1111 कर्तृसंबन्धो न प्रधानद्वारेण । अथ तु वेदान्तरे पठ्यन्ते ततः प्रत्यक्षत्वे सत्यपि तयैव विशेषसमाख्यया बलीयस्या भवितव्यम् । अथात्रापि गुणमुख्यव्यतिक्रमन्या1410य आश्रीयते ततः स्तोत्रशस्त्रादीनां ज्योतिष्टोमस्याऽऽध्वर्यवसमाख्यानादध्वर्युकर्तृकत्वप्रसङ्गः । न चात्र ‘मन्द्रं प्रातःसवने’ इत्यादिवत्समाधानमरित । तरमान्न प्रधानेनाङ्गेषु स्वसमाख्या बाध्यते । सा त्वौत्पत्तिकेन कर्तृसंबन्धेन विनियुक्तार्था सती प्रधानेन गृह्यते । न चाङ्गानां प्रधानद्वारेणाऽऽध्वर्यवादिसमाख्या युज्यते । न हि प्रधानान्याध्वर्यवादिसमाख्याभिर्युज्यन्ते, गुणभूतेषु कर्तृव्यापारात् । या च प्रधानेषु न व्यापृता सा तद्द्वारेणाङ्गेष्ववतरिष्यतीति कुत एतत् । ऋग्वेदादिसमाख्या प्रधानेष्वङ्गेषु चाविरुद्धा । तेन क्रियत इति च तत्र व्यपदेशः । स च प्रधानप्रयोगवचनेन विधेयत्वादङ्गेषु युज्यते । पाठकृता चाऽऽध्वर्यवादिसमाख्या । सा यथापाठमेव भवितुमर्हति । न चात्र गुणमुख्यव्यतिक्रमन्यायेनानभ्युपगतेन किंचिददुष्यति । कण्टकवितोदनादयश्च प्रधानवेदसमानोत्पत्तय एव द्रष्टव्याः । तदात्मना च शक्यम्, ‘अव्यक्तः शेषः’ इति वक्तुं, नावश्यं प्रधानादेवावतरन्ती समाख्याऽनुगृह्यते । साक्षादनुग्रहेऽप्यननुग्रहेऽपि वाऽन्याङ्गेषु कृतार्थत्वेनाविरोधात्तेन प्राकृताङ्गव्यतिरिक्तेषु समाख्या विनियोक्रीति सिद्धम् ॥ ५१ ॥

इति श्येनादौ प्राकृताङ्गेषु नानाकर्तृकत्वाधिकरणम् ॥ २३ ॥
इति श्रीभट्टकुमारिलविरचिते मीमांसाभाष्यव्याख्याने तन्त्रवार्तिके तृतीयाध्यायस्य सप्तमः पादः ।

दक्षिणादानस्य यजमानकर्तृकत्वाधिकरणम्

  1. ( अ॰ ३ पा॰ ३ अ॰ २ ) अत्रत्यन्याय इत्यर्थः ।