653 विना बाधेन वा विनियुज्यते । तथा विनियोजकश्रुत्यादिषट्कस्वरूपज्ञानं तेषां बलाबलज्ञानं च । तत्र प्रथमे पादे तावछ्रुतिविनियोगः किंचिच्च प्रासङ्गिकम् । द्वितीयपादादौ लिङ्गविनियोगः । तृतीयपादादौ तदेव प्रमाणद्वयमुपन्यस्योपक्रमोपसंहारद्वारेणैकवाक्यत्वेन सिद्धान्तस्थापनाद्विनाऽपि वाक्यग्रहणेन ‘प्रा521यदर्शनात्’ इति वाक्यविनियोगमुक्त्वा प्रकरणक्रमसमाख्याभिर्विनियोगः सूत्रोपनिबद्ध एव वक्ष्यते । ततो बलाबलाधिकरणम् । ततः परं च श्रुतिलिङ्गवाक्यानां प्रकरणेन सह विरोधाविरोधचिन्ता तावद्यावत् 522‘तुल्यः सर्वेषां पशुविधिः’ इति । ततश्च523तुर्णां क्रमेण सह पुनः सैव चिन्ता यावत् 524‘शास्त्रफलं प्रयोक्तरि’ इति । तत उपोद्धातपूर्वकं पञ्चभिः सह समाख्याया विरोधाविरोधविषयविचारेणाध्यायपरिसमाप्तिः । एतत्तात्पर्येणान्यदुपोद्घातप्रसक्तानुप्रसक्तेरिति वक्ष्यमाणमनुसंकीर्त्यते । प्रदर्शितमुच्यमानं सुखं ग्राहयिष्यते । सर्वं चैतच्छेषलक्षणप्रतिज्ञयैव पिण्डीकृतं प्रतिज्ञातमिति न भेदेन सूत्रितम् ॥ १ ॥

इति शेषप्रतिज्ञाधिकरणम् ॥ १ ॥

शेषत्वनिर्वचनाधिकरणम्

किं च ।

शेषलक्षणमात्रोक्तावर्थात्स्याच्छेषिलक्षणम् ।
अतः शेषः परार्थत्वादित्युक्तं शेषलक्षणम् ॥

शेषशब्दस्यानेकाधिकाद्यर्थवचनत्वादिहाङ्गगुणधर्मादिपर्यायवाचित्वपरिग्रहार्थं हेतुविशेषाभिधानं परार्थत्वादिति ।

यच्चान्यदविनाभावप्रयोज्यत्वादिकारणम् ।
तच्च सर्वं निराकर्तुं पारार्थ्यमिह गृह्यते ॥

द्वावपि चार्थौ श्रुत्यर्थापत्तिभ्यामुपात्ताविति चोदनालक्षणसूत्रवद्वाक्यभेददोषं परिहृत्य व्याख्येयम् । तथाहि ।

न शेषोऽन्यः परार्थत्वान्न च हेत्वन्तरेण सः ।
  1. ( अ॰ ३ पा॰ ३ अ॰ १ सू॰ २ ) एतत्सूत्रावयवः
  2. ( अ॰ ३ पा॰ ६ अ॰ ७ सू ॰ १८ ) ।
  3. ( चतुर्णामिति—श्रुतिलिङ्गवाक्यप्रकरणानामित्यर्थः

  4. ( अ॰ ३ पा॰ ७ अ॰ ८ सू॰ १८ )