745
अवश्यमेव सामान्यं विशेषं प्रति गच्छति ।
गतमात्रं च तत्तेन विशेषे स्थाप्यते ध्रुवम् ॥

अथवा विशेषेण प्राप्तत्वात्सामान्यमनूद्यते बर्हिषत्त्वकरणाविधानार्थम् । अथ तदपि प्राप्तं ततः क्रमार्थं श्रवणमिति वक्तव्यम् । अतश्चाऽऽग्नेयस्यैव चतुर्धाकरणमिति सिद्धम् । यदि तु तत्र केवलाग्निदेवत्यो नाभविष्यादिति—लक्षणार्था गुणश्रुतिरित्येतस्यैव व्याख्या । केवलदेवत्याभावे हि मनोतायाभिवाग्निशब्द उभौ लक्षयेत् । तदर्था वा गुणश्रुतिर्भवेत् । अस्ति त्वेकदेवत्यस्तस्मात्तस्यैव चतुर्धाकरणम् । यद्यपि चोपलक्षणं कार्ययोगि न भवति तथाऽपि तेनानुपलक्षितं न शक्यं ग्रहीतुमित्येकदेवत्यस्यैव ग्रहणमिति सिद्धम् ॥ २७ ॥

इति चतुर्धाकरणाधिकरणम् ॥ १५ ॥
इति श्रीभट्टकुमारिलविरचिते मीमांसाभाष्यव्याख्याने तन्त्रवार्तिके तृतीयस्याध्यायस्य प्रथमः पादः समाप्तः ॥

मन्त्राणां मुख्यार्थविनियोगाधिकरणम्

इदानीं लिङ्गविनियोगः स्तूयते । लिङ्गं नाम मन्त्राणामर्थप्रत्यायनसामर्थ्यम् । तच्च