उपदध्यादिति परस्मैपदादयाजमानत्वेऽवधारिते वरदानमृत्विक्कर्म । तत्सिद्धिश्च यदि तावच्छास्त्रीयेण परिक्रयेण लभ्यते ततोऽस्त्येव यजमानस्य कर्तृत्वम् । अथ न लभ्यते ततो लौकिक उपाय इति ॥ २ ॥