स्यात् । अनेकस्मिन्नपि वा दश दश भक्षयितारः प्राप्नुवन्ति । एकस्मिन्नपि वा चमसे दशानां दशानां प्रसङ्गः, शतस्यैव दशदशकैर्गणैः स्थित्वा चमसे भक्षणं स्यात् । तस्माद्वाक्यद्वयमस्मिन् व्याख्यानेऽनुपपन्नमिति, एवं व्याख्येयम् । द्वे अप्येते वाक्ये विधायके, तत्सरूपत्वात् । तत्रापि ‘दश दशैकैकम्’ इत्येतदेव पूर्वपक्षवत्प्रथममाश्रीयते । यथोक्तेन न्यायेन क्रमान्तरस्यानुपपत्तेः । अनुप्रसर्पन्तीत्यनेन तावदतिदेशप्राप्तभक्षोपलक्षणसंबन्धाद्यथा फलचमसभक्षेण यागोपलक्षणमुक्तं, तेन यच्चमसमनुप्रसर्पन्तीति, अन्यतरस्य साकाङ्क्षत्वाद्विशेषणविशेष्यभावमङ्गीकृत्यानुवादो, दश दशेति विधिः । चमसप्राधान्याच्च प्रत्येकं दशत्वभेदाद्वीप्सा भवति । ततः पूर्वं शतमितरेण वाक्येनानूद्य यच्छतं सोमान् भक्षयन्ति तद्ब्राह्मणा इति विधिः । न हि विधिसंभवे समस्तवाक्यानुवादत्वं युक्तम् । ब्राह्मणशब्दस्य च गौणत्वम् । शतमात्रसंबन्धेन च कृतार्थत्वादतन्त्रमेव सोमशब्दो भक्षयतिश्चेति न विशिष्टानुवाददोषः । नापि सोमशब्दाद्यागसाधनमात्रलक्षणया फलचमसप्रतिपादनेऽपि दोषः । तेन संख्यापूरणार्थं यावदश्रुतराजन्यकल्पना प्रक्रम्यते तावद्ब्राह्मणश्रुत्या संख्यान्तरं विधाय नैराकाङ्क्ष्यं क्रियते । न चैवं सति ग्रहेषु प्रसङ्गः । दश दशेत्यस्य चमसविषयत्वात् । राजन्यचमसेऽपि दशकप्राप्तौ सत्यां ब्राह्मणदशकेनैवावरोध इति द्रव्ये संस्कृते कृतार्थत्वाद्यजमानस्य नैव भक्षणेन भवितव्यम् । तस्माद्ब्राह्मणा 1215दशेति सिद्धम् ।

यत्तु भाष्यकारेण ब्राह्मणराजन्यानां सहभक्षणविप्रतिषेधस्य 1216‘न सोमेनोच्छिष्टा भवन्ति’ इत्युत्तरं दत्तं तत्र केचिच्चोदयन्ति । फलचमसे सोमत्वाभावात्कथमनुच्छिष्टत्वं संभवतीति । न त्वेष दोषः । स्थानापत्त्या सोमधर्मलाभात् । वक्ष्यति हि 1217‘नैमित्तिकमतुल्यत्वादसमानविधानं स्यात्’ 1218‘धर्मस्यार्थकृतत्वात्’ इति च । ननु पुरुषधर्मोऽयमनुच्छिष्टत्वं न युक्तं स्थानापत्त्याऽन्यत्र कल्पयितुम् । न कल्प्येत, यदि पुरुषधर्मोऽयं स्यात्, न त्वयं पुरुषधर्मः, फलकल्पनागौरवप्रसङ्गात् । सोमभक्षविषये चोच्छिष्टत्वप्रसङ्गेऽनुच्छिष्टत्वमभिहितम् । स च कर्मधर्म इति स्थितम् । अतो यथैव सोमः संस्क्रियमाणः कर्तुरुच्छिष्टतां नाऽऽपादयति, एवं तत्कार्यापन्नः फलचमसोऽपि । तस्मात्पूर्वयैवोपपत्त्या ब्राह्मणलाभसिद्धिरिति भावः ॥ ५३ ॥

  1. ( अ॰ १० पा॰ ३ सू॰ ५३ )
  2. दशेति—राजन्यचमसं भक्षयेयुरिति शेषः

  3. ( अ० ३ पा० ७ अ० १ सू० २ )

  4. विधान इति—एकैकमित्यस्यापि विधाने विधेयानेकत्वप्रयुक्तवाक्यभेदापत्तेरित्यर्थः ।

  5. अनुवादत्वासंभवादिति—एकैकमित्यस्येति शेषः ।

  6. पूर्वेण प्राप्तत्वादिति—‘शतं ब्राह्मणाः सोमान् भक्षयन्ति’ इत्यनेन पूर्वतनवाक्येनाविशेषाद्ग्रहेष्वपि भक्षणस्य प्राप्तत्वादित्यर्थः ।

  7. दशेति—राजन्यचमसे भक्षयितार इति शेषः ।

  8. उत्तरं दत्तमिति—पूर्वंपक्षग्रन्थे केचिदाहुरित्यादिना कृतायाः शङ्काया इति शेषः ।

  9. ( अ॰ ३ पा॰ ६ अ॰ १३ सू॰ ३६ ) ।
  10. ( अ॰ ९ पा॰ २ अ॰ १२ सू॰ ४० ) ।