1109 तस्य भक्षणासंभवाद्य एव जुहोति स एव प्रयच्छति भक्षणार्थं तं च ग्रहीतृत्वेन चमसा ध्वर्यूणां व्यापृतत्वात्तेभ्योऽन्यमध्वर्युं दर्शयति ॥ ४८ ॥

अशक्तौ ते प्रतीये1404रन् ॥ ४९ ॥

इति चमसहोमेष्वध्वर्युकर्तृत्वाधिकरणम् ॥ २२ ॥

श्येनादौ प्राकृताङ्गेषु नानाकर्तृकत्वाधिकरणम्

‘गुणमुख्य1405व्यतिक्रमे तदर्थत्वान्मुंख्येन वेदसंयोग’ इत्यत्र व्याख्यातं यथाऽङ्गानि

  1. ‘अध्वर्युर्वा तन्न्यायत्वात्’ इति सूत्र एव ‘यदि तु स जुहोति ततः कदाचित्तस्य व्यापृतत्वेनाशक्तौ सत्याम्’ इत्यादिना व्याख्यातत्वादधुना सूत्रस्य पाठमात्रं कृतम् ।

  2. ( अ॰ ३ पा॰ ३ अ॰ २ सू॰ ९ )