1024 स्यात् । अनेकस्मिन्नपि वा दश दश भक्षयितारः प्राप्नुवन्ति । एकस्मिन्नपि वा चमसे दशानां दशानां प्रसङ्गः, शतस्यैव दशदशकैर्गणैः स्थित्वा चमसे भक्षणं स्यात् । तस्माद्वाक्यद्वयमस्मिन् व्याख्यानेऽनुपपन्नमिति, एवं व्याख्येयम् । द्वे अप्येते वाक्ये विधायके, तत्सरूपत्वात् । तत्रापि ‘दश दशैकैकम्’ इत्येतदेव पूर्वपक्षवत्प्रथममाश्रीयते । यथोक्तेन न्यायेन क्रमान्तरस्यानुपपत्तेः । अनुप्रसर्पन्तीत्यनेन तावदतिदेशप्राप्तभक्षोपलक्षणसंबन्धाद्यथा फलचमसभक्षेण यागोपलक्षणमुक्तं, तेन यच्चमसमनुप्रसर्पन्तीति, अन्यतरस्य साकाङ्क्षत्वाद्विशेषणविशेष्यभावमङ्गीकृत्यानुवादो, दश दशेति विधिः । चमसप्राधान्याच्च प्रत्येकं दशत्वभेदाद्वीप्सा भवति । ततः पूर्वं शतमितरेण वाक्येनानूद्य यच्छतं सोमान् भक्षयन्ति तद्ब्राह्मणा इति विधिः । न हि विधिसंभवे समस्तवाक्यानुवादत्वं युक्तम् । ब्राह्मणशब्दस्य च गौणत्वम् । शतमात्रसंबन्धेन च कृतार्थत्वादतन्त्रमेव सोमशब्दो भक्षयतिश्चेति न विशिष्टानुवाददोषः । नापि सोमशब्दाद्यागसाधनमात्रलक्षणया फलचमसप्रतिपादनेऽपि दोषः । तेन संख्यापूरणार्थं यावदश्रुतराजन्यकल्पना प्रक्रम्यते तावद्ब्राह्मणश्रुत्या संख्यान्तरं विधाय नैराकाङ्क्ष्यं क्रियते । न चैवं सति ग्रहेषु प्रसङ्गः । दश दशेत्यस्य चमसविषयत्वात् । राजन्यचमसेऽपि दशकप्राप्तौ सत्यां ब्राह्मणदशकेनैवावरोध इति द्रव्ये संस्कृते कृतार्थत्वाद्यजमानस्य नैव भक्षणेन भवितव्यम् । तस्माद्ब्राह्मणा 1215दशेति सिद्धम् ।

यत्तु भाष्यकारेण ब्राह्मणराजन्यानां सहभक्षणविप्रतिषेधस्य 1216‘न सोमेनोच्छिष्टा भवन्ति’ इत्युत्तरं दत्तं तत्र केचिच्चोदयन्ति । फलचमसे सोमत्वाभावात्कथमनुच्छिष्टत्वं संभवतीति । न त्वेष दोषः । स्थानापत्त्या सोमधर्मलाभात् । वक्ष्यति हि 1217‘नैमित्तिकमतुल्यत्वादसमानविधानं स्यात्’ 1218‘धर्मस्यार्थकृतत्वात्’ इति च । ननु पुरुषधर्मोऽयमनुच्छिष्टत्वं न युक्तं स्थानापत्त्याऽन्यत्र कल्पयितुम् । न कल्प्येत, यदि पुरुषधर्मोऽयं स्यात्, न त्वयं पुरुषधर्मः, फलकल्पनागौरवप्रसङ्गात् । सोमभक्षविषये चोच्छिष्टत्वप्रसङ्गेऽनुच्छिष्टत्वमभिहितम् । स च कर्मधर्म इति स्थितम् । अतो यथैव सोमः संस्क्रियमाणः कर्तुरुच्छिष्टतां नाऽऽपादयति, एवं तत्कार्यापन्नः फलचमसोऽपि । तस्मात्पूर्वयैवोपपत्त्या ब्राह्मणलाभसिद्धिरिति भावः ॥ ५३ ॥

इति राजन्यचमसे ब्राह्मणानां भक्षप्रतिपादनाधिकरणम् ॥ २० ॥
इति श्रीभट्टकुमारिलविरचिते मीमांसाभाष्यव्याख्याने तन्त्रवार्तिके तृतीयाध्यायस्य पञ्चमः पादः ।

पर्णतादेः प्रकृत्यर्थताधिकरणम्

  1. दशेति—राजन्यचमसे भक्षयितार इति शेषः ।

  2. उत्तरं दत्तमिति—पूर्वंपक्षग्रन्थे केचिदाहुरित्यादिना कृतायाः शङ्काया इति शेषः ।

  3. ( अ॰ ३ पा॰ ६ अ॰ १३ सू॰ ३६ ) ।
  4. ( अ॰ ९ पा॰ २ अ॰ १२ सू॰ ४० ) ।