सर्वविधीनामप्राप्तस्वविषयत्वाद्यत्र प्रमाणान्तरेण प्राप्तिर्नास्ति तत्र खादिरत्वाद्युपदेशः । प्रकृतौ च न कुतश्चित्प्राप्तिः । विकृतिष्वङ्गान्तरार्थमवश्यकल्पनीयेनातिदेशेन खादि1026 रत्वाद्यपि प्राप्नोतीति नोपदेशमपेक्षते । तेन द्विरुक्तस्यासंभव इत्याह । तव द्विरुक्तत्वादद्विरुक्तत्वाद्वा ममेति सूत्रम् ॥ २ ॥